________________
श्रुतस्कन्धः-१, अध्ययन-८, उद्देशकः६
२९१
तावन्मात्रकालस्थितेरभावाद्, अतस्तत्कालयोग्ययाऽऽनुपूर्व्या द्रव्यसंलेखनार्थमा- हारं निरुन्ध्यादिति।
द्रव्यसंलेखनया संलिख्य च यदपरं कुर्यात्तदाह-षष्ठाष्टमदशमद्वादशादिकयाऽऽ. नुपूर्व्याऽऽहारं संवर्ण कषायान् प्रतनून् कृत्वा सर्वकालं हि कषायतानवं विधेयं विशेषतस्तु संलेखनावसरे इत्यतस्तान् प्रतनून् कृत्वा सम्यगाहिता-व्यवस्थापिता अर्चा-शरीरं येन स समाहितार्चः, नियमितकायव्यापार इत्यर्थः, यदिवा अचलिश्या सम्यगाहिता-जनिता लेश्या येन स समाहितार्चः, अतिविशुद्धाध्यवसाय इत्यर्थः, यदिवाऽर्चा-क्रोधाद्यध्यवसायात्मिका ज्वाला समाहिता-उपशमिताऽर्चा येन स तथा, 'फलं' कर्मक्षयरूपं तदेव फलकं तेनापदिसंसारभ्रमणरूपायामर्थः-प्रयोजनं फलकापदर्थः स विद्यते यस्यासौ फलकापदर्थी, यदिवा फलकवद्वास्यादिभिरुभयतो बाह्यतोऽभ्यन्तरतश्चावकृष्टः फलकावकृष्टइ त्येवं विगृह्यार्षत्वात् 'फलगावयट्ठी' इत्युक्तं, यदिवा तक्ष्यमाणोऽपि दुर्वचनवास्यादिभिः कषायामावतया फलकवदवतिष्ठते तच्छीलश्चेतिफलकावस्थायी, वासीचन्दनकल्प इत्यर्थः,सएवम्भूतः प्रतिदिनं साकारभक्तप्रत्याख्यायी बलवति रोगावेग उत्थाय-अभ्युद्यतमरणोद्यमं विधायाभिनिवृत्तार्चःशरीरसन्तापरहितो धृतिसंहननाद्युपेतो महापुरुषाचीर्णमार्गानुविधायीङ्गितमरणं कुर्यात् ।। कथं कुर्यादित्याह
मू. (२३) अनुपविसित्ता गाम वा नगरं वा खेडं वा कब्बडं वा मडंबं वा पट्टणं वा दोणमुहं वा आगारं वा आसमं वा सत्रिवेसं वा नेगमं वा रायहाणिं वाला तणाइं जाइज्जा तणाई जाइत्ता से तमायाए एगंतमवक्कमिजा, एगंतमवक्कमित्ता अप्पंडे अप्पपाणे अप्पबीए अप्पहरिए अप्पोसे अप्पोदए अप्पुत्तिगपणगगमट्टियमकडासंताणएपडिलेहियर पमजियर तणाइंसंथरिजा,
तणाई संथरित्ता इत्थवि समए इत्तरियं कुञ्जा, तं सच्चं सघवाई ओए तिने छिनकहकहे आईयढे अणाईए चिचाण भेउरं कायं संविहूय विरूवरूवे परीसहोवसग्गे अस्सिं विस्संभणयाए भेरवमणुचिन्ने तत्थावि तस्स कालपरियाए जाव अणुगामियं-तिबेमि।
वृ.ग्रसतिबुद्धयादीन् गुणानिति गम्यो वाऽष्टादशानांकराणामितिग्रामः, सर्वत्र वाशब्दः पक्षान्तरदर्शनार्थः, नात्र करो विद्यतइति नकर,पांशुप्राकारबद्धंखेटं, क्षुल्लकप्राकारवेष्टितं कर्बर्ट, अर्द्धतृतीयगव्यतान्तामरहितंमडम्बं, पत्तनं तु द्विधा जलपत्तनं स्थलपत्तनंच, जलपत्तनं यथा काननद्वीपः,स्थलपत्तनं यथामथुरा, 'द्रोणमुखं जलस्थलनिर्गमप्रवेशं यथा भरुकच्छंतामलिप्ती वा, 'आकरो' हिरण्याकरादिः, 'आश्रमः' तापसावसथोपलक्षित आश्रयः, 'सन्निवेशः' यात्रासमागतजनावासो जनसमागतो वा 'नैगमः' प्रभूततरवणिग्वर्गावासः 'राजधानी' राजाधिष्ठानं राज्ञः पीठिकास्थानमित्यर्थः, एतेष्वेतानि वा प्रविश्य तृणानि संस्तारकाय प्रासुकानि दर्भवीरणादिकानि क्वचिद्ग्राभादौतृणस्वामिनमशुषिराणितृणानि याचित्वास तान्यादायैकान्तेगिरिगुहादावपक्रामेद-गच्छेदेकान्तं-रहोऽपक्रम्य च प्रासुकं महास्थण्डिलं प्रत्युपेक्षते, किम्भूतं तद्दर्शयति-अल्पान्यण्डानि कीटिकादीनां यत्र तदल्पाण्डं तस्मिन्, अल्पशब्दोऽत्राभावे वर्तते, अण्डकरहित इत्यर्थः, तथाऽल्पाः प्राणिनो-द्वीन्द्रियादयो यस्मिन् तत्तथा, तथा अल्पानिबीजानि नीवारश्यामाकादीनां यत्र तत्तथा, तथा अल्पानि हरितानि-दूर्बाप्रवालादीनि यत्र तत्तथा,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org