________________
श्रुतस्कन्धः - १, अध्ययनं २, उद्देशक : ३
वृ. यतः- ‘नत्थि' इत्यादि, ‘नास्ति' न विद्यते 'कालस्य' मृत्योरनागमः - अनागमनमनवसर इतियावत्, तथाहि सोपक्रमायुषोऽसुमतो न काचित्साऽवस्था यस्यां कर्म्मापावकान्तर्वर्त्ती जन्तुर्जगोलक इव न विलीयेत इति, उक्तं च
11911
"शिशुमशिशुं कठोरमकठोरमपण्डितमपि च पण्डितं, धीरमधीरं मानिनममानिनमपगुणमपि च बहुगुणम्। यतिमयति प्रकाशमवलीनमचेतनमथ सचेतनं, निशि दिवसेऽपि सान्ध्यसमयेऽपि विनश्यति कोऽपि कथमपि ' तदेवं सर्वंकषत्वं मृत्योरवधार्याहिंसादिषु दत्तावधानेन भाव्यं किमिति ?, यतः - 'सव्वे पाणा पियाउया' प्राणशब्देनात्रा भेदोपचारात् तद्वन्त एव गृह्यन्ते, सर्वे प्राणिनो जन्तवः 'प्रियायुषः ' प्रियमायुर्येषां ते तथा, ननु च सिद्धैव्यभिचारी, न हि ते प्रियायुषस्तदभावात्, नैष दोषो, यतो मुख्यजीवादिशब्दव्युदासेन प्राणशब्दस्योपचरितस्य ग्रहणं संसारप्राण्युपलक्षणा - र्धमिति यत्किञ्चिदेतत्, पाठान्तरं वा 'सव्वे पाणा पियायया' आयतः - आत्माऽनाद्यनन्तत्वात् स प्रयो येषां ते तथा सर्वेऽपि प्राणिनः प्रियात्मानः । प्रियात्मता च सुखदुःखप्राप्तिपरिहारतया भवतीति आह च-‘सुहसाया दुक्खडिकूला' सुखम् आनन्दरूपमास्वादयन्तीति सुखास्वादाः- सुखभोगिनः सुखैषिणइत्युक्तं भवति, दुःखम् असातं तव्यतिकूलयन्तीति दुःखप्रतिकूलाः- दुःखद्वेषिणइत्युक्तं भवति, तथा 'अप्रियवधा' अप्रियं दुःखकारणं तत् घ्नत्यप्रियवधाः, तथापि 'पियजीविणो' प्रियंदयितं जीवितम्-आयुष्कमसंयमजीवितं येषां ते तथा, 'जीविउकामा' यत एव प्रियजीविनोऽत एव दीर्घकालं जीवितुकामाः दीर्घकालमायुष्काभिलाषिणो दुःखाभिभूता अप्यन्त्यां दशामापन्ना जीवितुमेवाभिलषन्ति, उक्तं च
11911
"रमइ विहवी विसेसे ठितिमित्तं ववित्थरो महई | मग सरीरमहणी रोगी जीए चिय कयत्थो "
[19]
?
तदेवं सर्वोऽपि प्राणी सुखजीविताभिलाषी, तच्च नारम्भमृते, असावपि प्राण्युपघातकारी, प्राणिनां च जीवितमत्यर्थं दयितमित्यतो भूयो भूयस्तदेवोपदिश्यत इत्याह- 'सव्वेसिं' इत्यादि, सर्वेषामविगानेन 'जीवितम्' असंयमजीवितं 'प्रियं दयितं यद्येवं ततः किमित्यत आह- 'तं परिगिज्झ' तद्-असंयमजीवितं 'परिगृह्य'; आश्रित्य किं कुर्वन्तीत्याह- 'दुपयं' इत्यादि, 'द्विपदं ' दासीकर्म्मकरादि 'चतुष्पदं' गवाश्वादि 'अभियुज्य' योजयित्वा अभियोगं ग्राहयित्वा व्यापारयित्वेत्युक्तं भवति, ततः किमित्यत आह- 'संसिंचियाणं' इत्यादि, प्रियजीवितार्थमर्थाभिवृद्धये द्विपदचतुष्पदादिव्यापारेण संसिच्य' अर्थनिचयं संवध्धूर्य 'त्रिविधेन' योगत्रिककरणत्रिकेण यापि काचिदल्पा परमार्थचिन्तायां बह्ययपि फल्गुदेश्या 'से' तस्यार्थारम्भिणः सा चार्थमात्रा 'तत्र' इति द्विपदाद्यारम्भे 'मात्रा' इति सोपस्कारत्वात्सूत्राणां अर्थमात्रा अर्थात्पता 'भवति' सत्तां बिभर्ति, किंभूता ?, सा सूत्रेणैव कथयति अल्पा वा बह्वी वा, अल्पबहुत्वं चापेक्षिकमतः सर्वाऽप्यल्पा सर्वाऽपि बह्वी 'स' इत्यर्थवान् 'तत्र' तस्मिन्नर्थे 'गृद्धः' अध्युपपन्नस्तिष्ठति, नालोचयत्यर्थस्योपार्जनक्लेशं न गणयति रक्षणपरिश्रमं न विवेचयति तरलतां नावधारयति फल्गुताम्, उक्तं च11911 कृमिकुलचितं लालाक्लिन्नं विगन्धि जुगुप्सितं, निरुपमरसप्रीत्या खादन्नरास्थि निरामिषम् ।
Jain Education International
१२९
For Private & Personal Use Only
www.jainelibrary.org