SearchBrowseAboutContactDonate
Page Preview
Page 195
Loading...
Download File
Download File
Page Text
________________ आचाराङ्ग सूत्रम् १/-/४/२/१४५ श्रुतकेवलिनोयद्वदन्ति तद्यथार्थभाषित्वादेकमेव, एकेषां सर्वार्थप्रत्यक्षत्वादपरेषांतदुपदेशप्रवृत्तेरिति, वक्ष्यमाणेऽप्येकवाक्यतेति । तदाह मू. (१४६) आवंति केयावंती लोयंसि समणा य माहणा य पुढो विवायं वयंति, से दिट्ठ चणे सुयं च णे मयं च णे विण्णायं च णे उडूढं अहं तिरियं दिसासु सव्यओ सुपडिलेहियं च णेसव्वे पाणा सव्वे जीवा सव्वे भूया सव्वे सत्ता हन्तव्वा अज्जावेयव्वा परियावेयव्वा परिघेत्तव्वा उद्दवेयव्वा, इत्थवि जाणह नत्थित्य दोसो अनारिवयणमेयं, तत्थ जे आरिआ ते एवं वयासी से दुद्दिनं च मे दुस्सुयं च भे दुम्मयं च भे दुव्विण्णायं च भे उडूढं अहं तिरियं दिसासु सव्वओ दुप्पडिलेहियं च भे, जं णं तुब्भे एवं आइक्खह एवं भासह एवं परूवेह एवं पन्नवेह-सवे पाणा ४ हंतव्वा ५, इत्थवि जाणह नत्थित्थ दोसो, अनारियवयणमेयं, वयं पुण एवमाइक्खामो एवं भासामी एवं परुवेमो एवं पण्णवेमो-सव्वे पाणा ४ न हंतव्वा ? न अज्जावेयव्वा २ न परिधित्तव्वा ३ न परियावेयव्वा ४ न उद्दवेयव्वा ५, इत्थवि जाणह नत्थित्थ दोसो, आयरियवयणमेयं पुव्वं निकाय समयं पत्तेयं पत्तेयं पुच्छिस्सामि, हंभो पवाइया ! किं भे सायं दुक्खं असायं ? समिया पडिवण्णे यावि एवं बूयासव्वेसिं पाणाणं सव्वेसिं भूयाणं सव्वेसि जीवाणं सव्वेसिं सत्ताणं असायं अपरिनिव्वाणं महब्भयं दुक्खं- तिबेमि ॥ १९२ वृ. 'आवन्ती 'ति यावन्तः 'के आवन्ती' ति केचन 'लोके' मनुष्यलोके 'श्रमणापाषण्डिकाः 'ब्राह्मणा' द्विजातयः पृथक्पृथग् विरुद्धो वादो विवादस्तं वदन्ति, एतदुक्तं भवति यावन्तः केचन परलोकं ज्ञीप्सवस्ते आत्मीयदर्शनानुरागितया पाराक्यं दर्शनमपवदन्तो विवदन्ते, तथाहि भागवता ब्रुवते-“पञ्चविंशतितत्त्वपरिज्ञानान्मोक्षः, सर्वव्याप्यात्मा निष्क्रियो निर्गुणश्चैतन्यलक्षण, निर्विशेषं सामान्यं तत्त्व' मिति, वैशेषिकास्तु भाषन्ते "द्रव्यादिषट्पदार्थपरिज्ञानान्मोक्षः, समवायिज्ञानगुणेनेच्छाप्रयत्नद्वेषादिभिश्च गुणैर्गुणवानात्मा, परस्परनिरपेक्षं सामान्यविशेषात्मकं तत्त्व' मिति शाक्यास्तु वदन्ति- “यथा परलोकानुयाय्यात्मैव न विद्यते, निःसामान्यं वस्तु क्षणिकं चे 'ति, मीमांसकास्तु मोक्षसर्वज्ञाभावेन व्यवस्थिता इति, तथा केषाञ्चित् पृथिव्यादय एकेन्द्रिया जीवा न भवन्ति, अपरे वनस्पतीनामप्यचेतनतामाहुः, तथा द्वीन्द्रियादीनामपि कृम्यादीनां न जन्तुस्वभावं प्रतिपद्यन्ते, तद्भावे वा न तद्वधे बन्धोऽल्पबन्धता वेति, तथा हिंसायामपि मिन्नवाक्यता, तदुक्तम् 11911 प्राणी प्राणिज्ञानं घातकचित्तं च तद्गता चेष्टा । प्राणैश्च विप्रयोगः पञ्चभिरापद्यते हिंसा || इत्येवमादिक औद्देशिकपरिभोगाभ्यनुज्ञादिकश्च विरुद्धो वादः स्वत एवाभ्युह्यः । यदि वा ब्राह्मणाः श्रमणा धर्म्मविरुद्धं वादं यद्वदन्ति तत्सूत्रे मणैव दर्शयति- 'से दिट्टं च णे' इत्यादि यावत् 'नत्थित्थ दोसो'त्ति, 'से'त्ति तच्छब्दार्थे यदहं वक्ष्ये तत् 'दृष्टम्' उपलब्ध दिव्यज्ञानेनास्माभिरस्माकं वा सम्बन्धिना तीर्थकृता आगमप्रणायकेन चशब्द उत्तरापेक्षया समुच्चयार्थः, श्रुतं चास्माभिर्गुवदिः सकाशात्, अस्मद्गुरुशिष्यैर्वा तदन्तेवासिभिर्वा मतम्-अभिमतं युक्तियुक्तत्वादस्माकमस्म तीर्थकराणां वा विज्ञातं च तत्त्वभेदपर्यायैस्माभिरस्मत्तीर्थकरेण वा, स्वतो न परोपदेशदानेन, एतच्चोर्ध्वाधस्तिर्यक्षु दशस्वपि दिक्षु सर्वतः सर्वैः प्रत्यक्षानुमानो For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy