________________
१२८
आचाराङ्ग सूत्रम् ११-१२/३/८० स्योलापः, किंच-दृष्टहानिरदष्टकल्पनाचपापीयसीति,तदेवंसाम्प्रतेक्षीभोगसङ्गविहितैकपुरुषार्थबुद्धिः सम्पूर्ण यथावसरसम्पादितविषयोपभोगं
'बालः' अज्ञः 'जीवितुकामः' आयुष्कानुभवनमभिलषन् ‘लालप्यमानः' भोगार्थमत्यर्थं लपन् वाग्दण्डं करोति, तद्यथा-अत्र तपो दमो नियमो वा फलवान दृश्यत इत्येवमर्थं ब्रुवन् मूढः अबुध्यमानो हतोपहतो जातिमरणमनुपरिवर्त्तमानो जीवितक्षेत्रस्त्यादिलोभपरिमोहितमनाः 'विपर्यासमुपैति' तत्वेऽतत्त्वाभिनिवेशम्अतत्त्वेचतत्वाभिनिवेशंहितेऽहितबुद्धिमित्येवंसर्वत्र विपर्ययं विदधाति, उक्तंच॥१॥ “दाराः परिभवकारा बन्धुजनो बन्धनं विषं विषयाः ।
कोऽयंजनस्य मोहो?, ये रिपवस्तेषु सुहृदाशा" इत्यादि।।येपुनरुन्मजःशुभकर्मापादिताध्यवसायपुरस्कृतमोक्षास्तेकिंभूताभवन्तीत्याहमू. (८१) इणमेव नावकंखंति, जे जणाधुवचारिणो।
जाईमरणं परिन्नाय, चरे संकमणे दढे ॥ वृ. 'इणमेव' इत्यादि, इदमेवपूर्वोक्तंसम्पूर्णजीवितंक्षेत्राङ्गनापरिभोगादिकंवा नावकाङ्क्षति' नाभिलषन्ति, येजना 'ध्रुवचारिणो' ध्रुवो-मोक्षस्तत्कारणं च ज्ञानादि ध्रुवं तदाचरितुं शीलं येषां ते तथा, धूतचारिणो वा धुनातीतिधूतं चारित्रं तच्चारिण इति । किं च-'जाई' इत्यादि, जातिश्च मरणंच समाहारद्वन्द्वः तत् परिज्ञाय' परिच्छिद्य ज्ञात्वा 'चरेत् उद्युक्तो भवेत, क?-'सङ्कमणे' सम्यतेऽनेनेति सङ्कमणं-चारित्रंतत्र ‘दृढो विश्नोतसिकारहितः परीषहोपसग्गैः निष्प्रकम्पोवा यदि वा अशङ्कमनाः सन् संयमंचर, न विद्यते शङ्का यस्य मनसस्तदशङ्कम् अशझूमनो यस्यासावशङ्कमनाः-तपोदमनियमनिष्फलत्वाशङ्कारहित आस्तिक्यमत्युपपेतस्तपोदमादौ प्रवर्तेत, यतस्तद्वान् राजराजादीनां पूजाप्रशंसाहॊ भवति, न चौपशमिकसुखावाप्तफलस्य तपस्विनः समस्तद्वन्द्ववीयसोऽसत्यपि परलोके किञ्चित्स्यते, उक्तंच1190 “संदिग्धेऽपि परे लोके, त्याज्यमेवाशुभं बुधैः।
यदि नास्तिततः किं स्यादस्ति चेन्नास्तिको हतः" इत्यादि । तस्मात्स्वायत्ते संयमसुखे दृढेन भाव्यं, नचैतद्मावनीयं यथा-परुत्परारि वृद्धावस्थायां वा धर्म करिष्यामीति,
मू. (८२) नथि कालस्स नागमो, सब्वे पाणा पियाउया, सुहसाया दुक्खपडिकूला अप्पियवहापियजीविणोजीविउकामा, सव्वेसिंजीवियंपियं, तंपरिगिल्झदुपयंचउप्पयंअभिजुंजिया णं संसिंचिया णं तिविहेण जाऽवि से तत्थ मत्ता भवइ अप्पा वा बहुया वा, से तत्थ गडिए चिट्ठइ, भोअणाए, तओ से एगया विविहं परिसिटुं संभूयं महोवगरणं भवइ, तंपि से एगया दायायावा विभयन्ति, अदत्तहारो वा से अवहरति, रायाणोवासे विलुपंति, नस्सइ वा से विनस्सइ वासे, अगारदाहेण वा से डन्झइ इय, से परस्सट्टाए कूराइंकम्माईबाले पकुब्बमाणे तेण दुक्खेण संमूढे विपरियासमुवेइ, मुणिणा हु एवं पवेइयं, अणोहंतरा एए नो यओहंतरित्तए, अतीरंगमा एए नो यतीरंगमित्तए, अपारंगमा एएनो य पारंगमित्तए, आयाणिज्जं च आयाय तंमि ठाणे न चिट्ठइ, वितहं पप्पऽखेयन्त्रे तमिठाणमंमिचिट्ठइ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org