________________
-
मूलं-४६ कलसहस्रसङ्घातात्मिका, ततश्चकोप तस्मै जनाईनो-रे दुष्टाधम! किमिदमकार्षीः?,
ततः स प्राणभयात् सकलमपि यथावस्थितमचीकथत्, ततो महानर्थकारित्वात् स तत्कालमेव निरोपितो विनाशाय, ततो भूयोऽपि जनाईनो जनानुकम्पया पौषधशालामुपगम्याष्टमभक्तविधानतरतं देवमाराधयामास, ततः प्रत्यक्षीबभूव देवः, कथितवांश्च जनार्दनः प्रयोजनं, ततो भूयोऽपि दत्तवान् अशिवोपशमनी भेरी, तां च आप्तत्वेन सुनिश्चिताय कृष्णः समर्पयामास। एष दृष्टान्तः, अयमर्थोपनयः-यथा भेरी तथा प्रवचनावगतौ सूत्रार्थों, यथा भेरीशब्दश्रवणतो रोगापगमः तथा सिद्धान्तस्य प्रभावश्रवणतो जन्तूनां कर्मविनाशः, ततो यः सूत्रार्थावपान्तराले विस्मृत्य विस्मृत्यान्यत: सूत्रमर्थं वा संयोज्य कन्थासमानौ करोति स भेरीताडननियुक्तप्रथमपुरुषसमानः, स चैकान्तनायोग्यः, यस्त्वाचार्यप्रणीतौ सूत्रार्थों यथावदवधारयति स भेरीताडननियुक्तपाश्चात्यपुरुप इव कल्याणसम्पदे योग्यः।।। ___ सम्प्रत्याभीरीदृष्टान्तभावना-कश्चिदाभीरो निजभार्यया सह विक्रयाय घृतं गन्त्र्या गृहीत्वा पत्तनमवतीर्णः, चतुप्पथे समागत्य वणिगापणेषु पणायितुं प्रवृत्तो, घटितश्च पणाय संटङ्कः, ततः समारब्धेघृतमापे गन्त्र्या अधस्तादवस्थिता आभीरी, घृतं भावारकेण समर्प्यमाणंप्रतीच्छतीति, ततः कथमप्यर्पणे ग्रहणे वाऽनुपयोगतोऽपान्तराले वारकापरपर्यायो लघुघृतघटो भूमौ निपत्य खण्डशो भग्नः, ततो धृतहानिदूनमनाः पतिरुल्लपितुं स्वरपरुषवाक्यानि प्रावर्तत, यथा हा पापीयसि! दुःशीले कामविडम्बितमानसा तरुणतरुणिमाभिरमणीयं पुरुषान्तरमवलोकसे न सम्यग् घृतघटमभिगृह्णासि, ततः सा खरपरुषवाक्यश्रवणतः समुद्भूतकोपावेशवशोच्छलितकम्पकम्पितपीनपयोधरा स्फुरदधरबिम्बोष्ठी दूरोत्पाटितभूरेखाधनुरवष्टम्भतो नाराच श्रेणिमिव कृष्णकटाक्षसन्ततिमविरतं प्रतिक्षिपन्ती प्रत्युवाच-हा ग्रामेयकाधम ! घृतधटमप्यवगणय्य विदग्धमत्तकामिनीनां मुखारविन्दान्यवलोकसे, न चैतावताऽवतिष्ठसे, ततः खरपरुषवाक्यैमिप्यधिक्षिपसि, ततः स एवं प्रत्युक्तोऽतीवज्वलितकोपानलोऽपि यदकिञ्चिदसम्बद्धं भाषितुं लग्नः,साऽप्येवं, ततः समभूत्तयोः केशाकेशि, ततो विसंस्थुलपादादिन्यासतः सकलमपिप्रायो गन्त्रीधृतं भूमौ पतितं, तच्च किञ्चिच्छोषमुपगतमवशेषं चावलीढं श्वभिः, गन्त्रीधृतमपि शेषीभूतमपहृतं पश्यतोहरैः, सार्थिका अपि स्वं स्वं धृतं विक्रीय स्वग्रामगमनं प्रपन्नाः, ततः प्रभूतदिवसभागातिक्रमेणापसृते युद्धे स्वास्थ्ये च लब्धे यकिञ्चित्प्रथमतो विक्रयामासतर्घतं तद्रव्यमादाय तयोः स्वग्रामं गच्छतोरपान्तरालेऽस्तं गते सहस्रमानौ सर्वतः प्रसरमभिगृह्णति तमोविताने परास्कन्दिनः समागत्य वासांसि द्रव्यं बलीवर्दो चापहृतवन्तः, तत एवं तौ महतो दुःखस्य भाजनमजायेतात्। एष दृष्टान्तोऽयमर्थोपनयः यो विनेयोऽन्यथा प्ररूपयन अधीयानो वा कथमपि खरपरुषवाक्यैचार्येण शिक्षितोऽधिक्षेपपुरस्सरं प्रतिवदति-यथा त्वयैवेत्थमहं शिक्षितः, किमिदानीं निहुषे? इत्यादि, स न केवलमात्मानं संसारे पातयति, किन्त्वाचार्यमपि खरपरुषप्रत्युच्चारणादिना तीव्रतीव्रतरकोपानलज्वालनात्, भवन्ति च कुविनेया मृदोरपि गुरोः खरपरुषप्रत्युच्चारणादिना कोपप्रकोपाः, यत उक्तमुत्तराध्ययनेषु
"अनासवा थूलवया कुसीला, मिउंपि चंडं पकरेंति सीसा" इति॥ अपि च-गुणगुरवो गुरवः, ततस्ते यदि कथमपि दुष्टशिष्यशिक्षापनने कोपमुपागमत् तथापि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org