________________
मूलं-४३ प्रमादादिरूपकोपहेतुसम्पत्तावपि कोपोदयवशतो निष्ठुरभाषणम्, एतेन शिष्यानुवर्तनायामतिकौशलमाह, तथाहि-गुणसम्पद्योग्यान् कथञ्चित् प्रमादिनोऽपि दृष्ट्वा धर्मानुगतैः मधुरवचोभिराचार्यस्तान् शिक्षयेत्, यथा तेषां मनः प्रसादमेव विशिष्टगुणप्रतिपत्त्यभिमुखमनुते, न कोपं प्रतिपन्नगुणभ्रंशकारणमिति; उक्तं च
"धम्ममइएहिं अइसुंदरेहि कारणगुणोवणीएहिं।
पल्हायंतो य मनं सीसं चोएइ आयरिओ॥" तत इत्थं शिष्यानुवर्त्तनाकौशल्यख्यापनार्थमुक्तं प्रकृत्या मधुरवाच'मिति, तं दृष्यगणिनं 'प्रयतः' प्रयत्नपरः प्रणमामि । पुनरपि दूष्यगणिन एव स्तुतिमाहमू.(४४) सुकुमालकोमलतले तेसिंपणमामि लक्खणपसत्थे।
पाए पावयणीणं पडिच्छसयएहि पणिवइए॥ वृ.तेषां दूप्यगणिनां प्रावचनिकानां' प्रवचने-प्रवचनार्थकथने नियुक्ताः प्रावचनिकास्तेषां, तत्कालापेक्षया युगप्रधानानामित्यर्थः, पादान् लक्षणैः-शङ्खचक्रादिभिः प्रशस्तान्-श्रेष्ठान्, तथा सुकुमारम्-अकर्कशं कोमलं-मनोज्ञं तलं येषां तान्, पुनः किम्भूतामित्याह-प्रातीच्छिकशतैः प्रणिपतितान्, इह ये गच्छान्तरवासिनः स्वाचार्य पृष्ट्वा स्वाचार्यानुज्ञापुर:-सरमनुयोगाचार्यप्रतीच्छया चरन्तीति प्रातीच्छिका इति व्युत्पत्तेः, तेषां शतैः प्रणिपतितान्-नमस्कृतान् प्रणिपतामि' नमस्करोमि। तदेवमावलिकाक्रमेण महापुरुषाणां स्तवमभिधाय सम्प्रति सामान्येन श्रुतधरनमस्कारमाहमू.(४५) जे अन्ने भगवतं कालिअसुयआनुओगिए धीरे।
ते पणमिऊण सिरसा नाणस्स परूवणं वोच्छं।। वृ.ये अन्येऽतीता भावनिश्च भगवन्तः-श्रुतरत्ननिकरपूरितत्वात्, समग्रैश्वर्यादिमन्त: कालिकश्रुतानुयोगिनो धीराविशिष्टधिया राजमानाः तान् 'शिरसा' उत्तमाङ्गेन प्रणम्य ज्ञानस्य' आभिनिबोधिकादेः 'प्ररूपणां' प्ररूपणाकारकमध्ययनं वक्ष्ये, क एवमाह?, उच्यते-दूष्यगणिशिष्यो देववाचकः । इह ज्ञानस्य प्ररूपणां वक्ष्य इत्युक्तम्, सा च प्ररूपणा शिष्यानधिकृत्य कर्तव्या, शिष्याश्च द्विधा-योग्या अयोग्याश्च, तत्र योग्यानधिकृत्य कर्त्तव्या नायोग्यानिति प्रथमतो योग्यायोग्यविभागोपदर्शनार्थं तावदिदमाहमू.(४६) सेलघण कुडग चालणि परिपूणग हंस महिस मेसे य।
मसग जलूग बिराली जाहग गो भेरी आभीरी॥ वृ.अत्र पर आह-ननु ये देववाचकनामान: सूरयस्ते महापुरुषाः सदैव समभावव्यवस्थिताः कृपालवः अत एव सकलसत्त्वहितसम्पादनाय कृतोद्यमाः तत्कथमिदमध्ययनं दातुमुद्यता योग्यायोग्यविभागनिरीक्षणमारभन्ते?, न हि परहितकरणप्रवृत्तमनसो महीयांसो महादानंदातुकामा मार्गणकगुणमपेक्ष्य दानक्रियानां प्रवर्त्तन्ते दयालवः, किन्तु प्रावृषेण्यजलभृत इवाविशेषेण, अत्रोच्यते, यत एव देववाचकसूरयः समभावव्यवस्थिताः सकलसत्त्वहितसम्पादनाय कृतोद्या महीमांस, कृपालवश्च अत एव शभमिदमध्ययनं दातुमुद्यता योग्यायोग्यविनेयजनविभागोपदर्शनमारभन्ते, मा भूदयोग्येभ्यः प्रदाने तेषामनर्थोपनिपात इतिकृत्वा, अथ कथं तेषामेत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org