________________
६६
नन्दी-चूलिकासूत्रं सासनस्स हियट्ठाए तओ सुत्तं पवत्तइ॥" एतेन स्वमनीषिकाव्युदासमहा, अथवा प्रज्ञा-वृद्धि: तया आप्त-प्राप्तं तीर्थकरगणधरैरिति गम्यते, प्रज्ञाप्तं, किमुक्तं भवति?-'सर्वंवाक्यं सावधारणं भवतीति' न्यायात् अवश्यमिदं वाक्यमवधारणीयं, ततोऽयमर्थ:-ज्ञानं तीर्थकरैरपि सकलकालावलम्बिसमस्तवस्तुस्तोमसाक्षात्कारिकेवलप्रज्ञया पञ्चविधमेव प्राप्तं, गणधरैरपि तीर्थकृद्भिरुपदिश्यमानं निजप्रज्ञया पञ्चविधमेव प्राप्तं, न तु वक्ष्यमाणनीत्या द्विभेदमेवेति, अथवा प्राज्ञात्-तीर्थकरदाप्तं प्राज्ञाप्तं गणधरैरिति गम्यते, अथवा प्राज्ञैः-गणधरैराप्तं प्राज्ञाप्तं, तीर्थकरादित्यनुमीयते,
'तद्यथे' त्युदाहरणोपदर्शनार्थः, आभिनिबोधिकज्ञानं श्रुतज्ञानं अवधिज्ञानं मनःपर्यायज्ञानं केवलज्ञानं, तत्राभिमुखो नियतः- प्रतिनियतस्वरूपो बोधो-बोधविशेषोऽभिनिबोधः (अभिनिबोध) एवाभिनिबोधकं, अभिनिबोधशब्दस्य विनयादिपाठाभ्युपगमाद् ‘विनयादिभ्य' इत्यनेन स्वार्थे इकण्प्रत्ययः 'अतिवर्तन्ते स्वार्थे प्रत्ययकाः प्रकृतिलिङ्गवचनानी'ति वचनात् अत्र नपुंसकता, यथा विनय एव वैनयिकमित्यत्र, अथवा अभिनिबुध्यते अनेनास्मादस्मिन् वेति अभिनिबोध:-तदावरणकर्मक्षयोपशमः, तेन निर्वृत्तमाभिनिबोधकं, आभिनिबोधकं च तद् ज्ञानंच आभिनिबोधिकज्ञानं-इन्द्रियमनोनिमित्तो योग्यदेशावस्थितवस्तुविषयः स्फुटप्रतिभासो बोधविशेष इत्यर्थः १,
तथा श्रवणं श्रुतंवाच्यावाचकभावपुरस्सरीकारेण शब्दसंस्पृष्टार्थग्रहणेहेतुरुपलब्धिविशेषः, एवमाकारं वस्तु जलधारणाद्यर्थक्रियासमर्थं घटशब्दवाच्यमित्यादिरूपतया प्रधानीकृतत्रिकालसाधारणसमानपरिणामः शब्दार्थपर्यालोचनानुसारी इन्द्रियमनोनिमित्तोऽवगमविशेष इत्यर्थः, श्रुतं च तद् ज्ञानं च श्रुतज्ञानं २,
तथा अवशब्दोऽध:शब्दार्थः, अव-अधोऽधो विस्तृतं वस्तु धीयते-परिच्छिद्यतेऽनेनेत्यवधिः, अथवा अवधिर्मयादा रूपविष्वेव द्रव्येषु परिच्छेदकतया प्रवृत्तिरूपा तदुपलक्षितं ज्ञानमप्यवधिः यद्वा अवधानम्-आत्मनोऽर्थसाक्षात्करणव्यापारोऽवधिः, अवधिश्चासौ ज्ञानं चावधिज्ञानं ३, ___ तथा परिः-सर्वतो भावे अवनंअवः 'तुदादिभ्यो न क्वा'वित्यधिकारे अकतौ चे' त्यनेनौणादिकोऽकारप्रत्ययः, अवनं गमनं वेदनमिति पर्यायाः, परि अव: पर्यवः, मनसि मनसो वा पर्यवः मनःपर्यव:-सर्वतो मनोद्रव्यपरिच्छेद इत्यर्थः, अथवा मनःपर्यय इति पाठः, तत्र पर्ययणं पर्ययः, भावेऽल् प्रत्ययः, मनसि मनसो वा पर्ययो मनःपर्ययः, सर्वतस्तत्परिदच्छेद इत्यर्थः, स चासौ ज्ञानं च मनःपर्ययज्ञानं, अथवा मनःपर्यायज्ञानमिति पाठः, ततः मनांसि-मनोद्रव्याणि पर्येतिसर्वात्मना परिच्छिनत्ति मनःपर्यायं, 'कर्मणोऽणि'ति अण्प्रत्ययः, मन:पर्यायं च तज्ज्ञानं च मनःपर्याय(यज्ञानं), यद्वा मनसः पर्याया: मनः पर्यायाः, पर्याया भेदा धर्मा बाह्यवस्त्वालोचनप्रकारा इत्यर्थः, तेषु तेषां वा सम्बन्धि ज्ञानं मनःपर्यायज्ञानं ४,
तथा केवलम्-एकमसहायं मत्यादिज्ञाननिरपेक्षत्वात् केवलज्ञानप्रादुर्भावे मत्यादीनामसम्भवात्, ननु कथमसम्भवो यावता मतिज्ञानादीनि स्वस्वावरणक्षयोपशमेऽपि प्रादुष्यन्ति, ततो निर्मूलस्वस्वावरणविलये तानि सुतरां भविष्यन्ति, चारित्रपरिणामवत्, उक्तं च
"आवरणदेसविगमे जाइवि जायंति मईसुयाईणि।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org