________________
श्रुतस्कन्धः - २, अध्ययनं १, उद्देशक: 9
-
दुत्तरोत्तरसमयादिवृद्धया पल्योपमत्र्यावसानेऽप्यायुषि खलुशब्दस्यावधारणार्थत्वात्संयमजीवितमल्पमेवेति, तथाहि अन्तर्मुहूर्तादारभ्य देशोनपूर्वकोर्टियावत्संयमायुष्कं तच्चाल्पमेवेते, अथवा त्रिपल्योमपस्थितिकमप्यायुरल्पमेव, यतस्तदप्यन्तर्मुहूर्त्तमपहाय सर्वमपवर्त्तते, उक्तं च “अद्धा जोगुकोसे बंधित्ता भोगभूमिएसु लहुँ । सव्वप्पजीवियं वज्रइत्तु उव्वट्टिया दोन्हं ।।"
अस्या अयमर्थः- उत्कृष्टे योगे-बन्धाध्यवसायस्थाने आयुषो यो बन्धकालोऽद्धा उत्कृष्ट एव तं बद्धवा, क्व ? - 'भोगभूमिकेषु' देवकुर्व्वादिजेषु, तस्य क्षिप्रमेव सर्वाल्पमायुर्वर्जयित्वा 'द्वयोः' तिर्यग्मनुष्ययोरप्रवृत्तिका - अपवर्त्तनं भवति एतच्चापर्याप्तकान्तर्मुहूर्त्तान्तर्द्रष्टव्यं तत ऊर्ध्वमनपवर्त्तनमेवेति । सामान्येन वाऽऽयुः सोपक्रमायुषां सोपक्रमनिरुपक्रमायुषां निरुपक्रम, यदा ह्यसुमान् स्वायुषस्त्रिभागे त्रिभागत्रिभागे वा जघन्यत एकेन द्वाभ्यां वोत्कृष्टतः सप्तभिरष्टभिर्वा वर्षैरन्तर्मुहूर्त्तप्रमाणेन कालेनात्मप्रदेशरचनानाडिकान्तर्वर्त्तिन आयुष्ककर्मवर्गणापुद्गलान् प्रयत्नविशेषेण विधत्ते तदा निरुपक्रमायुर्भवतीति, अन्यदा तु सोपक्रमायुष्क इति, उपक्रमश्चोपक्रमण- कारणैर्भवति, तानि चामूनि
॥१॥
'दंडकससत्थरज्जू अग्गी उदगपडणं विसं वाला । सीउन्हं अरइ भयं खुहा पिसा य वाही य मुत्तपुरीसनिरोहे जिष्णाजिष्णे य भोयणे बहुसो । घसणघोलणपीलण आउस्स उवक्कमा एते (उक्तं च-) “स्वतोऽन्यत इतस्ततोऽभिमुखधावमानापदामहो निपुणता नृणां क्षणमपीह यज्जीव्यते । मुखे फलमतिक्षुधा सरसमल्पमायोजितं, कियच्चिरमचर्बितं दशनसङ्कटे स्थास्यति ? उच्छ्वासावधयः प्राणाः, स चोच्छ्वासः समीरणः । समीरणाञ्चलं नान्यत्, क्षणमप्यायुरग्दमुतम् इत्यादि । येऽपि दीर्घायुष्कस्थितिका उपक्रमणकारणाभावे आयुः स्थितिमनुभवन्ति तेऽपि मरणादप्यधिकां जराभिभूतविग्रहा जघन्यतमामवस्थामनुभवन्तीति तद्यथेत्यादिना दर्शयति
॥२॥
11911
१०९
॥२॥
यू. (६४) सोयपरिण्णाणेहिं परिहायमाणेहिं चक्खुपरिण्णाणेहिं परिहायमाणेहिं घाणपरिणाणेहिं परिहायमाणेहिं रसणापरिण्णाणेहिं परिहायमाणेहिं फासपरिण्णाणेहिं परिहायमाणेहिं अभिकंतं च खलु वयं स पेहाए तओ से एगदा मूढभावं जणयंति ।
वृ शृणोति भाषापरिणतान् पुद्गलानिति श्रोत्रं तच्च कदम्बपुष्पाकारंद्रव्यतो भावतो भाषाद्रव्यग्रहणलब्युपयोगस्वभावमिति, तेन श्रोत्रेण परिः समन्ताद् घटपटशब्दादिविषयाणि ज्ञानानि परिज्ञानानि तैः श्रोत्रपरिज्ञानैर्जराप्रभावात्परिहीयमानैः सद्मिस्ततोऽसौ-प्राणी 'एकदा ' वृद्धावस्थायां रोगोदयावसरे वा 'भूढभावं' मूढतां कर्त्तव्याकर्त्तव्याज्ञतामिन्द्रियपाटवाभावादात्मनो जनयति, हिताहित्तप्राप्तिपरिहारविवेकशून्यतामापद्यत इत्यर्थः, जनयन्तीति चैकवचनावसरे
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International