SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः - १, अध्ययनं-४, उद्देशकः२ १९३ पमानागमार्थापत्त्यादिभिः प्रकारैः सुष्टु प्रत्युप्रेक्षितं च - पर्यालोचितं च, मनःप्रणिधानादिना अस्माभिरस्मत्तीर्थकरेण वा, किं तदित्याह - सर्वे प्राणाः सर्वे जीवाः सर्वे भूताः सर्वे सत्त्वा हन्तव्या आज्ञापयितव्याः परिगृहीतव्याः परितापयितव्याअपद्रापयितव्याः, अत्रापि' धर्मचिन्तायामप्येवंजानीथ, यथा नास्त्यत्र यागार्थं देवतोपयाचितकतया वा प्राणिहननादौ दोषः' पापानुबन्ध इति, एवं यावन्तः केचन पाषण्डिका औद्देशिकभोजिनोब्राह्मणा वाधर्मविरुद्धंपरलोकविरुद्धंवावादभाषन्ते। अयंचजीवोपमर्दकत्वात् पापानुबन्धीअनार्यप्रणीतइति,आहच-आराद्याताः सर्वहयधर्मेभ्यः इत्यार्यास्तद्विपर्यासादनार्याःक्रूरकणिस्तेषां प्राण्युपधातकारीदं वचनं, ये तु तथाभूता न ते किम्भूतं प्रज्ञापयन्तीत्याह - 'तत्थ' इत्यादि, 'तत्रे'ति वाक्योपन्यासार्थे निर्धारणे वा, ये ते आर्या देशभाषाचारित्रार्यास्त एवमवादिषुर्यथा यत्तदनन्तरोक्तं दुर्दृष्टमेतद्दुष्टं दृष्टं दुर्दृष्टं 'भे' युस्माभिर्युष्मत्तीर्थकरेण वा, एवं यावद्दुष्प्रत्युपेक्षितमिति । तदेवं दुईष्टादिकं प्रतिपाद्य दुष्प्रज्ञापनानुवादद्वारेण तदभ्युपगमे दोषाविष्करणमाह_ 'जंण मित्यादि, णमिति वाक्यालङ्कारे, यदेतद्वक्ष्यमाणंयूयमेवमाचध्वमित्यादियावदत्रापि यागोपहारादौजानीथ यूयंयथानास्त्येवात्र-प्राण्युपमर्दानुष्ठाने दोषः-पापानुबन्ध इति, तदेवंपरवादे दोषाविर्भावनेन धर्माविरुद्धतामाविर्भाव्य स्वमतवादमार्या आविर्भावयन्ति- 'वय' मित्यादि, पुनःशब्दः पूर्वस्माद्विशेषमाह, वयं पुनर्यथ । धर्मविरुद्धवादो न भवति तथा प्रज्ञापयाम इति, तान्येव पदानि सप्रतिषेघानिहन्तव्यादीनियावन केवलमत्र-अस्मदीयेवचने नास्ति दोषोऽत्रापिअधिकारे जानीथ यूयं यथा 'अत्र' हननादिप्रतिषेधविधौ नास्ति दोषः-पापानुबन्धः, सावधारणत्वाद्वाक्यस्य नास्त्येव दोषः, प्राण्युपघातप्रतिषेधाच्चार्यवचनमेतत्, एवमुक्ते सति ते पाषण्डिका ऊचुः भवदीयमार्यवचनमस्मदीयंत्वनार्यमित्येतन्निरन्तराः सुहृदःप्रत्येष्यन्ति, युक्तिविकलत्वात्, तदत्राचार्यों यथा परमतस्यानार्यता स्यात्तथा दिदर्शयिषुः स्ववाग्यन्त्रिता वादिनो न विचलयिष्यन्तीतिकृत्वा प्रत्येकमतप्रच्छनार्थमाह - 'पुव्व' मित्यादि, पूर्वम्' आदावेव 'समयम्' आगमं यद्यदीयागमेऽभिहितं तत 'निकाच्य' व्यवस्थाप्य पुनस्ताद्विरूपापादनेन परमतानार्यता प्रतिपाद्येत्यतस्तदेवपरमतंप्रश्नयति, यदिवापूर्वप्राश्निकात्रिकाच्यततः पाषण्डिकान्प्रश्नयितुमाह ____पत्तेय' मित्यादि, एकमेकं प्रति प्रत्येकं भोः प्रावादुकाः ! भवतः प्रश्नयिष्यामि, किं भे' युष्माकं सातं' मनआह्लादकारिदुःखमुतासात-मनःप्रतिकूलं?, एवंपृष्टाः सन्तो यदि सातमित्येवं ब्रूयुः ततः प्रत्यक्षागमलोकबाधास्याद्, अथ चासातमित्येवंब्रूयुः ततः ‘समिया' सम्यक्प्रतिपन्नांस्तान् प्रावादुकान्स्ववाग्यन्त्रितानप्येवं ब्रूयात्-'अपिः' सम्भावने, सम्भाव्यतेएतद्भणनं-यथा न केवलं भवतांदुःखमसातं, सर्वेषामपिप्राणिनांदुःखमसातंमनसोऽनभिप्रेतम्अपरिनिर्वाणम्-अनिवृत्तिरूपं महद्भयं दुःखमित्येतत् परिगणय्य सर्वेऽपि प्राणिनो न हन्तव्या इत्यादि वाच्यं, तद्धनने च दोषः, यस्त्वदोषमाह तदनार्यवचनम् । इतिरधिकारपरिसमाप्तौ, ब्रवीमीति पूर्ववत्, तदेवं प्रावादुकानां स्ववाग्नियन्त्रणयाऽनार्यता प्रतिपादिता, अत्रैव रोहगुप्तमन्त्रिणा विदितागमसद्भावेन माध्यस्थ्यमवलम्बमानेनतीर्थिकपरीक्षाद्वारेण यथानिराकरणंचक्रे तथा नियुक्तिकारोगाथाभिराचष्टे [13 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy