SearchBrowseAboutContactDonate
Page Preview
Page 296
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं ८, उद्देशक ६ कालपर्यायेणेत्यपिशब्दार्थः, 'तस्य' कालज्ञस्य भिक्षोरसावेव कालपर्यायः, कर्मक्षयस्योभयत्र समानत्वादिति, आहच- 'सेवि तत्य वियंतिकारए' इत्यादि पूर्ववद्गतार्थम्, इतिब्रवीमिशब्दावपि क्षुण्णार्थावित् । २९३ अध्ययनं ८ उद्देशक:- ६ समाप्तः --: अध्ययनं ८ उद्देशक- ७ : वृ. उक्तंः षष्ठोद्देशकः, साम्प्रतं सप्तमव्याख्या प्रतन्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके एकत्वभावनाभावितस्य धृतिसंहननाद्युपेतस्येङ्गितरमणमभिहितम्, इह तु सैवैकत्वभावना प्रतिमाभिर्निष्पाद्यत इतिकृत्वाऽतस्ताः प्रतिपाद्यन्ते, तथा विशिष्टतरसंहननोपेतश्च पादपोपगमनमपि विदध्यादित्येतच्चेत्यनेन सम्बन्धेनायातस्यास्योद्देशकस्यादिसूत्रम् - मू. (२३६) जे भिक्खू अचेले परिवुसिए तस्स णं भिक्खुस्स एवं भवइ-चाएमि अहं तणफासं अहियासित्तए सीयफासं अहियासित्तए तेउफासं अहियासित्तए दंसमसगफासं अहियासित्तए एगयरे अन्नतरे विरूवरूवे फासे अहियासित्तए, हिरिपंडिच्छायणं चऽहं नो संचाएमि अहिआसित्तए, एवं से कप्पेइ कडिबंधणं धारित्तए । नृ. यो भिक्षुः प्रतिमाप्रतिपन्नोऽभिग्रहविशेषादचेलो - वासाः 'पर्युषितः ' संयमे व्यवस्थितो 'णम्' इति वाक्यालङ्काहारे 'तस्य' 'मिक्षोः 'एव' मिति वक्ष्यमाणोऽभिप्रायो भवति, तद्यथा शक्नोम्यहं तृणस्पर्शमपि सोढुं धृतिसंहननाद्युपेतस्य वैराग्यभावनाभावितान्तःकरणस्यागमेन प्रत्यक्षीकृतनारकतिर्यग्वेदनाऽनुभवस्य न मे तृणस्पर्शो महति फलविशेषेऽभ्युद्यतस्य किञ्चित् प्रतिभासते, तथा शीतोष्णदंशमशकस्पर्शमधिसोदुमिति, तथा एकतरान् अन्यतरांश्चानुधूलप्रत्यनीकान् विरूपरूवान् 'स्पर्शान्' दुःखविशेषानध्यासयितुं सोढुमिति, किं त्वहं ही लज्जा तया गुह्यप्रदेशस्य प्रच्छादनं ही प्रच्छादनं तच्चाहं त्यक्तुं न शक्नोमि, एतच्च प्रकृतिलज्जालुकतया साधनविकृतरूपतया वा स्यात्, एवमेभिः कारणेः 'स' तस्य 'कल्पते' युज्यते 'कटिबन्धनं' चोलपट्टकं कर्तु, स च विस्तरेण चतुरङ्गुलाधिको हस्तो दैर्येण कटिप्रमाण इति गणनाप्रमाणेनैकः पुनरेतानि कारणानि न स्युः ततोऽचेल एव पराक्रमेत, अचेलतया शीतादिस्पर्शं सम्यगधिसहेतेति । एतप्रतिपादयितुमाह 9 मू. (२३७) अदुवा तत्थ परक्कमंतं भुजो अचेलं तणफासा फुसन्ति सीयफासा फुसन्ति ते उफासा फुसन्ति दंसमसगफासा फुसन्ति एगयरे अन्नयरे विरूवरूवे फासे अहियासेइ, अचेले लाघवियं आगममाणे जाव समभिजाणिया । वृ. स एवं कारणसद्भावे सति वस्त्रं बिभृयादथवा नैवासौजिहेति, ततोऽचेल एव पराक्रमेत, तं च तत्र संयमेऽथेलं पराक्रममाणं भूयः पुनस्तृणस्पर्शाः स्पृशन्ति-उपतापयन्ति, तथा शीतोष्णदंशमशकस्पर्शाः स्पृशन्तीति, तथैकतरानन्यतरांश्च विरूपरूवान् स्पर्शानुदीर्णाधिसहते असावचेलोऽचेललाघवमागयमयन्नित्यादि गतार्थं यावत् 'सम्पत्तमेव समभिजाणिय'त्ति ॥ किं च- प्रतिमाप्रतिपन्न एव विशिष्टमभिग्रहंगृह्णीयात्, तद्यथा-अहमन्येषां प्रतिमाप्रतिपत्रानामेव किञ्चिद्दा स्यामि, तेभ्यो वा ग्रहीष्यामीत्येवमाकारं चतुर्भङ्गिकयाऽभिग्रहविशेषमाह यू. (२३८) जस्स णं भिक्खुस्स एवं भवइ- अहं च खलु अनेसिं भिक्खूणं असणं वा ४ For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy