________________
श्रुतस्कन्धः -१, अध्ययन-६, उद्देशकःर
२५१
'एषः' अनन्तरोक्तः उत्तरवाद' उत्कृष्टवाद इहमानवानांव्याख्यतइति । किंच--'अत्र' अस्मिन् कर्मधुननोपाये संयमे उप-सामीप्येनरतउपरतःतद्-अर्थप्रकारं कर्म 'झोषयन्' क्षपयन् धर्मचरेदिति, किंचापरंकुर्यादित्याह-आदीयत इत्यादानीयं-कर्मतत्परिज्ञायमूलोत्तरप्रकृतिभेदतो ज्ञात्वा 'पर्यायेण' श्रामण्येन विवेचयति, क्षपयतीत्यर्थः । अत्र चाशेषकर्मधुननासमर्थं तपस्तद्बाह्यमधिकृत्योच्यते-'इह' अस्मिन् प्रवचने 'एकेषां' शिथिलकर्मणामेकचर्या भवतिएकाकिविहारप्रतिमाऽभ्युपगमो भवति, तत्र च नानारूपाभिग्रहविशेषास्तपश्चरणविशेषाश्च भवन्तीत्यस्तावनामृतिकामधिकृत्याह
'तत्र' तस्मिन्नेकाकिविहारे 'इतरे सामान्यसाधुभ्यो विशिष्टतरा 'इतरेषु' अन्तप्रान्तेषु कुलेषुशुढेषणयादशैषणादोषरहितेनाहारादिना सर्वेषणये तिसर्वायाऽऽहाराधुद्गमोत्पादनग्रासैषणारूपातया सुपरिशुद्धेन विधिना संयमे परिव्रजन्ति, बहुत्वेऽप्येकदेशतामाह-स मेधावी मर्यादाव्यवस्थितःसंयमेपरिव्रजेदिति, किंच-सआहारस्तेष्वितरेषुकुलेषु सुरभि स्यात् अथवा दुर्गन्धः, न तत्र रागद्वेषौ विदध्यात्, किंच-अथवातत्रैकाकिविहारित्वेपितृवनप्रतिमाप्रतिपन्नस्य सतो 'भैरवा' यानका यातुधानादिकृताः शब्दाः प्रादुर्भवेयुः, यदिवा 'भैरवा' बीभत्साप्राणाः' प्राणिनो दीप्तजिह्वादयोऽपरान् प्राणिनः 'क्लेशयन्ति' उपतापयन्ति, त्वं तु पुनस्तैः स्पृष्टस्तान् स्पर्शानदुःखविशषान् धीरः' अक्षोभ्यःसन्नतिसहस्वाइतिरधिकारपरिसमाप्तौ, ब्रवीमीतिपूर्ववत्।
अध्ययनं-६-उद्देशकः-२ समाप्तः
अध्ययनं-६-उद्देशकः३:वृ. उक्तो द्वितीयोद्देशकः, साम्प्रतं तृतीय आरभ्यते, अस्य चायमभिसम्बन्धः, इहानन्तरोद्देशके कर्मधूननाऽभिहिता, साचनोपकरणशरीरविधूननामन्तरेण, इत्यतस्तद्विधूननार्थमिदमारभ्यते, इत्यनेनसम्बन्धेनायातस्यास्योद्देशकस्य सूत्रमुच्चारयितव्यम्, तच्चेदम्
मू. (१९८) एवं खु मुणी आयाणं सया सुयक्खायधम्मे विहूयकप्पे निझोसइत्ता, जे अचेलेपरिवुसिएतस्सणंभिक्खुस्स नोएवं भवइ-परिजुण्णे मेवस्थेवत्थंजाइस्सामिसुत्तंजाइस्सामि सूइंजाइस्सामि संधिस्सामिसीविस्सामिउक्कासिस्सामिवुक्कसिस्समिपरिहिस्सामिपाउणिस्सामि, अदुवा तत्थ परिकमंतं मुजो अचेलं तणफासा फुसंति सीयफासा फुसंति तेउफासा फुसंति दंसमसगफासा फुसंति एगयरे अन्नयो विरुवरुवे फासे अहियासेइ अचेले लाघवं आगममाणे, तवेसेअभिसमन्त्रागए भवइ,जहेयं भगवयापवेइयंतमेव अभिसमिचा सव्वओसव्वत्ताएसंमत्तमेव समभिजाणिजा, एवं तेसिं महावीराणं चिररायं पुव्वाइं वासाणि रीयमाणाणं दवियाणं पास अहियासियं।
वृ. एतत् यत्पूर्वोक्तं वक्ष्यमाणंवा 'खुः' वाक्यालङ्कारे,आदीयतेइत्यादानं-कर्मआदीयते वाऽनेन कर्मेत्यादानकर्मोपादानं, तब धर्मोपकरणातिरिक्तं वक्ष्यमाणं वस्त्रादि तन्मुनिः निर्दोषयितेति सम्बन्धः, किम्भूतः?-'सदासर्वकालं सुष्ठवाख्यातोधर्मोऽस्येतिस्वाख्यातधर्मासंसारभीरुत्वाद्ययारोपितभारवाहीत्यर्थः, तथा विधूतः-क्षुण्णः सम्यग्स्पृष्टः कल्पः-आचारो येन सतथा, सएवम्भूतोमुनिरादानंझोषयित्वा आदानमपनेष्यति, कथंपुनस्तदादानं वस्त्रादिस्यायेन तत् झोषयितव्यं भवेदित्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org