________________
आचारागसूत्रम् 991-1-[नि.१५] ॥४॥ सेढीसु नाणदंसणपज्जाया तेण तप्पमाणेसा
इह पुणचरित्तमेत्तोवओगियो तेण ते थोवा वृ.अयमासामर्थो लेशतः-नन्वित्यसूयायां, संयमस्थानान्यसंख्यातानितावद्भवन्ति, तेषां यजधन्यं तदविभागपलिच्छेदेन बुध्धा खण्ड्यमानं पर्यायरनन्ताविभागपलिच्छेदात्मकं भवति, तच्च पर्यायसंख्यया निर्दिष्टं सर्वाकाशप्रदेशसंख्याया अनन्तगुणं, सर्वनमःप्रदेशवर्गीकृतप्रमाणमित्यर्थः, ततो द्वितीयादिस्थानैरसंख्यातगच्छगतैरनन्तभागादिकया वृध्या षट्स्थानकानामसंख्येयस्थानगता श्रेणिर्भवति, एवं चैकमपि स्थानं सर्वपर्यायान्वितं न शक्यते परिच्छेत्तुं, किं पुनः सर्वाण्यपीत्यतः केऽन्ये पर्यायाः? येषामनन्तमागेव्रतानि वर्तेरनिति।स्यान्मतिः, अन्ये केवलगम्या इति, इदमक्तं भवति-केवलगम्याप्रज्ञापनीय-पय्यार्याणामपि तत्र प्रक्षेपाबहुत्वम्, एवमपि ज्ञानेज्ञेययोस्तुल्यत्वात्तुल्या एव नानन्तगुणा ति । अत्राचार्य आह-याऽसौ संयमस्थानश्रेणिनिरूपिता सा सर्वाचारित्रपय्यार्यैनिदर्शन-पर्यायसहितैः परिपूर्णातप्रमाणासर्वकाशप्रदेशानन्तगुणा, इह पुनश्चारित्रमात्रोपयोगि-त्वात्पर्यायानन्तभागवृत्तित्वमित्यदोषः ।
-इदानींसारद्वार, कः कस्य सार इत्याहनि. [१६] अंगाणं किं सारो? आयारो तस्स हवइ किं सारो?।
___ अनुओगत्यो सारो तस्सवियपरूवणा सारो वृ. स्पष्टा, केवलमनुयोगार्थो-व्याख्यानमूतोऽर्थस्तस्य प्ररूपणा-यथास्वं विनियोग इति । अन्यच्च नि. [१७] सारो परूवणाए चरण तस्सविय होइ निव्वाणं ।
निव्वाणस्स उ सारो अव्वाबाहं जिणा बिति वृ. स्पष्टैव । इदानीं श्रुतस्कन्धपदयोनामादिनिक्षेपादिकंपूर्ववद्विधेयं, भावेनचेहाधिकारः, भावश्रुतस्कन्धश्च ब्रह्मचर्यात्मक इत्यतो ब्रह्मचरणशब्दौ निक्षेप्तव्यावित्याहनि. [१८] बंमम्मी य चउई ठवणाए होइ बंभणुप्पत्ती।
सत्तण्हं वण्णाणंनवण्ह वण्णंतराणंच वृ. तत्र ब्रह्म नामादिचतुर्द्धा, तत्रनामब्रह्म ब्रह्मेत्यभिधानम्, असद्भावस्थापना अक्षादौ सद्भावस्थापनाप्रतिविशिष्टयज्ञोपवीताद्याकृतिमृल्लेप्यादौ द्रव्ये, अथवा स्थापनायांव्याख्यायमानायं ब्राह्मणोत्पत्तिर्वक्तव्या, तत्प्रसङ्गेनच सप्तानां वर्णानां नवानांचवर्णान्तराणामुत्पत्तिमणनीयेति। यथाप्रतिज्ञातमाह - नि. [१९] एका मणुस्सजाई रज्जुप्पत्तीइ दो कया उसमे ।
तिण्णेव सिप्पवणिए सावगधम्मम्मि चत्तारि दृ. यावन्नामेयो भगवान्नाद्यापि राजलक्ष्मीमध्यास्ते, तावदेकैव मनुष्यजातिः, तस्यैव राज्योत्पत्तौभगवन्तमेवाश्रित्यये स्थितास्ते क्षत्रियाः, शेषाश्चशोचनाद्रोदनाच्च शूद्राः, पुनरग्न्युत्पत्तावयस्कारदिशिल्पवाणिज्यवृत्तया वेशनाद्वैश्याः, भगवतो ज्ञानोत्पत्तौ भरतकाकणीलाञ्छनाच्छ्रावका एव ब्राह्मणा जज्ञिरे, एते शुद्धायश्चान्ये गाथान्तरितगाथया प्रदर्शयिष्यन्ते ।।
-साम्प्रतं वर्णवर्णान्तरनिष्परनिष्पन्नं संख्यानमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org