SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ १२६ आचाराङ्ग सूत्रम् १/-/२/३/७९ सश्छान्दसत्वाद्वा, दुःखोद्वेगश्चासौ सुखैषकश्च दुःखोद्वेगसुखैषकः, सर्वोऽपि प्राणी दुःखोद्वेगसुखैषक एव भवत्यतो जीवप्ररूपणं कार्यं तच्चावनिवनपवनानलवनस्पतिसूक्ष्मबादरविकल- पञ्चेन्द्रियसंज्ञीतरपर्याप्तकापर्याप्तकरूपं शस्त्रपरिज्ञायामकार्येव, तेषां च दुःखपरिजिहीर्षूणां सुखलिप्सूनामात्मौपम्यमाचरता तदुपमर्दकानि हिंसादिस्थानानि परिहरताऽऽत्मा पञ्चमहाव्रतेष्वा- स्थेयः, तत्परिपालनार्थं चोत्तरगुणा अप्यनुशीलनीयाः, तदर्थमुपदिश्यते- 'समिए एयाणुपस्सी' पञ्चभिः समितिभिः समितः सन् एतत्-शुभाशुभं कर्म्म वक्ष्यमाणं चान्धत्वादिकं द्रष्टुं शीलं यस्येत्येतदनुदर्शी भूतेषुसातं जानीहीतिसण्टङ्कः, तत्र 'समिति रिति 'इण्गता;' वित्यस्मात्सम्पूर्वात् क्तिन्नन्ताद्मवति, साच पञ्चधा, - तद्यथा- ईर्याभाषैषणाऽऽदाननिक्षेपोत्सर्गरूपाः, तत्रैर्यासमितिः प्राणव्यपरोपणव्रतपरिपालनाय, भाषासमितिरसदभिधाननियमसंसिद्धये, एषणासमितिरस्तेयव्रतपरिपालनाय, शेषद्वयं तु समस्तव्रतप्रकृष्टस्याहिंसाव्रतस्य संसिद्धये व्याप्रियते इति, तदेवं पञ्चमहाव्रतोपपेतस्तद्वद्वृत्तिकल्पसमितिभिः समितः सन् भावत एतद्भूतसातादिकमनुपर्श्यति, अथवा यदनुदर्श्यसौ भवति तद्यथेत्यादिना सूत्रेणैव दर्शयति 'अन्धत्वमित्यादिना यावत् विरूपरूपे फासे परिसंवेएइ' संसारोदरे पर्यटन् प्राणी अन्धत्वादिका अवस्था बहुशः परिसंवेदयते स चान्धो द्रव्यतो भावतश्च तत्रैकेन्द्रियद्वीन्द्रियत्रीन्द्रिया द्रव्यभावान्धाः, चतुरिन्द्रियादयस्तुमिथ्यादष्टयो भावान्धाः, उक्तंच ॥१॥ “ एकं हि चक्षुरमलं सहजो विवेकस्तद्वद्भिरेव सह संवसतिर्द्वितीयम् । एतद्वयं भुवि न यस्य स तत्त्वतोऽन्धस्तस्यापमार्गचलने खलु कोऽपराधः ?" सम्यग्दृष्टयस्तूपहतनयना द्रव्यान्धा, त एवानन्धा न द्रव्यतो न च भावतः, तदेवमन्धत्वं द्रव्यभावभिन्नमेकान्तेन दुःख जननमवाप्नोतीति, उक्तं च 11911 “जीवन्नेव मृतोऽन्धो यस्मात्सर्वक्रियासु परतन्त्रः । नित्यास्तमितदिवाकरस्तमोऽन्धकारार्णवनिमग्नः ॥२॥ लोकद्वयव्यसनवह्निविदीपिताङ्गमन्धं समीक्ष्य कृपणं परयष्टिनेयम् । को नोद्विजेत भयकृज्जननादिवोग्रात्कृष्णाहिनैकनिचितादिव चान्धगर्त्तात् ? " एवं बधिरत्वमप्यदष्टवशादनेकशः परिसंवेदयते, तदावृतश्चसदसद्विवेकविकलत्वादैहिकामुष्मिकेष्टफलक्रियानुष्ठानशून्यतां बिभर्त्ति इति, उक्तं च ॥१॥ “धर्म्मश्रुतिश्रवणमङ्गलवर्जितो हि, लोकश्रुति श्रवणसंव्यवहारबाह्यः । किं जीवतीह बधिरो ? भुवि यस्य शब्दाः, स्वप्नोपलब्धधननिष्फलतां प्रयान्ति ? स्वकलत्रबालपुत्रकमधुरवचः श्रवणबाह्यकरणस्य । बधिरस्य जीवितं किं जीवन्मृतकाकृ तिधरस्य ? " ॥२॥ 11911 - - - एवं मूकत्वमप्येकान्तेन दुःखावहं परिसंवेदयते, उक्तं च"दुःखकरमकीर्त्तिकरं मूकत्वं सर्वलोकपरिभूतम् । प्रत्यादेशं मूढाः कर्म्मकृतं किं न पश्यन्ति ? -तथा काणत्वमप्येवंरूपमिति, आह च #7 For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003335
Book TitleAgam Sutra Satik 01 Aachar AngSutra 01
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages468
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 01, & agam_acharang
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy