________________
आचाराङ्ग सूत्रम् २/१/१/२/३४६
वृ. स भिक्षुर्यत्पुनरेवंभूतमाहारादिकं जानीयात्तदपुरुषान्तरकृतादिविशेषणमप्रासुकमनेषणीयमिति मन्यमानो नो गृह्णीयादिति सम्बन्धः, तत्र समवायो-मेलकः शङ्खच्छेदश्रेण्यादेः पिण्डनिकर:- पितृपिण्डो मृतकभक्तमित्यर्थ, इन्द्रोत्सवः प्रतीतः स्कन्दः - स्वामिकार्तिकेयस्तस्य महिमा - पूजा विशिष्टे काले क्रियते, रुद्रादयः श्रतीताः नवरं मुकुन्दो - बलदेवः, तदेवंभूतेषुनानाप्रकारेषु प्रकरणेषु सत्सु तेषु च यदि यः कश्चिच्छ्रमणब्राह्मणातिथिकृपणवणीमगादिरापतति तस्मै स र्वस्मै दीयत इति मन्यमानोऽपुरुषान्तरकृतादिविशेषणविशिष्टमाहारादिकं न गृह्णीयात्, अथापि सर्वस्मै न दीयते तथाऽपि जनाकीर्णमिति मन्यमान एवंभूते सङ्घडिविशेषे न प्रविशेदिति ॥
एतदेव सविशेषणं ग्राह्यमाह
अथ पुनरेवंभूतमाहारादिकं जानीयात्, तद्यथा-दत्तं यत्तेभ्यः श्रमणादिभ्यो दातव्यम्, 'अथ' अनन्तरं तत्र स्वत एव तान् गृहस्थान भुञ्जानान 'प्रेक्ष्य' दृष्ट्वाऽऽहारार्थी तत्र यायात्, तान् गृहस्थान् स्वनामग्राहमाह, तद्यथा-गृहपतिभार्यादिकं भुञ्जानं पूर्वमेव 'आलोकयेत्' पश्येत् प्रभुं प्रभुसंदिष्टं वा ब्रूयात्, तद्यथा-आयुष्पति ! भगिनि ! इत्यादि, दास्यसि मह्यमन्यतरद्भोजनजातमिति, एवं वदते साधवे परो-गृहस्थ आहृत्याशनादिकं दद्यात्, तत्र च जनसङ्कुलत्वात्सति वाऽन्यस्मिन् कारणे स्वत एव साधुर्याचेत्, अयाचितो वा गृहस्थो दद्यात्, तत्प्रासुकमेषणीयमिति मन्यमानो गृह्णीयादिति ॥ अन्यग्रामचिन्तामधिकृत्याह
३३६
मू. (३४७) से भिक्खू वा २ परं अद्धजोयणमेराए संखडि नञ्चा संखडिपडियाए नो अभिसंधारिजा गमणाए । से भिक्खू वा २ पाईणं संखडिं नञ्चा पडीणं गच्छे अणाढायमाणे, पडीणं संखडि नञ्चा पाईणं गच्छे अणाढायमाणे, दाहिणं संखडिं नञ्चा उदीणं गच्छे अणाढायमाणे, उईणं संखडि नचा दाहिणं गच्छे अणाढायमाणे, जत्थेव सा संखडि सिया, तंजहा ।
- गामंसि वा नगरंसि वा खेडंसि वा कव्वडंसि वा मडंबंसि वा पट्टणंसि वा आगरंसि वा दोणमुहंसि वा नेगमंसि वा आसमंसि वा संनिवेसंसि वा जाव रायहाणिंसि वा संखडि संखडिपडियाए नो अभिसंधारिजा गमणाए केवली बूया- आयाणमेयं संखडिं संखडिपडियाए अभिधारेमाणे आहाकम्मियं वा उद्देसियं वा मीसजायं वा कीयगडं वा पामिश्चं वा अच्छिन्नं वा अनिसिद्धं वा अभिहडं वा आहरु दिज्रमाणं भुजिज्जा ।।
अस्संजए भिक्खुपडियाए खुड्डियदुवारियाओ महल्लियदुवारियाओ कुजा, महल्लियदुवारियाओ खुड्डियदुवारियाओ कुज्जा, समाओ सिज्जाओ विसमाओ कुज्जा, विसमाओ सिजाओ समाओ कुज्जा, पवायाओ सिज्जाओ निवायाओ कुज्जा, निवायाओ सिजाओ पवायाओ कुजा, अंतो वा बहिं वा उवस्सयस्स हरियाणि छिंदिय छिंदिय दालिय दालिय संथारगं संथारिज्जा, एस विलुंगयामो सिजाए, तम्हा से संजए नियंठे तहप्पगारं पुरेसंखडिं वा पच्छासंखडिंवा संखडिं संखडिपडियाए नो अभिसंधारिज्जा गमणाए, एवं खलु तस्स भिक्खुस्स जाव सया जए।
वृ. स भिक्षु 'परं' प्रकर्षेणार्द्धयोजनमात्रे क्षेत्रे संखण्डयन्ते-विराध्यन्ते प्राणिनो यत्र सा सखडिस्तां ज्ञात्वा तव्प्रतिज्ञया 'नाभिसंधारयेत्' न पर्यालोचयेत्तत्र गमनमिति, न तत्र गच्छेदितियावत् ॥ यदि पुनर्ग्रामेषु परिपाट्या पूर्वप्रवृत्तं गमनें तत्रच सङ्घडिं परिज्ञाय यद्विधेयं तद्दर्शयितुमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org