________________
३००
आचाराङ्ग सूत्रम् १/-/८/८/२५७ उत्क्रामयेत्, पापोपादानादात्मानं निवर्तयेदितियावत्, तत्रच धृतिसंहननाद्युपेतोऽप्रतिकर्म्मशरीरः प्रवर्धमानशुभाध्यवसायकण्डकोऽपूर्वापूर्वपरिणामारोही सर्वज्ञप्रणीतागमानुसारेण पदार्थस्वरूपनिरूपणाहितमतिः अन्यदिदं शरीरं त्याज्यमित्येवंकृताध्यवसायः सर्वान् स्पर्शान् दुःखविशेषाननुकूलप्रतिकूलोपसर्गपरीषहापादितान् तथा वातपित्तश्लेष्मद्वन्द्वेतरप्रोद्भूतान् कर्मक्षयायोद्यतो मयैवैतदवद्यं कृतं सोढव्यं चेत्येतदध्यवसायी अध्यासयेद् अधिसहेत,
तो यन्मया त्यक्तं शरीरमेतदेवोपद्रवन्ति न पुनर्जिघृक्षितं धर्म्माचरणमित्याकलय्य सर्वपीडासहिष्णुर्भवेदिति
यू. (२५८) अयं चाययतरे सिया, जो एवमनुपालए। सव्वगायनिरोहेऽवि, ठाणाता नवि उब्भमे ॥
वृ.गत इङ्गितमरणाधिकारः, साम्प्रतं पादपोपगमनमाश्रित्याह-अनन्तरमभिधास्यमानत्वाद्योऽयं प्रत्यक्षो मरणविधिः, स चाऽऽयततरो, न केवलं भक्तपरिज्ञाया इङ्गितमरणविधिरायततरः, अयं च तस्मादायततर इति चशब्दार्थः, आयततर इत्याङ्भिविधौ सामस्त्येन यत आयतः, अयमनयोरतिशयेनायत आयततरः, यदिवाऽयमनयोरतिशयेनात्तो- गृहीत आत्ततरः, यत्नेनाध्यवसित इत्यर्थः, तदेवमयं पादपोपगमनमरणविधिरात्ततरो- दृढतरः स्याद्मवेत्
अत्रापि यदिङ्गितमरणे प्रव्रज्यासंलेखनादिकमुक्तं तत्सर्वं द्रष्टव्यमिति, यद्यसावायततरः ततः किमिति दर्शयति-यो भिक्षुः 'एवम्' उक्तविधिनैव पादपोपगमनविधिमनुपालयेत् 'सर्वगात्रनिरोधेऽपि' उत्तप्यमानकायोऽपि मूर्च्छन्नपि मरणसमुद्घातगतो वा भक्ष्यमाणमांसशोणितोऽपि क्रोष्टुगृद्धपिपीलिकादिभिर्महासत्त्वतयाऽऽशंसितमहाफलविशेषः संस्तस्मात्स्थानात् - प्रदेशात् द्रव्यतो भावतोऽपि शुभाध्यवसायस्थानान्न व्युद्ममेत्-न स्थानान्तरं यायात् ।
मू. (२५९)
अयं से उत्तमे धम्मे, पुव्वद्वाणस्स पग्गहे । अचिरं पडिलेहित्ता, विहरे चिट्ठ माहणे ॥
वृ. किंच- 'अय' मित्यन्तःकरणमनिष्पन्नत्वात्प्रत्यक्षः 'उत्तमः ' प्रधानो मरणविधिः सर्वोत्तरत्वाद्धम्म-विशेषः पादपोपगमनरूपो मरणविशेष इति उत्तमत्वे कारणं दर्शयति- 'पूर्वस्थानस्य प्रग्रह' इति पञ्चम्यर्थे षष्ठी पूर्वस्थानाद्मक्तपरिज्ञेङ्गित्तमरणरूपाठप्रकर्षेण ग्रहोत्र पादपोपगमने, प्रगृहीततरमेतदित्यर्थः तथाहि अत्र यदिङ्गितमरणानुमतं कायपरिस्पन्दनं तदपि निषेध्यते अच्छिन्नमूलपादपवत्रिश्चेष्ट निष्क्रियो दह्यामानश्छिद्यमानो वा विषमपतितो वा तथैवास्ते न तस्मात्स्थानाच्चलति, चिलातपुत्रवत्, ।
एतदेव दर्शयति-अचिरं स्थानं, तच्च स्थण्डिलं तत्पूर्वविधिना प्रत्युपेक्ष्य तस्मिन् प्रत्युपेक्षिते स्थण्डिले विहरेदिति, अत्र पादपोपगमनाधिकाराद्विहरणं तद्विधिपालनमुक्तं तच्च स्थानात्स्थानान्तरसंक्रमणम्, एतदेव च दर्शयति- तिष्ठेत् सर्वगात्रनिरोधेऽपि, स्थानान्तरासङक्रमणं कुर्यादित्यर्थः कोऽसौ ? - 'माहणे' त्ति साधुः, स हि निषण्णो निषण्ण ऊर्ध्वंस्थितो वा निष्प्रतिकर्म्मा यद्यथानि - क्षिप्तमङ्गमचेतन इव न चालयेदितियावत् एतदेव प्रकारान्तरेण दर्शयितुमाहअचित्तं तु समासज्ज, ठावए तत्थ अप्पगं । वोसिरे सव्वसो कार्य, न मे देहे परीसहा ।।
पू. (२६०)
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org