________________
श्रुतस्कन्धः- १, अध्ययनं-५, उद्देशक:
२०७
तदभिकाङ्क्षति अतो बालग्रहणं, बालो ह्यज्ञः, स चाज्ञानत्वादेव जीवितं बहु मन्यते, यत एव बालोऽत एव मन्तः- सदसद्विवेकापटुः, यत एव बुद्धिमन्दोऽत एव परमार्थं न जानाति, अतः परमार्थमविजानत् एवम्भूतं जीवितमित्येवं पश्यति ।
परमार्थमजानंश्च यत्कुर्यात्तदाह-'कूराणि' इत्यादि, 'राणि' निर्दयानि निरनुक्रोशानि 'कर्माणि' अनुष्ठानानि हिंसानृतस्तेयादीनिसकललोकचमत्कृतिकारीणिअष्टादश वा पापस्थानानि 'बालः अज्ञः प्रकर्षेण कुर्वाण, कभिप्राये क्रियाफले आत्मनेपदविधानात्तस्यैवतक्रियाफलविपाकं दर्शयति-'तेन' क्रूरकर्मविपाकापादितेन दुःखेन 'मूढः' किंकर्तव्याताऽऽकुलः, केन कृतेन ममैतदुःखमुपशमं या यादिति मोहमोहितो विपर्यासमुपैति-यदेव प्राण्युपघातादि दुःखोत्पादने कारणं तदुपशमाय तदेव विदधातीति । किं च_ 'मोहेण'इत्यादि, मोहः अज्ञानंमोहनीयंवा मिथ्यात्वकषायविषयाभिलाषमयंतेन मोहेन मोहितः सन् कर्म बध्नाति, तेन च गर्भमवाप्नोति, ततोऽपि जन्म पुनर्बालकुमारयौवनादिवयोविशेषाः, पुनर्विषयकषायादिना कर्मोपादायायुषः क्षयात् मरणमवाप्नोति, आदिग्रहणात्पुनर्गमित्यादि, नरकादियातनास्थानमेतीत्यतोऽभिधीयते-‘एत्थ; इत्यादि, अत्र' अस्मिन्ननन्तरोक्ते 'मोहे' मोहकार्ये गर्भमरणादिके पौनः पुन्येनानादिकमपर्यन्तं चतुर्गतिक संसारकान्तारं पर्यटति, नास्मादपैतीतियावत्,
कथंपुनः संसारेनवम्भ्रम्या?,तदुच्यते-मिथ्यात्वकषायविषयाभिलाषाभावाद्,असावेव कुतो?, विशिष्टज्ञानोत्पत्तेः?,सैवकुतो?, मोहाभावात्, यद्येवमितरेतराश्रयत्वं,तथाहि-मोहोऽज्ञानं मोहनीयं वा, तदभावो विशिष्टज्ञानोत्पत्तेः, साऽपि तदभावादिति भणता स्पष्टमेव इतरेतराश्रयत्वमुक्तं, ततश्च न यावद्विशिष्टज्ञानोत्पत्तिः संवृत्ता न तावत्कर्मशमनाय प्रवृत्तिः स्यात्, नैष दोषः, अर्थसंशयेनापि प्रवृत्तिदर्शनादिति । आह च
मू. (१५६) संसयं परिआणओ संसारे परिनाए भवइ, संसयं अपरियाणओ संसारे अपरिन्नाए भवइ।
वृ. 'संसय मित्यादि संशीतिः संशयः-उभयांशावलम्बा प्रतीतिः संशयः, स चार्थसंशयोऽनर्थसंशयश्च, इह चार्थो मोक्षो मोक्षोपायश्च, तत्र मोक्षे न संशयोऽस्ति, परमपदमितिप्रतिपादनात्, तदुपाये तुसंशयेऽपि प्रवृत्तिर्भवत्येव, अर्थसंशयस्य प्रवृत्त्यङ्गत्वात् । अनर्थस्तु संसारः संसारकारणंच, तत्सन्देहेऽपि निवृत्तिः स्यादेव,अनर्थसंशयस्य निवृत्त्यङ्गत्वात्' अतःसंशयमानर्थगतं परिजानतो हेयोपादेयप्रवृत्तिः स्यादित्येतदेव परमार्थतः संसारपरिज्ञानमिति दर्शयति
तेन संशयंपरिजानतासंसारश्चतुर्गतिकः तदुपादानंवा मिथ्यात्वाविरत्यादिअनर्थरूपतया परिज्ञातं भवति ज्ञपरिज्ञया, प्रत्याख्यानपरिज्ञया तु परिहतमिति, यस्तुपुनः संशयं नजानीते स संसारमपि न जानातीति दर्शयितुमाह-'संसयं' इत्यादि, 'संशय' सन्देहं द्विविधमप्यपरिजानतो हेयोपादेयप्रवृत्तिर्न स्यात्, तदप्रवृत्तौ च संसारोऽनित्याशुचिरूपो व्यसनोपनिपातबहुलोनिःसारो न ज्ञातो भवति ॥ कुतः पुनरेतन्निश्चीयते? यथा तेन संशयवेदिना संसारः परिज्ञात इति ?, किमत्र निश्चेतव्यं?, संसारपरिज्ञानकार्येविरत्युपलब्धे, तत्र सर्वविरतिप्रष्ठांविरतिं निर्दिदिक्षुराह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org