SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ ६४ नन्दी - चूलिकासूत्रं तेषां भगवदाज्ञाविलोपतो गुर्वाशातनातश्चोपचिताशुभगुरुकर्मा नियमतो दीर्घतरसंसारभागी, किञ्चएवं स वर्त्तमानो मतिमानपि श्रुतरत्नाद्वहिर्भवति, अन्यत्रापि तस्य दुर्लभ श्रुतत्वात्, को हि नाम सचेतनो दीर्घतरजीविताभिलापी सर्प्पमुखे स्वहस्तेन पयोबिन्दून प्रक्षिपतीति, स चैकान्तेनायोग्यः ? प्रतिपक्षभावनायामपीदमेव कथानकं परिभावनीय, केवलमिह घृतघटे भग्ने सति द्वावपि तौ दम्पती त्वरितं २ कप्पर यथाशक्ति घृतं गृहीतवन्तौ, स्तोकमेव विननाश, निन्दति चात्मानमाभीरो यथा - ही न मया घृतघटस्ते सम्यक् समर्पित:, आभीर्यपि वदति-समप्पितस्त्वा सम्यक्, परं न स मया सम्यक् गृहीतः, तत एवं तयोर्न कोपावेशदुःखं नापि घृतहानिर्नापि सकाल एवान्यसार्थिकैः सह स्वग्राममभिसमर्प्यतामपान्तराले तस्करावस्कन्दः, ततस्तौ सुखभाजनं जातौ एवमिहापि कथञ्चिदनुपयोगादिनाऽन्यथारूपव्याख्याने कृते सति पश्चादनुस्मृतयथावस्थितव्याख्यानेन सूरिणा शिष्यं पूर्वमूक्तं व्याख्यानं चिन्तयन्तं प्रत्येवं वक्तव्यम् - वत्स ! मैवं व्याख्यः, मया तदानीमनुपयुक्तेन व्याख्यातं, तत एवं व्याख्याहि, तत एवमुक्ते सति यो विनयेः कुलीनो विनीतात्मा स एवं प्रतिवदति - यथा भगवन्तः ! किमन्यथा परूपयन्ति ?, केवलमहं मतिदौर्बल्यादन्यथाऽवगतवानिति, स चैकान्तेन योग्य: ?, एवंविधाश्च विनेयाः प्रह्लादितगुरुमनसः श्रुतार्ष्णवपारगामिनो जायन्ते, चारित्रसम्पदश्च भागिनः, तदेवमेकैकं शिष्यमधिकृत्य योग्यायोग्यत्वविभागोपदर्शनं कृतम्, सम्प्रति सामान्यतः पर्षदो योग्यायोग्यरूपतया निरूपयति मू. (४७)सा समासओ तिविहा पन्नत्ता, तंजहा- जाणिआ अजाणिआ दुव्विअड्डा, जाणिआ जहा मू. (४८) खीरमिव जहाहंसा जे धुट्टंति इह गुरुगुणसमिद्धा । दोई अविवज्जती तं जाणसुं जाणिअं परिसं ॥ मू. (४९) अजाणिआ जहा- जा होइ पगइमहुरा मियछावयसीहकुक्कुडयभूआ । रयणमिव असंठविआ अजाणिआ सा भवे परिसा ॥ वृ.'सा' पर्षत् 'समासतः' संक्षेपेण 'त्रिविधा' त्रिप्रकारा प्रज्ञप्ता, तीर्थकरगणधरैरिति गम्यते, पर्षदिति कथं लभ्यते इति चेत् ?, उच्यते, इह प्रागुक्तं प्रारम्भणीयः प्रवचनानुयोग इति, अनुयोगश्च शिष्यमधिकृत्य प्रवर्त्तते, निरालम्बनस्य तस्याभावात्, ततः सामर्थ्यात् सेत्युक्ते पर्षदिति लभ्यते, 'तद्यथे' त्युदाहरणोपदर्शनार्थं, 'जाणिय'त्ति ज्ञा अवबोधने' जानातीति ज्ञा, 'इगुपान्त्यप्रीकृगृज्ञः ' इति कप्रत्ययः, 'इति धातो लोप' इत्याकारलोपः, ततो 'अजाद्यत' इति स्त्रियामाप्, शैव ज्ञिका, स्वार्थिकः : कः प्रत्यय:, 'स्वज्ञाजभस्राधातुत्ययकादि' त्यापः स्थाने इकारादेशः,' कप्रत्ययाच्च परत: स्त्रियामाप्, तत्सिद्धं ज्ञिकेति, ज्ञिका नाम परिज्ञानवती, किमुक्तं भवति ? - कुपथप्रवृत्तपाषण्डमतनादिग्धान्तःकरणा गुणदोषविशेषपरिज्ञानकुशला सतामपि दोषाणामपरिग्राहिका केवलगुणग्रहणयत्नवतीति, उक्तं च "गुणदोसविसेसण्णू अनभिग्गहिया य कुस्सुइमएसुं। एसा जाणगपरिसा गुणतत्तिल्ला अगुणवज्जा ॥" तत्र 'गुणतत्तल्लेति' गुणेषु यत्त्रवती गुणग्रहणपरायणा इत्यर्थः, 'अगुणवज्जि' त्ति अगुणान् For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy