________________
श्रुतस्कन्धः - १, अध्ययनं - २, उद्देशक : ३
वा एगे गिज्झे' अनेकशोऽनेकस्मिन् स्थानेऽनुभूते सति तन्मध्ये कस्मिन्वा एकस्मिन्नुञ्चैर्गोत्रादिकेऽनवस्थितस्थानके रागादिविरहादेकः कथं गृध्येत् ?, तात्पर्यम् - आसेवां विदितकर्मपरिणामो विदध्यात्, युज्येत गाद्धर्यं यदि तत्स्थानं प्राप्तपूर्वं नाभविष्यत्, तच्चानेकशः प्राप्तपूर्वम्, अतस्तल्लाभालाभयोः नोत्कर्षपकर्षी विधेयाविति, आह च- 'तम्हा' इत्यादि, यतोऽनादौ संसारे पर्यटताऽसुमताऽदथयत्तान्यसकृदुच्चावचानि स्थानान्यनुभूतानि तस्मात्कथञ्चिदुच्चावचादिकं मदस्थानमवाप्य 'पण्डितो' हेयोपादेयतत्त्वज्ञो 'न हृष्येत्' न हर्षं विदध्याद्, उक्तं च“सर्वसुखान्यपि बहुशः प्राप्तान्यटता मयाऽत्र संसारे । उच्चैः स्थानानि तथा तेन न मे विस्मयस्तेषु
11911
॥२॥
जइ सोऽवि निजरमओ पडिसिद्धो अमाणमहणेहिं । अवसेस मयट्ठाण परिहरिअव्वा पयत्तेण नाप्यवगीतस्थानावाप्तौ वैमनस्यं विदध्याद्, आह च- 'नो कुप्पे' अध्टवशात्तथाभूतलोकासम्मतं जातिकुलरूपबललाभादिकमधममवाप्य 'न कुप्येत्' नक्रोधं कुर्यात्, कतरन्नीचस्थानं शब्दादिकं वा दुःखं मया नानुभूतमित्येवमवगम्य नोद्वेगवशगेन भाव्यम्, उक्तं च“अवमानात्परिभ्रंशाद्वधबन्धधनक्षयात् । प्राप्ता रोगाश्च शोकाश्च, जात्यन्तरशतेष्वपि संते य अविम्हइउं असोइउं पंडिएण य असंते । सक्का हु दुमोवमिअहिअएण हिअं घरंतेण होऊण चक्क वट्टी पुहइवई विमलपंडरच्छत्तो । सो चेव नाम भुज्जो अणाहसालालओ होइ "
11911
एकस्मिन् वा जन्मनि नानाभूतावस्था उच्चावचाः कर्म्मवशतोऽनुभूवति । तदेवमुच्चनीचगोत्रनिर्विकल्पमनाः अन्यदपि अविकल्पेन किं कुर्यादित्याह - 'भूएहिं' इत्यादि, भवन्ति भविष्यन्त्यभूवन्निति च भूतानि - असुभृतस्तेषु 'प्रत्युपेक्ष्य' पर्यालोच्य विचार्य कुशाग्रीयया शेमुष्या जानीहि अवगच्छ, किं जानीहि ?- 'सातं' सुखं तद्विपरीतमसातमपि जानीहि किं च कारणं सातासातयोः ? एतजानीहि किं चाभिलषन्त्यविगानेन प्राणिन इति, अत्र जीवजन्तुप्राण्यादिशब्दानुपयोगलक्षणद्रव्यस्य मुख्यान् वाचकान्विहाय सत्तावाचिनो भूतशब्दस्योपादानेनेदमाविर्भावयति यथाऽयमुपयोगलक्षणपदार्थोऽवश्यं सत्तां विभर्त्ति, साताभिलाष्यसातं च जुगुप्सते, साताभिलाषश्च शुभप्रकृतित्वाद् अतोऽपरासामपि शुभप्रकृतीनामुपलक्षणमेतदवसेयम्, अतः शुभनामगोत्रायुराद्याः कर्म्मप्रकृतीरनुधावत्यशुभाश्च जुगुप्सते सर्वोऽपि प्राणी । एवं च व्यवस्थिते सति किं विधेयमित्याह
॥२॥
॥३॥
१२५
"
मू (७९) समिए एयाणुपस्सी, तंजहा- अन्धत्तं बहिरतं मूयत्तं काणतं कुंटतं खुजत्तं वडभत्तं सामत्तं सबलत्तं सह पमाएणं अनेगरूवाओ जोगीओ संधायइ विरूवरूवे फासे परिसंवेयइ वृ अथवा भूतेषु शुभाशुभरूपं कर्म्म प्रत्युपेक्ष्य यत्तेषामप्रियं तन्न विदध्यात् इत्ययमुपदेशो, नागार्जुनीयास्तु पठन्ति “पुरिसेणं खलु दुक्खुव्वे असुहेसए" "पुरुषो जीवः णमिति वाक्यालङ्कारे 'खलुः' अवधारणेदुःखात् उद्वेगो यस्य स दुःखोद्वेगः, सुखस्यैषकः सुखैषकः, याजकादित्वात्समा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org