________________
૧૪૪
आचाराङ्ग सूत्रम् १/-/२/५/९५
तहा वाहिं' इत्यादि, यथाऽन्तर्भावबन्धनमध्प्रकारकर्मनिगडनंमोचयति एवं पुत्रकलत्रादि बाह्यमपि, यथा वा बाह्यं बन्धुबन्धनं मोचयति एवं मोक्षगमनविघ्नकारणमान्तरमपीति, यदिवा- कथमसी मोचयतीति चेत्तत्त्वाविर्भावनेन, स्यादेतत्-तदेव किंभूतमित्याह- 'जहा अंतो' इत्यादि, यथा स्वकायस्यान्तः- मध्ये अमेध्यकललपिशितासृक्पूत्यादिपूर्णत्वेनासारत्वमित्येवं बहिरप्यसारता द्रष्टव्या, अमेध्यपूर्णघटवदिति, उक्तं च
119 11
"यदि नामास्य कायस्य, यदन्तस्तद्बहिर्भवेत् । दण्डमादाय लोकोऽयं, शुनः काकांश्च वारयेत् "
इति, यथा वा बहिरसारता तथाऽन्तरपीति । किं च- 'अन्तो अन्तो' इत्यादि, देहस्य मध्ये मध्ये पूत्यन्तराणि-पूतिविशेषान् 'देहान्तराणि' देहस्यावस्थाविशेषान्, इह मांसमिह रुधिरमिह मेदो मज्जा चेत्येवमादि पूतिदेहान्तराणि पश्यति' यथावस्थितानि परिच्छिन्नत्तीत्युक्तं भवति, यदिवा देहान्तराण्येवंभूतानि पश्यति 'पूढो' इत्यादि, 'पृथगपि' प्रत्येकमपि अपिशब्दात्कुष्ठाद्यवस्थायां यौगपद्येनापि वन्तिनवभिः श्रोत्रोभिः कर्णाक्षिमल श्लेष्मलालाप्रश्रवणोच्चारादीन् तथाऽपरव्याधिविशेषापादितव्रणमुखपूतिशोणितरसिकादीनि चेति । यद्येतानि ततः किं ? - 'पंडिए पडिलेहाए' एतान्येवंभूतानि गलच्छ्रोतोव्रणरोमकूपानि 'पण्डितः' अवगततत्त्वः 'प्रत्युपेक्षेत' यथावस्थितमस्य स्वरूपमवगच्छेदिति, उक्तं च
119 11
"मंसद्धिरुहिरण्हारुवणद्धकलमलयमेयमज्जासु ! पुण्णमिचम्मकोसे दुग्गंधे असुइबीभच्छे संचारिमजंतगलंतवञ्च्चमुत्तंतसेअपुण्णंमि । देहुजा किं रागकारणं असुइहेउम्मि ?"
इत्यादि । तदेवं पूतिदेहान्तराणि पश्यन् पृथगपि वन्तीत्येवं प्रत्युपेक्ष्य किं कुर्यादित्याह - भू. (९६) से मइमं परित्राय मा य हु लालं पच्चासी, मा तेसु तिरिच्छमप्पाणमावायए, कासंकासे खलु अयं पुरिसे, बहुमाई कडेण मूढे, पुणो तं करेइ लोहं वेरं वड्डेइ अप्पणो, जमिण परिकहिज्जइ इमस्स चेव पडिवूहणयाए, अमरायमहासट्ठी अट्टमेयं तु पेहाए अपरिण्णाए कंदइ वृ. 'स' पूर्वोक्तो यतिर्मतिमान् श्रुतसंस्कृतबुद्धिर्यथावस्थितं देहस्वरूपं कामस्वरूपं च द्विविधयाऽपि परिज्ञया परिज्ञाय किं कुर्यादित्याह- 'मा यहु' इत्यादि, 'मा' प्रतिषेधे चः समुच्चये हुर्वाक्यालङ्कारे, ललतीति लाला- अत्रुट्यन्मुख श्लेष्मसन्ततिः तां प्रत्यशितुं शीलमस्येति प्रत्याशी, वाक्यार्थस्तु यथा हि बालो निर्गतामपि लालां सदसद्विवेकाभावात् पुनरप्यश्नातीत्येवं त्वमपि लालावत्त्यक्त्वा मा भोगान् प्रत्यशान्, वान्तस्य पुनरप्यभिलाषं मा कुर्वित्यर्थः । किं च- 'मा तेसु तिरिच्छं' इत्यादि, संसारश्रोतांसि अज्ञानाविरतिमिथ्यादर्शनादीनि प्रतिकूलेन वा तिरश्चीनेन वाऽतिक्रमणीयानि, निर्वाणश्रोतांसि तु ज्ञानादीनि तत्रानुकूल्यं विधेयं, मा तेष्वात्मानं तिरश्चीनमापादयेः, ज्ञानादिकार्ये प्रतिकूलतां मा विदध्याः, तत्राप्रमादवता भाव्यं, प्रमादवांश्चे हैव शान्तिं न लभते यत आह- 'कासंकासे' इत्यादि, यो हि ज्ञानादिश्रोतसि तिरश्चीनवर्त्ती भोगाभिलाषवान् स एवंभूतोऽयं पुरुषः सर्वदा किंकर्त्तव्यताकुल इदमहमकार्षमिदं च करिष्ये इत्येवं भोगाभिलाषक्रियाव्यापृतान्तः करणो न स्वास्थ्यमनुभवति, खलुशब्दोऽवधारणे,
1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
॥२॥