________________
१९०
आचाराङ्ग सूत्रम् 9/-1४/२/१४४
वृ. ज्ञानं सकलपदार्थाविर्भावकं विद्यते यस्यासौ ज्ञानी स 'आख्याति' आचष्टे 'इहे'ति प्रवचने केषां? -मानवानां, सर्वसंवरचारित्रार्हत्वात्तेषाम्, अथवोपलक्षणंचैतद्देवादीनां, तत्रापि केवल्यादिव्युदासाय विशेषणमाह-'संसार' इत्यादि, संसार-चतुर्गतिलक्षणं प्रतिपन्नाः संसारप्रतिपन्नाः, तत्रापि ये धर्म भोत्स्यन्ते ग्रहीष्यन्तेचमुनिसुव्रतस्वामिघोट-कदृष्टान्तेनतेषामेवाख्यातीत्येतद्दर्शयति- “सम्बुध्यमानानां' यथोपदिष्टं धर्म सम्यगवबुध्यमानानां, छद्मस्थेन त्वज्ञातबुध्यमानेतर-विशेषेणयादग्भूतानांकथयितव्यं तान् सूत्रेणैव दर्शयति-विज्ञानप्राप्तानां' हिताहितप्राप्तिपरिहाराध्यवसायो विज्ञानंतप्राप्ता विज्ञानप्राप्ताः,समस्तपर्याप्तिभिः पर्याप्ताः, संज्ञिन इत्यर्थः,
___ नागार्जुनीयास्तु पठन्ति-"आघाइ धम्म खलु से जीवाणं, तंजहा-संसारपडिवन्नाणं माणुसभवस्थाणं आरंभविणईणं दुक्खुव्वेअसुहेसगाणं धम्मसवणगवेसयाणं सुस्सूसमाणाणं पडिपुच्छमाणाणंविण्णाणपत्ताणं" एतच्च प्रायोगतार्थमेव, नवरमारम्भविनयिनामित्यारम्भविनयःआरम्भाभावः सविद्यते येषामितिमत्वर्थीयस्तेषामिति यथा चज्ञानीधर्मामाचष्टे तथा दर्शयति
'अट्टावि' इत्यादि, विज्ञानां प्राप्ता धर्म कथ्यमानं कुतश्चिनिमित्तादात् अपि सन्तः चिलातिपुत्रादय इव अथवा प्रमत्तविषयाभिष्वङ्गादिना शालिभद्रादय इव तथाविधकर्मक्षयोपशमापत्तेर्यथा प्रतिपद्यन्ते तथाऽऽचष्टे-यदिवाऽऽर्ताः-दुःखिनः प्रमत्ताः- सुखिनः, तेऽपि प्रतिपद्यन्ते धर्म, किं पुनरपरे?,
अथवाआत्तः- रागद्वेषोदयेन प्रमत्ता विषयैः, तेच तीथिका गृहस्था वा संसारकान्तारं विशन्तः कथं भवतां विज्ञातज्ञेयानां करुणास्पदानांरागद्वेषविषयाभिलाषोन्मूलनाय न प्रभवन्ति एतच्चान्यथा मा मंस्था इति दर्शयितुमाह-'अहा सच्च मित्यादि, इदं यन्मया कथितंकय्यमानंच तद्यथासत्यं, याथातथ्यमित्यर्थः, इत्येतदहं ब्रवीमि, यथा दुर्लभमवाप्यसम्यकत्वं चारित्रपरिणाम वाप्रमादोन कार्यः, स्यात् किमालम्ब्य प्रमादोन कार्यस्तदाह- 'नाणागमो' इत्यादि, न ह्यनागमो मृत्योर्मुखस्य कस्यचिदपि संसारोदरवर्त्तिनोऽस्तीति उक्तंच॥१॥ “वदत यदीह कश्चिदनुसंततसुखपरिभोगलालितः।
__ प्रयत्नशतपरोऽपि विगतव्यथमा युरवाप्तवान्नरः ॥२॥ न खलु नरः सुरौघसिद्धासुरकिन्नरनायकोऽपि यः।
सोऽपि कृतान्तदन्तकुलिशाक्रमेण कृशितो न नश्यति"
-तथोपायोऽपि मृत्युमुखप्रतिषेधस्य न कश्चिदस्तीति, उक्तंच॥१॥ "नश्यति नौति याति वितनोति करोति रसायनक्रियां,
चरति गुरुव्रतानि विवराण्यपि विशति विशेषकातरः । तपति तपांसि खादति मितानि करोति च मन्त्रसाधनं,
तदपि कृतान्तदन्तयन्त्रक्रकचक्रमणैर्विदार्यते" ये पुनर्विषयकषायाभिष्वङ्गात्प्रमत्ता धर्मनावबुध्यन्तेते किम्भूता भवन्तीत्याह-'इच्छा' इत्यादि, इन्द्रियमनोविषयानुकूला प्रवृत्तिरिहेच्छा तया विषयाभिमुखमभिकर्मबन्धं संसाराभि मुखं वा प्रकर्षण नीता इच्छाप्रणीताः. ये चैवम्भूतास्ते 'वंकानिकेता' वङ्कस्य-असंयमस्य आ
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org