________________
श्रुतस्कन्धः - २, चूडा-१, अध्ययनं-१, उद्देशक:
३२९ वृ. 'से' इति मागधदेशीवचनतः प्रथमान्तो निर्देशे वर्तते, यः कश्चिभिक्षणशीलो भावभिक्षुर्मूलोत्तरगुणधारी विविधाभिग्रहरतः 'भिक्षुणी वा' साध्वी, स मावभिक्षुर्वेदनादिभिः कारणैराहारग्रहणं करोति, तानिचामूनि - ॥१॥ "वेअण वेआवञ्चे इरियट्ठाए य संजमट्ठए।
तह पाणवत्तियाए छटुं पुण धम्मचिंताए" इत्यादि, अमीषां मध्येऽन्यतमेनापि कारणेनाहारार्थी सन् गृहपति-गृहस्थस्तस्य कुलंगृहं तदनुप्रविष्टः, किमर्थं ? - ‘पिंडवायपडियाए' त्ति पिण्डपातो-भिक्षालाभस्तप्रत्ज्ञया-अहमत्र भिक्षांलप्स्यइति,सप्रविष्टःसन्यपुनरशनादि जानीयात्, कथमिति दर्शयति-प्राणिमि रसजादिभि 'पनकैः' उल्लीजीवैः संसक्तं बीजैः' गोधूमादिमि हरितैः' दूर्वाऽङकुरादिभि उन्मिश्र' शबलीभूतं, तथाशीतोदकेन वा अवसिक्तम् आद्रीकृत रजसावा सचित्तेन परिघासियं' तिपरिगुण्डितं, कियद्वा वक्ष्यति? 'तयाप्रकारम् एवंजातीयमशुद्धमशनादिचतुर्विधमप्याहारं परहस्ते' दातृहस्ते परपात्रेवा स्थितम् 'अप्रासुकं सचित्तम् अनेषणीयम् आधाकर्मादिदोषदुष्टम् ‘इति' एवंमन्यमानः 'स' भावभिक्षु सत्यपि लाभेन प्रतिगृह्णीयादित्युत्सर्गतः,
अपवादतस्तु द्रव्यादि ज्ञात्वा प्रतिगृह्णीयादपि, तत्र द्रव्यं दुर्लभद्रव्यं क्षेत्रं साधारण द्रव्यलामरहितं सरजस्कादिभावितं वा कालो दुर्भिक्षादि भावो ग्लानतादि, इत्यादिभि कारणैरुपस्थितैरल्पबहुत्वं पर्यालोच्य गीतार्थो गृह्णीयादिति । अथ कथञ्चिदनाभोगा संसक्तमागामिसत्त्वोन्मिश्रं वा गृहीतं तत्र विधिमाह से आहश्चे' त्यादि सच भावभिक्षु आहश्चेति सहसा संसक्तादिकमाहारजातं कदाचिदनाभोगाप्रतिगृह्यीयात्, स चानाभोगो दातृप्रतिगृहीतृपदद्वयाच्चतुर्धा योजनीय इति, ‘तम्' एवंभूतमशुद्धमाहारमादायकान्तम् 'अपक्रामेत्' गच्छेत, तं 'अपक्रम्य, गत्वेति। ___ यत्र सागारिकाणामनालोकमसम्पातं च भवति तदेकान्तमनेकधेति दर्शयति अथारामे वा अथोपाश्रये वा अथशब्दोऽनापातविशिष्टप्रदेशोपसङ्गहार्थ, वाशब्दो विकल्पार्थ शून्यगृहाद्युपसङग्रहार्थो वा, तद्विशिनष्टि-'अल्पाण्डे' अल्पशब्दोडभाववचनः, अपगताण्ड इत्यर्थ, एवमल्पबीजेऽल्पहरिते 'अल्पावश्याये' अवश्याय उदकसूक्ष्मतुषारः, अल्पोदके, तथा अल्पो त्तिङ्गपनकदगमृत्तिकाम-कटसन्तानके तत्रोत्तिङ्गस्तृणाग्रउदकबिन्दुः, मुजीतेत्युत्तरक्रियया सम्बन्ध पनकः-उलीविशेषः,उदकप्रधानामृत्तिका उदकमृत्तिकेति, मर्कट:-सूक्ष्मजीवविशेषस्तेषांसन्तानः, यदिवा मर्कटकसन्तानः-कोलियकः, तदेवमण्डादिदोषरहिते आरामादिके स्थण्डिले गत्वा प्राग्गृहीताहारस्य यत्संसक्त्तद् 'विविच्य विविच्य त्यक्त्वा त्यक्त्वा, क्रियाऽभ्यावृत्त्याऽशुद्धस्य परित्यागनिशेष-तामाह, उन्मिभंवा' आगामुकसत्त्वसंवलितंसक्तुकादिततःप्राणिनः विशोध्य विशोध्य' अपनीयापनीय 'ततः' तदन्तरं शेषं शुद्धं परिज्ञाय सम्यग्यत एव भुञ्जीत पिबेता रागद्वेषविप्रमुक्तः सत्रिति, उक्तञ्च॥१॥ "बायालीसेसणसंकर्डमि गहणंमि जीव! ण हुछलिओ।
इम्हि जहन छलिज्जसि भुंजंतो रागदोसेहिं ॥२॥ रागेण सइंगालं दोसेण सधूमगं वियाणाहि।
रागद्दोसविमुक्के मुंजेज्जा निजरापेही"
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org