________________
१६२
आचाराङ्ग सूत्रम् १/-/३/१/११२ परीषहाणामुपसर्गाणांवा कर्मक्षपणायोद्यतः साहाय्यं मन्यमानो 'नो वेत्ति' न तान् पीडाकारित्वेन गृह्णातीत्युक्तं भवति, यदिवा संयमस्य तपसो वापरुषतांशरीरपीडोत्पादनात् कर्मलेपापनयनाद्वा संसारोद्विग्नमना मुमुक्षुर्निराबाधसुखोन्मुखो 'नवेत्ति' नसंयमतपसीपीडाकारित्वेन गुह्णातीतियावत्। किंच- 'जागर' इत्यादि, असंयमनिद्रापगमाज्जागर्तीति जागरः,अभिमानसमुत्थोऽमर्षावेशः परापकाराध्यवसायो वैरंतस्मादुपरतो वैरोपरतो, जागरश्चासौ वैरोपरतश्चेति विगृह्य कर्मधारयः, क एवम्भूतो?_ 'वीरः' कापयनशक्त्युपेतः, एवम्भूतश्च त्वं वीर! आत्मानं परंवादुःखादुःखकारणाद्वा कर्मणः प्रमोक्ष्यसीति । यश्च यथोक्ताद्विपरीतः आवर्तश्रोतसोः सङ्गमुपगतोऽजागरः स किमाप्नुयादित्याह - जरा च मृत्युश्च ताभ्यामात्मवशमुपनीतो 'नरः' प्राणी सततम्' अनवरतं 'मूढो' महामोहमोहितमतिर्द्धर्म-स्वर्गापवर्गमार्गनाभिजानीते-नावगच्छति, तत्संसरे स्थानमेव नास्ति यत्र जरामृत्यू न स्तः, देवानां जराऽभाव इति चेत्, न तत्राप्युपान्त्यकाले लेश्याबलसुखप्रभुत्ववर्णहान्युपपत्तेरस्त्येव च तेषामपि जरासद्भावः, उक्तं च – “देवा णं मंते! सब्वे समवण्णा?, नोइणढेसमढे, सेकेणटेणं भंते! एव वुच्चइ?,गोयमा! देवादुविहा-पुब्बोववण्णगा यपच्छोववण्णगाय।तत्थणंजे तेपुव्बोचवण्णगातेणं अविसुद्धवण्णयरा, जेणंपच्छोववण्णगा तेणं विसुद्धवण्णयरा” एवं लेश्याद्यपीति, च्यवनकाले तु सर्वस्यैवैतद्भवति, तद्यथा॥१॥ “माल्यग्लानिः कल्पवृक्षप्रकम्पः, श्रीहीनाशो वाससांचोपरागः।
दैन्यं तन्द्रा कामरागाङ्गभङ्गौ, दृष्टिभ्रान्तिर्वेपथुश्चारतिश्च ॥" यतश्चैवमतः सर्वं जरामृत्युवशोपनीतमभिसमीक्ष्य किं कुर्यादित्याह -
मू. (११३) पासिय आउरपाणे अप्पमत्तो परिव्वए, मंता य मइमं, पास आरंभ दुक्खमिणति नचा, माई पमाई पुण एइ गब्भ, उवेहमाणो सद्दरूवेसु उज्जू माराभिसंकी मरणा पमुचई, अप्पमत्तो कामेहिं, उवरओ पावकम्मेहि, वीरे आयगुत्ते खेयन्ने, जे पज्जवजायसत्थस्स खेयन्ने से असत्थस्सखेयन्ने, जे असत्थस्सखेयन्ने से पज्जवञ्जायसत्यस्सखेयन्ने, अकम्मस्स ववहारो न विजइ, कम्मुणा उवाही जायइ, कम्मंच पडिलेहाए।
वृ.स हि भावजागरस्तैस्तैर्भावस्वापजनितैःशारीरमानसैर्दुःखैरातुरान्-किंकर्तव्यतामूढान् दुःखसागरावगादान्प्राणानभेदोपचारात्प्राणिनो इष्टवा' ज्ञात्वाऽप्रमत्तः परिव्रजेद्-उद्युक्तः सन् संयमानुष्ठानं विदध्यात् । अपि च - ‘मंता' इत्यादि, हे मतिमन् !- सश्रुतिक ! भावसुप्तातुरान् पश्य, मत्वाचैतजाग्रत सुप्तगुणदोषापादनंमास्वापमतिं कुरु,किंच-'आरंभज'मित्यादि,आरम्भःसावधक्रियानुष्ठानं तस्माजातमारम्भजं, किं तद् ?- दुःखं तत्कारणं वा कर्म । 'इद'मिति प्रत्यक्षगोचरापन्नपशेषारम्भप्रवृत्तप्राणिगणानुभूयमानमित्येतत् 'ज्ञात्वा' परिच्छिद्य निरारम्भो भूत्वाऽऽत्महिते जागृहि । यस्तु विषयकषायाच्छादितचेता भावशायी स किमाप्नुयादित्याह - 'माई' इत्यादि, मध्यग्रहणाचाद्यन्तयोर्ग्रहणं, तेन क्रोधादिकषायवान् मद्यादिप्रमादवान्नारकदुःखमनुभूय पुनस्तिर्यक्षु गर्भमुपैति । यस्त्वकषायी प्रमादरहितः स किम्भूतो भवतीत्याह -'उवेह' इत्यादि, बहुवचननिर्देशदाद्यर्थो गम्यते, शब्दरूपादिषु यौ रागद्वेषौ तावुपेक्षमाणः-अकुर्वन् ऋजुर्भवति-यतिर्भवति, यतिरेव परमार्थत ऋजुः, अपरस्त्वन्यथाभूतः स्त्र्यादिपदार्थान्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org