________________
રધર
आचाराम सूत्रम् 9/1८/३/१९८
अल्पार्थेनञ्, यथाऽयंपुमानज्ञः, स्वल्पज्ञानइत्यर्थः, यःसाधुनास्यचेलं वस्त्रमस्तीत्यचेलः, अल्पचेल इत्यर्थः, संयमे पर्युषितो व्यवस्थित इति, तस्य भिक्षोः नैतद्भवति' नैतत्कल्पते यथा परिजीर्णं मे वस्त्रमचेलकोऽहं भविष्यामि न मे त्वक्राणं भविष्यति, ततश्च शीताद्यर्दितस्य किं शरणंमे स्यादितिवस्त्रं विनेत्यतोऽहं कञ्चन श्रावकादिकं प्रत्यग्रं वस्त्रंयाचिष्ये, तस्य वा जीर्णस्य वस्त्रस्य सन्धानाय सूत्रं याचिष्ये, सूचिंच याचिष्ये, अवाप्तभ्यां च सूचिसूत्राभ्यां जीर्णवस्त्ररन्ध्र सन्धास्यामि-पाटितं सेविष्यामि, लघु वा सदपरशकललगनत उत्कर्षयिष्यामि, दीर्घ वा सत् खण्डापनयनतो व्युत्कर्षयिष्यामि, एवं च कृतं सत्परिधास्यामि तथा प्रावरिष्यामीत्याद्यार्तध्यानोपहता असत्यपि जीर्णादिवसमावे यद्मविष्यत्ताऽध्यवसायिनो धमकप्रवणस्य न भवत्यन्तःकरणवृत्तिरिति, यदिवा जिनकल्पिकाभिप्रायेणैवैतत्सूत्रं व्याख्येयं, तद्यथा
जे अचेले' इत्यादि, नास्य चेलं-वस्त्रमस्तीत्य चेल:- अच्छिद्रपाणित्वात् पाणिपात्रः, पाणिपात्रत्वात् पात्रादिसप्तविधतन्निर्योगरहितोऽभिग्रहविशेषात् त्यक्तकल्पत्रयः केवलं रजोहरणमुखवस्त्रिकासमन्वितस्तस्याचेलस्य भिक्षो तद्भवति, यथा-परिजीर्णमेवस्त्रंछिद्रं पाटितं चेत्येवमादिवस्त्रगतमपध्यानंन भवति, धर्मिणोऽभावाद्धाभावः, सतितुधम्मिणिधमन्वेिषणं न्याय्यमिति सत्पथः,तथेदमपि तस्य न भवत्येव यथा-अपरंवस्त्रमहंयाचिष्ये इत्यादिपूर्ववत्रेयं, योऽपिछिद्रपाणित्वात्पात्रनिर्योगसमन्वितःकल्पत्रयान्यतरयुक्तोऽसावपिपरिजीर्णादिसद्भावे तद्गतमपध्यानं न विधत्ते, यथाकृतस्याल्पपरिकर्मणो ग्रहणात्सूचिसूत्रान्वेषणं न करोति। तस्य चाचेलस्याल्पचेलस्य वा तृणादिस्पर्शसद्भावे यद्विधेयं तदाह
तस्य ह्यचेलतयापरिवसतोजीर्णवस्त्रादिकृतमपध्यानंनभवति,अथवैतत्स्यात्-तत्राचेलवे पराक्रममाणंपुनस्तंसाधुमचेलंक्वचिद्रागमादौ त्वत्राणाभावात्तृणशय्याशायिनं तृणानांस्पर्शाः परुषास्तृणैर्वा जनिताः स्पर्शाः-दुःखविशेषास्तुणस्पर्शास्ते कदाचित्स्पृशन्ति, तांश्च सम्यग् अदीनमनस्कोऽतिसहत इति सम्बन्धः,तथाशीतस्पर्साः स्पृशन्ति, तथादंशमशकस्पर्शाः स्पृशन्ति, एतेषांतुपरीषहाणामेकतरेऽविरुद्धादंशमशकतृणस्पर्शादयःप्रादुर्भवेयुः,शीतोष्णादिपरीषहाणां वापरस्परविरुद्धानामन्यतरेप्रादुष्प्युः,प्रत्येकंबहुवचननिर्देशश्चतीव्रमन्दमध्यमावस्थासंसूचकः, इत्येतदेव दर्शयति-विरूप-बीभत्सं मनोऽनलादि विविधं वा मन्दादिभेदादूपं-स्वरूपं येषां ते विरूपरूपाः, के ते?
“स्पर्शाः'दुःखविशेषाः,तदापादकास्तृणादिस्पर्शावा, तान्सम्यक्षणेनापध्यानरहितोऽधिसहते, कोऽसौ ?- 'अचेलः' अपगतचेलोऽल्पचेलो वा अचलनस्वरूपो वा सम्यक्तितिक्षते, किमभिसन्ध्य परीषहानधिसहत इत्यत आह-लघो वो लाघवं, द्रव्यतो भावतश्च, द्रव्यतो घुपकरणलाघवं भावतः कर्मालाघवं 'आगमयन्' अवगमयन् बुध्यमान इतियावद् अधिसहते परीषहोपसम्मानिति, नागार्जुनीयास्तु पठन्ति एवं खलु से उवगरण लाघवियं तवं कम्मक्खय कारंण करेह एवं-- उक्तकोण भावलाघवार्थमुपकरणलाधवं तपश्च करोति इति भावार्थः । किं च
__से तस्योपकरणलाघवेनकर्मलाघवमागमयतः कर्मालाघवेनचोपकरणलाघवमागमयतस्तृणादिस्पर्शानधिसहमानस्य 'तपः' कायक्लेशरूपतया बाह्यमभिसमन्वागतं भवति-सम्यग्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org