SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ १६८ आचाराङ्ग सूत्रम् १/-/३/२/११९ जीवितुं शीलमस्येति विविक्तजीवी, यश्चैवम्भूतः स इन्द्रियनोन्द्रियोपशमादुपशान्तो, यश्चोपशान्तः स पञ्चभिः समितिभिः सम्यग्वा इतो गतो मोक्षमार्गे समितः, यश्चैवं स ज्ञानादिभिः सहितःसमन्वितो, यश्च ज्ञानादिसहितः स सदा यतः - अप्रमादी किमवधिश्चायमनन्तरोक्तो गुणोपन्यास इत्याह 'काल' इत्यादि, कालो- मृत्युकालस्तमाकाङ्क्षितुं शीलमस्येति कालाकाङ्क्षी स एवम्भूतः परिः समन्तात्प्रजेत्परिव्रजेत् यावत्पर्यायागतं पण्डितमरणं तावदाकाङ्क्षमाणो विविक्तजीवित्वादिगुणोपेतः संयमानुष्ठानमार्गे परिष्वष्केदिति । स्यादेतत् किमर्थं एवं क्रियते ? इत्याहमूलोत्तरप्रकृतिभेदभिन्नं प्रकृतिस्थित्यनुभावप्रदेशवन्धात्मकं बन्धोदयसत्कर्म्मताव्यवस्थामयं तथा बद्धस्पृष्टनिधत्तनि - काचितावस्था गतं कर्म्म तच्च न ह्रसीयसा कालेन क्षयमुपयातीत्यतः कालाकाङक्षीत्युक्तं, तत्र बन्धस्थानापेक्षया तावन्मूलोत्तरप्रकृतीनां बहुत्वं प्रदर्श्यते, तद्यथासर्वमूलप्रकृतीबंध्नतोऽन्तमुहूर्तं यावदष्टविधं आयुष्कवर्ज सप्तविधं, तज्जधन्येनान्तर्मुहूर्तमुत्कृष्टतस्तद्रहितानि त्रयस्त्रिशंत्सागरोपमाणि पूर्वकोटित्रिभागाभ्यधिकानि, सूक्ष्मसंपरायस्य मोहनीयबन्धोपरमे आयुष्कबन्धाभावात् षड्विधम्, एतच्च जघन्यतः सामयिकमुत्कृष्टतस्त्वन्तर्मुहूर्त्तमिति, तथोपशान्तक्षीणमोहसयोगिकेवलिनां सप्तविधबन्धोपरमे सातमेकं बध्नतामेकविधं बन्धस्थानं, तञ्च जघन्येन सामयिकमुत्कष्टतो देशोनपूर्वकोटि कालियं । इदानीभुत्तर प्रकृतिबन्ध स्थानान्यमिधीयन्ने-तत्र ज्ञानावरणान्तराययोः पञ्चभेदयोरप्येकमेव ध्रुवबन्धित्वादूवन्धस्थानं, दर्शनावरणीयस्य त्रीणि बन्धस्थानानि-निद्रापञ्चकदर्शनचतुष्टयसमन्वयाद् ध्रुवबन्धित्वान्नवविधं १, ततः स्त्यानर्द्धित्रिकस्यानन्तानुबन्धिभिः सह बन्धोपरमे षड्विधं २, अपूर्वकरणसङ्घयेयभागे निद्राप्रचलयोर्बन्धोपरमे चतुर्विधंबन्धस्थानं ३ | वेदनीयस्यैकमेव बन्धस्थानं-सातमसातं वा बधन्तः, उभयोरपि यौगपद्येन विरोधितया बन्धाभावात् । मोहनीयबन्धस्थानानि दश, तद्यथाद्वाविंशतिः - मिथ्यात्वं १ षोडश कषाया १७ अन्यतरवेदो १८ हास्यरतियुग्मारति शोकयुग्मयोरन्यतर २० द्भयं २१ जुगुप्सा २२ चेति १, मंध्यात्वबन्धोपर मे सास्वादनस्य सैवैक- विंशतिः २, सैव सम्यगमिथ्यादृष्टेरविरतसम्यग्दृष्टेर्वा अनन्तानुबन्ध्यभावे सप्तदशविधं बन्धस्थानं ३, तदेव देशविरतस्याप्रत्याख्यानबन्धाभावे त्रयोदशविधं ४, तदेव प्रमत्ताप्रमत्तापूर्वकरणानां यतीनां प्रत्याख्यानावरणबन्धाभावान्नवविधं ५ एतदेव हास्यादियुग्मस्य भयजुगुप्सयोश्चापूर्वकरणचरमसमये बन्धोपरमात्पञ्चविधं ६, ततोऽ निवृत्तिकरणसङ्घयेयभागावसाने पुंवेदबन्धोपरमाच्चतुर्विधं ७, ततोऽपि तस्मिन्नेव सङ्घयेयभागे क्षयमुपगच्छति सति क्रोधमानमायालोभस अवलनानां क्रमेण बन्धोपरमात्रिविधं ८ द्विविध ९ मेकविधं १० चेति, तस्याप्यनिवृत्तिकरणचरमसमये बन्धोपरमान्मोहनीयस्वाबन्धकः । आयुषः सामान्येनैकविधं बन्धस्थानं चतुर्णामन्यतरत्, द्वयादेर्यौगपद्येन बन्धाभावो विरोधादिति । नाम्नोऽष्टौ बन्धस्थानानि, तद्यथा त्रयोविंशतिस्तिर्यग्गतिप्रायोग्यं बध्नतस्तिर्यग्गतिरिकेन्द्रियजातिरौदारिकतैजसकार्म्मणानि हुण्डसंस्थानं वर्णगन्धरसस्पर्शास्तिर्यग्गतिप्रायोग्यानुपूर्वी अगुरुलधूपघातं स्थावरं बादरसूक्ष्मयोरन्यतरदपर्याक्तकं प्रत्येकसाधारणयोरन्यतरत् अस्थिरं अशुभं दुर्भ अनादेयं अयशः कीर्तिर्निर्माणमिति, इयमेकेन्द्रिया For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy