SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ श्रुतस्कन्धः-१, अध्ययनं-२, उद्देशक:५ १४३ इति परितप्यते, सर्वाणि चैतानि शोचनादीनि विषयविषावष्टब्धान्तःकरणानां दुःखावस्थासंसूचकानि, अथवा शोचत इति यौवनधनमदमोहाभिभूतमानसो विरुद्धानि निषेव्य पुनर्वयःपरिणामेन मृत्युकालोपस्थानेनवामोहापगमेसति किंमयामन्दभाग्येनपूर्वमशेषशिष्यचीर्णः सुगतिमनैकहेतुर्दुर्गतिद्वारपरिघे धर्मो नाचीर्णः? इत्येवं शोचत इति, उक्तंच॥१॥ "भवित्री भूतानां परिणतिमनालोच्य नियतां, पुरा यद्यत् किञ्चिद्विहितमशुभं यौवनमदात्। ॥१॥ पुनः प्रत्यासन्ने महति परलोकैकगमने, तदेवैकं पुंसां व्यथयति जराजीर्णवपुषाम्" ___ -तथा जूरतीत्यादीन्यपि स्वबुद्धया योजनीयानि, उक्तंच॥१॥ सगुणमपगुणं वा कुर्वता कार्यजातं, परिणतिरवधार्या यत्नतः पण्डितेन । अतिरभसकृतानां कर्मणामाविपत्तेर्भवति हृदयदाही शल्यतुल्यो विपाकः ।। इत्यादि ।। कः पुनरेवं न शोचत इत्याह मू. (९५)आययचक्खू लोगविपस्सी लोगस्स अहोभागंजाणइ उड्ढंभागंजाणइ तिरियं भागंजाणइ, गढ़िए लोए अनुपरियट्टमाणे, संधिं विइत्ता इह मच्चिएहि, एसवीरे पसंसिएजे बद्धे पडिमोयए जहा अंतो तहा बाहिं जहा बाहिं तहा अंतो, अंतो अंतो पूइ देहंतराणि पासइ पुढोवि संवताइं पंडिए पडिलेहाए। वृ.आयतं-दीर्घमहिकामुष्मिकापायदर्शिचक्षुः-ज्ञानंयस्यसआयतचक्षुः,कःपुनरित्येवंभूतो भवति? यः कामानेकान्तेनानर्थभूयिष्ठान् परित्यज्य शमसुखमनुभवति, किंच-'लोगविपस्सी' लोकं विषयानुषणावेशाप्तदुःखातिशयंतथा त्यक्तकामावाप्तप्रशमसुखं विविधंद्रुष्टं शीलमस्येति लोकविदर्शी, अथवालोकस्यऊर्धाधस्तिर्यगभागगतिकारणायुष्कसुखदुःखविशेषान्पश्यतीति, एतद्दर्शयति-'लोगस्स' इत्यादि, लोकस्य-धर्माधर्मास्तिकायावच्छिन्नाकाशखण्डस्याधोभागं जानातीति-स्वरूपतोऽवगच्छति, इदमुक्तं भवति-येन कर्मणा तत्रोत्पद्यन्तेऽसुमन्तः याक्तत्र सुखदुःखविपाको भवति तं जानाति, एवमूर्द्धतिर्यग्भागयोरपि वाच्यं, यदिवा लोकविदर्शीतिकामार्थमर्थोपार्जनप्रसक्तंगृद्धमध्युपपन्नलोकंपश्यतीति । एतदेवदर्शयितुमाह-'गहिए' इत्यादि, अयं हिलोको 'गृद्धः' अध्युपपन्नः कामानुषङ्गेतदुपायेवातत्रैवानुपरिवर्तमानो भूयो भूयस्तदेवाचरंस्तञ्जनितेन वा कर्मणा संसारचक्रेऽनुपरिवर्त्तमानः-पर्यटनायतचक्षुषो गोचरीभवन् कामाभिलाषनिवर्तनाय न प्रभवति ?, यदिवा कामगृद्धान् संसारेऽनुपरिवर्तमानानसुमतः पश्येत्येवमुपदेशः। ____ अपिच-'संधि' इत्यादि, इह भत्त्र्येषु' मनुजेषुयोज्ञानादिको भावसन्धिः, सच मर्ये वेव सम्पूर्णो भवतीति मर्त्यग्रहणम्, अतस्तं विदित्वा यो विषयकषायादीन् परित्यजति स एव वीर इति दर्शयति-'एस' इत्यादि, 'एषः' अनन्तरोक्तः आयतचक्षुर्यथावस्थितलोकविभागस्वभावदर्शीभावसन्धेर्वेत्ता परित्यक्तविषयतर्षो वीरः कर्मविदाराणत् 'प्रशंसितः' स्तुतः विदिततत्त्वै-ि रति । स एवंभूतः किमपरं करोतीति चेदित्याह-'जे बद्धे' इत्यादि, यो बद्वान् द्रव्यभाववन्धनेन स्वतोविमुक्तोऽपरानपि मोचयतीत्येतदेव द्रव्यभावबन्धविमोक्षं वाचोयुक्त्याऽऽचष्टे 'जहाअंतो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy