________________
श्रुतस्कन्धः १, अध्ययनं - ३, उद्देशक: २
विषयसङ्गादावा योज्यं ।। यतश्चैवमतः किमित्याह
मू. (११८) तम्हातिविज्जो परमंति नच्चा, आयंकदंसी न करेइ पावं । अग्गं च मूलं च विगिंच धीरे, पलिच्छिंदिया णं निक्कमदंसी ॥
वृ. यस्माद्वालसङ्गिनो वैरं वर्द्धते तस्मादतिविद्वान् परमं-मोक्षपदं सर्वसंवररूपं चारित्रं वा सम्यग्ज्ञानं सम्यग्दर्शनं वा, एतत्परमिति ज्ञात्वा किं करोतीत्याह- 'आयंके' त्यादि, आतङकोनरकादिदुःखं तद्रष्टुं शीलमस्येत्यातङ्कदर्शीस 'पापं पापानुबन्धि कर्म्म न करोति, उपलक्षणार्थत्वान्न कारयति नानुमन्यते । पुनर्युपदेशदानायाह- 'अग्गं च' इत्यादि, अग्रभवोपग्राहिकर्म्मचतुष्टयं मूलंघातिकर्म्मचतुष्टयं, यदिवा मोहनीयं मूलं शेषाणि त्वग्रं, यदिवा मिध्यात्वं मूलं शेषं त्वग्रं, तदेवं सर्वमग्रं मूलं च 'विगिंध' इति त्यजापनय पृथक्कुरु, तदनेनेदमुक्तं भवति-न कर्म्मणः पौद्गलिकस्यात्यन्तिकः क्षयः, अपि त्वात्मनः पृथक्करणं, कथं मोहनीयस्य मिथ्यात्वस्य वा मूलत्वम् ? इति चेत्, तद्वशाच्छेषप्रकृतिबन्धो यतः, उक्तं च
11911
१६७
“न मोहमतिवृत्त्य बन्ध उदितस्त्वया कर्म्मणां, न चैकविधबन्धनं प्रकृतिबन्धविभवो महान् । अनादिभवहेतुरेष न च बध्यते नासकृत्वयाऽतिकुटिला गतिः कुशल ! कर्म्मणां दर्शिता "
तथा चागमः - " कहन्नं भंते! जीवा अट्ठ कम्मपगडीओ बंधंति ?, गोयमा ! नाणावरणिजस्स उदएणं दरिसनावरणिज्जं कम्मं नियच्छइ, दरिसनावरणिजस्स कम्मस्स उदएणं दंसणमोहणीयं कम्मं नियच्छइ, दंसणमोहणिज्जस्स कम्मस्स उदएणं मिच्छत्तं नियच्छइ, मिच्छत्तेणं उदिष्णेणं एवं खवु जीवे अट्ठकम्मपगडीओ बंधइ", क्षयोऽपि मोहनीयायाविनाभावी, उक्तं च"नायगंमि हते संते, जहा सेना विनस्सई ।
11911
एवं कम्मा विनस्संति, मोहणिजे खयं गए"
इत्यादि, अथवा मूलम् - असंयमः कर्म्म वास अग्रं-संयमतपसी मोक्षो वा ते मूलाग्रे 'धीरः ' अक्षोभ्यो धीविराजितो वा विवेकेन दुःखसुखकारणतयाऽवधारय । किं च 'पलिच्छिदिया ण'मित्यादि, तपःसंयमाभ्यां रागादीनि बन्धनानि तत्कार्याणि वा कर्माणि छित्त्वा निष्कर्म्मदर्शी भवति, निष्कम्र्माणमात्मानं पश्यति तच्छीलश्च निष्कर्म्मत्वाद्वा अपगतावरणः सर्वदर्शी सर्वज्ञानी च भवति ॥ यश्च निष्कर्म्मदर्शी भवति सोऽपरं किमाप्नुयादित्याह -
मू. (११९) एस मरणा पमुचइ, से हु दिट्टभए मुनी, लोगंसि परमदंसी विवित्तजीवी उवसंते समिए सहिए सयाजए कालकंखी परिवए, बहुं च खलु पावं कम्मं पगडं ।
वृ. 'एष' इत्यनन्तरोक्तो मूलाग्ररेचको निष्कर्म्मदर्शी मरणाद्-आयुः क्षयलक्षणात् मुच्यते, आयुषो बन्धनाभावाद्, यदिवा आजवजवीभावादावीचीमरणाद्वा सर्व एव संसारो मरणं तस्मात्प्रमुच्यते । यश्चैवं स किम्भूतो भवतीत्याह से हु' इत्यादि, 'सः' अनन्तरोक्तो मुनिदृष्टं संसाराद्भयं सप्तप्रकारं वा येन स तथा, हुरवधारणे दृष्टभय एव । किंच 'लोयंसि' इत्यादि, लोके द्रव्याधारे चतुर्द्दशभूतग्रामात्मके चा परमो मोक्षस्तत्कारणं वा संयमः तं द्रष्टुं शीलमस्येति परमदर्शी, तथा ' विविक्तं ' स्त्रीपशुपण्डकसमन्वितशय्यादिरहितं द्रव्यतः भावतस्तु रागद्वेषहितमसङ्क्लिष्टं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org