________________
श्रुतस्कन्धः-१, अध्ययनं-४, उद्देशकार
१८९ तथाऽपरिस्रवाः-पापोपादानकारणानि केनचिदुपाधिना प्रवचनोपकारादिना क्रियमाणाः कणवीरलताभ्रामकक्षुल्लकस्येवानाम्रवाः-कर्मबन्धनानि न भवन्ति, यदिवा आवन्तीत्यावाः, पचाद्यच्, एवं परिस्रवन्तीति परिस्रवाः,अत्र चतुर्भङ्गिका-तत्र मिथ्यात्वविरतिप्रमादकषाययोगैर्य एव कर्मणामावाः-बन्धकाःतएवापरेषांपरिवान:-निर्जरकाः, एतेचप्रथमभङ्गपतिताः सर्वेऽपि संसारिणश्चतुर्गतिकाः, सर्वेषांप्रतिक्षणमुभयसमावात्, तथायेआम्रवास्तेऽपरिवाइतिशून्योऽयं द्वितीयमङ्गको, बन्धस्य शाटाविनाभावित्वाद, एवं येऽनासवास्ते परिस्रवाः, एते चायोगिकेवलिनस्तृतीयभङ्गपतिताः, चतुर्थभङ्गपतितास्तु सिद्धाः, तेषामनासवत्वादपरिस्रवत्वाच्चेति, अत्र चाद्यन्तभङ्गको सूत्रोपात्तौ, तदुपादाने च मध्योपादानस्यावश्यंभावित्वात् मध्यभङ्गकद्वयग्रहणं द्रष्टव्यमिति । यद्येवं ततः किमित्याह
___ “एएपए' इत्यादि, एतानि-अनन्तरोक्तानिपद्यते-गम्यते येभ्योऽर्थस्तानिपदानि, तद्यथायेआसवाइत्यादीनि, परस्यचार्थावगत्यर्थंशब्दप्रयोगादेतत्पदवाच्यानांश्चसम्यग्-अविपर्यासेन बुध्यमानस्तथा 'लोक' जन्तुगणमानवद्वारायातेन कर्णा बध्यमानं तपश्चरणादिना च मुच्यमानमाज्ञया-तीर्थंकरप्रणीतागमानुसारेणाभिसमेत्य-आभिमुख्येनसम्यकपरिच्छिद्यचशब्दो भिन्नक्रमः पृथक् प्रवेदितं चाभिसमेत्य पृथगाम्रवोपादानं निर्जरोपादानं चेत्येतज्ञ ज्ञात्वा को नाम धर्माचरणंप्रति नोद्यच्छेदिति?, कथंप्रवेदितमितिचेत्?, तदुच्यते, आम्रवस्तावज्ज्ञानप्रत्यनीकतया ज्ञाननिहवेन ज्ञानान्तरायेण ज्ञानप्रद्वेषेण ज्ञानात्याशातनया ज्ञानविसंवादेन ज्ञानावरणीयं कर्म बध्यते, एवं दर्शनप्रत्यनीकतया यावद्दर्शनविसंवादेन दर्शनावरणीयं कर्म बध्यते, तथा प्राणिनामनुकम्पनतया भूतानुकम्पनतया जीवानुकम्पनतया सत्त्वानुकम्पनत्वेन बहूनां प्राणिनामदुःखोत्पादनतयाअशोचनतयाअजूरणतयाअपीडनतयाअपरितापनतयासातावेदनीयं कर्म बध्यते, एतद्विपर्ययाच्चासातावेदनीयमिति,
___ तथाऽनन्तानुबन्ध्युत्कटतया तीव्रदर्शनमोहनीयतया प्रबलचारित्रमोहनीयसद्भावान्मोहनीयंकर्मबध्यते, महारम्भतया महापरिग्रहतयापञ्चेन्द्रियवधात्कुणिमाहारेण नरकायुष्कं बध्यते, मायावितयाअनृतवादेन कूटतुलाकूटमानव्यवहारात्तिर्यगायुर्बध्यते, प्रकृतिविनीततया सानुक्रोशतया अमात्सर्यान्मुष्यायुष्कं, सरागसंयमेन देशविरत्या बालतपसा अकामनिर्जरया देवायुष्कमिति, कायर्जुतया भावर्जुतया भाषर्जुतयाअविसंवादनयोगेनशुभनामवध्यते, विपर्ययाच्च विपर्यय इति, जातिकुलबलरूपतपःश्रुतलामैश्वर्यमदाभावादुच्चैर्गोत्रं, जात्यादिमदात्परपरिवादाच्च नीचेर्गोत्रं, दानलाभभोगोपभोगवीर्यान्तरायविधानादान्तरायिकं कर्म बध्यते, एते ह्यानवाः,
साम्प्रतं परिस्रवाः प्रतिपाद्यन्ते-अनशनादि सबाह्याभ्यन्तरं तप इत्यादि, एवमानवकनिर्जरकाः सप्रभेदा जन्तवो वाच्याः, सर्वेऽपि च जीवादयः पदार्था मोक्षावसाना वाच्याः । एतानिचपदानि सम्बुध्यमानस्ती-र्थकरगणधरैर्लोकमभिसमेत्यपृथक्पृथक्प्रवेदितम्, अन्योऽपि तदाज्ञानुसारी चतुर्दशपूर्वविदादिः सत्त्वहिताय परेभ्य आवेदयतीत्येतदर्शयितुमाह--
मू.(१४४)आघाइनाणीइहमाणवाणंसंसारपडिवण्णाणंसंबुज्झमाणाणवित्राणपत्ताणं, अट्टाविसंता अदुवा पमत्ता अहा सच्चमिणं तिबेमि, नाणागमो मच्चुमुहस्स अस्थि, इच्छा पणीया वंकानिकेया कालगहिया निचयनिवट्ठा पुढो पुढो जाई पकप्पयंति।
www.jainelibrary.org
Jain Education International
For Private & Personal Use Only