________________
६७
मूलं-५३
आवरणसवविगमे कह ताइ न होंति जीवस्स? ।।" उच्यते, इह यथा जात्यस्य मरकतादिमणेर्मलोपदिग्धस्य यावन्नाद्यापि समूलमलापगमस्तावद्यथा यथा देशतो मलविलयः तथा तथा देशतोऽभिव्यक्तिरूपजायते, सा च कचित्कदाचित् कथञ्चित् भवतीत्यनेकप्रकारा, तथाऽऽत्मनोऽपि सकलकालकलापावलम्बिनिखिलपदार्थपरिच्छेदकरणैकपारमार्थिकस्वरूपस्याप्यावरणमलपटलतिरोहितस्वरूपस्य यावत् नाद्यापि निखिलकर्ममलापगमः तावद्याथा यथा देशतः कर्मकलोच्छेदः तथा तथा देशत: तस्य विज्ञप्तिरुज्जृम्भते, सा च क्वचित्कदाचित्कथञ्चिदित्यनेकप्रकारा, उक्तं च
___ "मलविद्धमणेर्व्यक्तिर्यथाऽनेकप्रकारतः।
कर्मविद्धात्मविज्ञप्तिस्तथाऽनेकप्रकारतः।।" सा चानेकप्रकारता मतिश्रुतादिभेदेनावसेया, ततो यथा मरकतादिमणेरशेषमलापगमसम्भवे समस्तास्पष्टदेशव्यक्तिव्यवच्छेदेन परिस्फुटरूपैकाभिव्यक्तिरुपजायते तद्वदात्मनोऽपि ज्ञानदर्शनचारित्रप्रभावतो नि:शेषावरणप्रहाणादशेषज्ञानव्यवच्छेदेनैकरूपा अतिस्फुटा सर्ववस्तुपर्यायसाक्षात्कारिणी विज्ञप्तिरुल्लसति, तथा चोक्तम्
"यथा जात्यस्य रत्नस्य, निःशेषमलहानितः।
स्फुटैकरूपाऽभिव्यक्तिर्विज्ञप्तिस्तद्वदात्मनः।।" ततो मत्यादिनिरपेक्ष केवलज्ञानं, अथवा शुद्धं केवलं, तदावरणमलकलङ्कस्य निःशेषतोऽपगमात्, सकलं वा केवलं, प्रथमत एवाशेषतदावरणापगमतः सम्पूर्णोत्पत्तेः, असाधारणं वा केवलमनन्यसदृशत्वात्, अनन्तं वा केवलं ज्ञेयानन्तत्वात्, केवलं च तज्ज्ञानं च केवलज्ञानं ननु सकलमपीदं ज्ञानं ज्ञाप्त्येकस्वभावं, ततो ज्ञप्त्येकस्वभावत्वाविशेषे किंकृत एष आभिनिबोधकादिभेदो?, ज्ञेयभेदकृत इति चेत्, तथाहि-वार्त्तमानिकं वस्त्वाभिनिबोधकज्ञानस्य ज्ञेयं, त्रिकालसाधारणः समानपरिणामो ध्वनिर्गोचरः श्रुतज्ञानस्य, रूपिद्रव्याण्यवधिज्ञानस्य, मनोद्रव्याणि मनः-पर्यायज्ञानस्य, समस्तपर्यायान्वितं सर्वं वस्तु केवलज्ञानस्य, तदेतदसमीचीनम्, एवं सति केवलज्ञानस्य भेदबाहुल्यप्रसक्तेः, ___ तथाहि-ज्ञेयभेदात् ज्ञानस्य भेदः, यानि च ज्ञेयानि प्रत्येकमाभिनिबोधिकादिज्ञानानामिष्यते तानि सर्वाण्यपिकेवलज्ञानेऽपिविद्यन्ते, अन्यथा केवलज्ञानेन तेषामग्रहणप्रसङ्गाद, अविषयत्वात्, तथा च सति केवलिनोऽप्यसर्वज्ञत्वप्रसङ्गः, आभिनिबोधिकादिज्ञानचतुष्टयविषयजातस्य तेनाग्रहणात्, न चैतदिष्टमिति, अथोच्येतप्रतिपत्तिप्रकारभेद आभिनिबोधिकादिभेदः,
तथाहि-न यादृशी प्रतिपात्तिराभिनिबोधकज्ञानस्य तादृशी श्रुतज्ञानस्य किन्त्वन्यादृशी, एवमवध्यादिज्ञानानामपि प्रतिपत्तव्यम्, ततो भवत्येन प्रतिपत्तिभेदतो ज्ञानभेदः, तदप्ययुक्तम्, एवं सत्येकस्मिन्नापि ज्ञानेऽनेकभेदप्रसक्तः, तथाहि-तत्तद्देशकालपुरुषस्वरूपभेदेन विविच्यमानमेकैकं ज्ञानं प्रतिपत्तिप्रकारानन्त्यं प्रतिपाद्यते, तन्नैषोऽपि पक्ष: श्रेयान्, स्यादेतद्-अस्त्यावारकं कर्म, तच्चानेकप्रकारं, ततः तद्भेदात् तदावार्यं ज्ञानमप्यनेकतां प्रतिपद्यते, ज्ञानावारकं च कर्म पञ्चधा, प्रज्ञापनादौ तथाऽभिधानात्, ततो ज्ञानमपि पञ्चधा प्ररूप्यते, तदेतदतीव युक्त्यसङ्गतं, यत आवार्यापेक्षमावारकमत आवार्यभेदादेव तद्भेदः, आवार्यं च ज्ञप्तिरूपापेक्षया सकलमप्येक
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org