________________
मुजसुन
१०८
आचारा सूत्रम् ११-१२/१/६३ [नि. १८६] संयोगार्थी, तत्रधनधान्यहिरण्यद्विपदचतुष्पदराज्यमार्यादिःसंयोगस्तेनार्थी-तप्रयोजनी,अथवा शब्दादिविषयः संयोगो मातापित्रादिभिर्वा तेनार्थी कालाकालसमुत्थायी भवतीति । किं च - 'अठालोभी' अर्थो-रत्नकुप्यादिस्तत्र आ-समन्ताल्लोभोऽलोभः स विद्यते यस्येत्यसावपि कालाकालसमुत्थायीभवति,मम्मणवणिग्वत, तथाहि-असावतिक्रान्तार्थोपार्जनसमर्थयौवनवया जलस्थलपथप्रेषितनानादेशमाण्डमृतबोहित्यगन्त्रीकोष्ट्रमण्डलिकासम्भृतसम्भारोऽपि प्रावृषिसप्तरात्रावच्छिन्नमुशलप्रमाणजलधारावर्षनिरुद्धसकलप्राणिगणसञ्चारमनोरथायांमहानदी जलपूरानीतकाष्ठानिजिघृक्षुरुपभोगधविसरेनिवृत्तापराशेषशुभपरिणाम केवलमर्थोपार्जनप्रकृत इति, उक्तंच॥9॥ "उखणइखणि निहणइरर्तिन सुअति दियावियससंको।
लिंपइ ठएइ सययं लंछियपडिलंछियं कुणइ॥ ॥२॥ भुजसुनताव रिक्को जेमेउंनविय अज्ज मज्जीहं ।
नविय वसीहामि घरे कायब्वमिणं बहुंअजं ।" पुनरपिलोमिनोऽशुभव्यापारानाह-'आलु आ-समन्ताल्लुम्पतीत्यालुम्पः,सहिलोभाभिभूतान्तःकरणोऽपगतसकलकर्त्तव्याकर्तव्यविवेकोऽर्थलोमैकद त्तदष्टिरैहिकामुष्मिकविपाककारिणीनिलाञ्छनगलकर्तनचौर्यादिकाः क्रियाः करोति,अन्यच्च-सहसकारे करणंकारः, असमीक्षितपूर्वापरदोषं सहसा करणं सहसाकार; स विद्यते यस्येत्यर्श आदिभ्योऽच्, अथवा छान्दसत्वाकर्तर्येवधञ्, करोतीतिकारः, तथाहि-लोभतिमिराच्छादितधष्टरर्थैकमनाः शकुन्तवच्छराघातमनालोच्य पिशिताभिलाषितया सन्धिच्छेदनादितो विनश्यति, लोभाभिभूतो ह्यर्थैकष्टिस्तन्मनास्तदर्थोपयुक्तोऽर्थमेवपश्यतिनापायान, आहच-"विणिविट्ठचित्ते विविधम्अनेकधा निविष्ट-स्थितमवसाढमर्थोपार्जनोपाये मातापित्राद्यभिष्वङ्गे वा शब्दादिविषयोपभोगे वा चित्तम्-अन्तःकरणं यस्य स तथा, पाठान्तरं वा विणिचिट्ठचिडेत्ति, विशेषेण निविष्टा कायवाग्मनसां परिस्पदात्मिकाऽर्थोपार्जनोपायादौ चेष्टा यस्य स विनिविष्टचेष्टः । तदेवं मातापित्रादिसंयोगार्थीअर्थालोभीआलुम्पः सहसाकारोविनिविष्टचित्तौविनिविष्टचेथेवा किम्भूतो भवतीत्याह-'इत्य' इत्यादि,
'अन' अस्मिन्मातापित्रादौ शब्दादिविषयसंयोगे वा विनिविष्टचित्तः सन् पृथिवीकायादिजन्तूनां यच्छस्त्रम्- उपघातकारितत्र पुनः पुनः प्रवर्ते, एवं पौनःपुन्येन शस्त्रे प्रवृत्तो भवति यदि पृथिवीकायादिजन्तूनामुपघाते वर्ते, तथाहि-'शसु हिंसायामित्यस्माच्छस्यते हिंस्यतइति करणे ष्ट्रन्विहितः, तच्च स्वकायपरकायादिभेदभिन्नमिति। पाठान्तरं वा 'एत्थ सत्तेपुणो पुणो,' 'अत्रमातापितृशब्दादिसंयोगे लोभार्थीसन् सक्तो गृद्धःअध्युपपन्नः पौनःपुन्येन विनिविष्टचेष्ट आलुम्पकः सहसाकारः कालाकालसमुत्थायी वा भवतीति । एतच्च साम्प्रतेक्षिणामपि युज्येत यद्यजरामरत्वं दीर्घायुष्कंवा स्यात्, तच्चोमयमपिनास्तीत्याह – 'अप्पंच' इत्यादि, अल्पंस्तोकं चशब्दोऽधिकवचनः, खलुरवधारणे, आयुरितिभवस्थितिहेतवः कर्मपुद्गलाः 'इहेति संसारे मनुष्यभवेवा एकेषां केषाञ्चिदेव 'मानवानां मनुजानामितिपदार्थः, वाक्यार्थस्तु-इह अस्मिन् संसारे केषाञ्चिन्मनुजानां क्षुल्लकभवोपलक्षितान्तर्मुहूर्तमात्रमल्पं-स्तोकमायुर्भवति, चशब्दा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org