________________
श्रुतस्कन्धः - १, अध्ययनं -३, उद्देशक:
१६१
अथवा शब्दे पुष्पशालाभद्रा ननाश रूपे अर्जुनकतस्करः गन्धे गन्धप्रियकुमारः रसे सौदासः स्पर्शे सत्यकिः सुकुमारिकापतिर्वा ललिताङ्गकः, परत्र च नारकादियातनास्थानभयमिति ||
एवं शब्दादीनुभयदुःखस्वभावानवगम्य यः परित्यजेदसौ कं गुणमवाप्नुयादित्याह -
मू. (१११) से आयवं नाणवं वेयवंधमवंबंभवं पन्नाणेहिं परियाणइ लोयं, मुणीति वुच्छे, धम्मविऊ उज्जू, आवट्ठसोए संगमभिजाणइ ।।
वृ, यो हि महामोहनिद्रावृते लोके दुःखमहिताय जानानो लोकसमयदर्शी शस्त्रोपरतः सन् शब्दादीन् कामगुणान्दुःखैकहेतूनभिसमन्वागच्छतिज्ञपरिज्ञया प्रत्याख्यानपरिज्ञयाचप्रत्याचष्टे 'स' मुमुक्षुरात्मवान्-आत्मा ज्ञानादिकोऽस्यास्तीत्यत्मवान्, शब्दादिपरित्यागेनह्यात्माऽनेन रक्षितो भवति, अन्यथा नारकैकेन्द्रियादिपाते सत्यात्मकार्याकरणात्कुतोऽस्यात्मेति, पाठान्तरं वा 'से आयवी नाणवी' आत्मानंश्वभ्रादिपतनरक्षणद्वारेण वेत्तीत्यात्मवित,तथाज्ञानंयथावस्थितपदार्थपरिच्छेदकंवत्तीति ज्ञानवित्, तथा वेद्यतेजीवादिस्वरूपम् अनेनेति वेदः-आचाराद्यागमःतं वेत्तीत्ति वेदवित्, तथा दुर्गतिप्रसृतजन्तुधरणस्वभावं स्वर्गापवर्गमार्ग धर्म वेत्तीति धर्मवित्, एवं ब्रह्मअशेषमलकलङ्कविकलंयोगिशर्मा वेत्तीति ब्रह्मवित्, यदिवाअष्टादशधा ब्रह्मेति, एवम्भूतश्चासौ प्रकर्षेण ज्ञायते ज्ञेयं यैस्तानि प्रज्ञानानि-मत्यादीनि तैलॊकं यथावस्थितं जन्तुलोकं तदाधारं वा क्षेत्रं जानाति-परिच्छिनत्तीत्युक्तं भवति, य एव शब्दादिविषयसङ्गस्य परिहर्ता स एव यथावस्थितलोकस्वरूपरिच्छेदीति । यश्चानन्तरगुणोपेतः स किं वाच्य ? इत्यत आह - ___'मुनी' त्यादि, यो ह्यात्मवान् ज्ञानवान् वेदवान्धर्मवान् ब्रह्मवान् प्रज्ञानैर्व्यस्तैः समस्तै लोकं जानाति स मुनिर्वाच्यो, मनुते मन्यते वा जगतस्त्रिकालावस्थां मुनिरितिकृत्वा, किं च . 'धम्म' इत्यादि, धर्म-चेतनाचेतनद्रव्यस्वभावं श्रुतचारित्ररूप वा वेत्तीति धर्मवित्, 'ऋजुरिति ऋजोः-ज्ञानदर्शनचारित्राख्यस्यमोक्षमार्गस्यानुष्टानादकुटिलो यथावस्थितपदार्थस्वरूपपरिच्छेदाद्वा ऋजुः सर्वोपाधिशुद्धोऽवक्र इतियावत् । तदेवं धर्मविजुर्मुनिः किम्भूतो भवतीत्याह - 'आवट्ट' इत्यादि, भावावर्तों-जन्मजरामरणरोगशोकव्यसनोपनिपातात्मकः संसार इति, उक्तं हि - ॥१॥
“रागद्वेषवशाविद्धं, मिथ्यादर्शनदुस्तरम् ।
जन्मावर्ते जगस्क्षिप्तं, प्रमादाभ्राम्यते भृशम् ।।" ___ भावश्श्रोतोऽपि शब्दादिकामगुणविषयाभिलापः, आवर्त्तश्च श्रोतश्चवर्त्तश्रोतसी तयो रागद्वेषाभ्यां सम्तन्धः-सङ्गस्तमभिजानाति-आभिमुख्येन परिच्छिनत्ति-यथाऽयंसङ्गःआवर्तश्रोरोतसोः कारणं, जानानश्च परमार्थतः कोऽभिधीयते?, योऽनर्थ ज्ञात्वा परिहरति, ततश्चायमर्थःसंसारश्रोतः-सङ्गरागद्वेषात्मकं ज्ञात्वा यः परिहरतिसएव नाआवर्तस्रोतसोः सङ्गस्याभिज्ञाता ।। सुप्तजाग्रतां दोषगुणपरिच्छेदी क गुणमवाप्नुयादित्याह
मू. (११२) सीउसिणच्चाई से निग्गंथे अरइरइसहे, फरुसयं नो वेएइ, जागर वेरोवरए, वीरे एवं दुक्खा पमुक्खसि, जरामचुवसोवणिए नरे सययं मूढे धम्म नाभिजाणइ ।
वृ. सबाह्याभ्यन्तरग्रन्थरहितः सन्शीतोष्णत्यागी सुखदुःखानभिलाषुकः शीतोष्णरूपी वा परीषहावतिसहमानः संयमासंयमरत्यरतिसहः सन् परुषतां-कर्कशतां पीडाकारिता [1111
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org