SearchBrowseAboutContactDonate
Page Preview
Page 261
Loading...
Download File
Download File
Page Text
________________ २५८ आचाराङ्ग सूत्रम् १/-/६/४/२०१ उत्सर्गचोदाचोदिताः सन्तः नैषा तीर्थकराज्ञेत्येवं मन्यन्ते, दर्शयन्ति चापवादपदानि "कुजा भिक्खू गिलाणस्स, अगिलाए समाहियं" इत्यादि, ततश्च यो येन ग्लायति तस्य तदपनयनार्थमाधाकम्र्म्माद्यपि कार्यं, स्यादेतत् किं तेषां नाख्याताः कुशीलानां प्रत्यपायाः यथाऽऽशातनाबहुलानां दीर्घः संसार इति ?, तदुच्यते- 'तुः ' अवधारणे, आख्यातमेवैतत्कुशीलविपाकादिकं श्रुत्वा 'निशम्य' अवबुध्य च शास्तारमेव परुषं वदन्तीति सम्बन्धः । किमर्थं तर्हिश्रृण्वन्तीति चेत्तदाह - 'समनोज्ञा' लोकसम्मता जीविष्याम इतिकृत्वा प्रश्नव्याकरणार्थमेव शब्दशास्त्रादीनि शास्त्राण्यधीयते, यदिवा अनेनोपायेन लोकसम्मता जीविष्याम इतिकृत्वैके निष्क्राम्य, अथवा समनोज्ञा उद्युक्तविहारिणः सन्तो जीविष्यामः संयमजीवितेनेत्येवं निष्क्रम्य पुनर्मोहोदयाद् असम्भवन्तः ते गौरवत्रिकान्यतरदोषात् ज्ञानादिके मोक्षमार्गे न सम्यग्भवन्तो-नोपदेशे वर्त्तमाना विविधं दह्यमानाः कामैर्गृद्धा गौरवत्रिकेऽध्युपपन्ना विषयेषु 'समाधि' इन्द्रियप्रणिधानमाख्यातं तीर्थकृदाद्भिः यमा वेदितं तं 'अजोषयन्तः' असेवमाना दुर्विदग्धा आचार्यादिना शास्त्राभिप्रायेण चोद्यमाना अपि तच्छास्तारमेव परुषं वदन्ति नास्मिन्विषये भवान् किञ्चिज्जानाति, यथाऽहं सूत्रार्थं शब्दं गणितं निमित्तं वा जाने तथा कोऽन्यो जानीते ?, इत्येवमाचार्यादिकं शास्तारं हीलयन्तः परुषं वदन्ति, यदिवा शास्तातीर्थकृदादिस्तमपि परुषं वदन्ति, तथाहि क्क चित्स्खलिते चोदिता जगदुः- किमन्यदधिकं तीर्थकृद्वक्ष्यत्यस्मद्गलकर्त्तनादपीति, इत्यादिभिरपाचीनैरालापैरलीकविद्यामगदावलेपाच्छास्त्रकृतामपि दूषणानि यदेयुः ।। न केवलं शास्तारं परुषं वदन्त्यपरानपि साधूनपवदेयुरित्येतदाहमू. (२०२) सीलमंता उवसंता संखाए रीयमाणा असीला अनुवयमाणस्स बिइया मंदस्स बालया । ? वृ. शीलम् - अष्टादशशीलाङ्गसहस्रसङ्घयं यदिवा महाव्रतसमाधानं पञ्चेन्द्रियजयः कषायनिग्रहस्त्रिगुप्तिगुप्तता चेत्येतच्छीलं विद्यते येषां ते शीलवन्तः, तथा उपशान्ताः कषायोपशमात्, अत्र शीलवद्गहणेनैव गतार्थत्वादुपशान्ता इत्येतद्विशेषणं कषायनिग्रहप्राधान्यख्यापनार्थं, सम्यक् ख्यायते प्रकाश्यतेऽनयेति संख्या प्रज्ञा तया 'रीयमाणाः ' संयमानुष्ठाने पराक्रममाणाः सन्तः कस्यचिद्विश्रान्तभागधेयतया अशीला एतइत्येवमनुवदतोऽतु-पश्चाद्वदतः पृष्ठतो वदतोऽन्येन वा मिथ्याध्ष्टयादिना कुशीला इत्येवमुक्तेऽनुवदतः पार्श्वस्थादेः द्वितीयैषा 'मन्दस्य' अज्ञस्य 'बालता' मूर्खता, एकं तावत्स्वतश्चारित्रापगमः पुनरपरानुद्युक्तविहारिणोऽपवदत इत्येषा द्वितीया बालता, यदिवा शीलवन्त एते उपशान्ता वेत्येवमन्येनाभिहिते क्वैषां प्रचुरोपकरणानां शीलवत्तोपशान्तता वा इत्येवमनुवदतो हीनाचारस्य द्वितीया बालता भवतीति । अपरे तु वीर्यान्तरायोदयात् स्वतोऽवसीदन्तोऽप्यपरसाधुप्रशंसान्विता यथावस्थितमाचारमावेदयेयुः इत्येतद्दर्शयितुमाह मू. (२०३) नियट्टमाणा वेगे आयारगोवरमाइक्खंति, नाणभट्टा दंसणलूसिणो । वृ. एके - कम्र्म्मोदयात् संयमान्निवर्त्तमाना लिङ्गाद्वा, वाशब्दादनिवर्त्तमाना वास यथावस्थितमाचारगोचरमाचक्षते, वयं तु कर्तुमसहिष्णव आचारस्त्वेवम्भूत इत्येवं वदतां तेषां Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy