SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ ५४ भविअजनहिययदइए दयागुणविसारए धीरे ॥ वृ. वरं प्रधानं सार्द्धषोडशवण्णिकारूपं तापितं यत्कनकं यत्स्वर्णं यच्च वरचम्पकं - सुवर्णचम्पंकपुष्पं तथा यच्च विमुकुलं विकसितं वरं प्रधानं कमलम् - अम्भोजं तस्य यो गर्भः तत्सदृशवर्णान् तत्समदेहकान्तीन्, तथा 'दयागुणविशारदान्' सकलजगज्जन्तुदयाविधिविधापनयोरतीव कुशलान्, तथा धिया राजन्ते - शोभन्ते इति धीरास्तान् । मू. (४०) अड्डभरहप्पहाणे बहुविहसज्झायसुमुणियपहाणे । अनुओगियवरवसमे नाइलकुंवसनंदिकरे ॥ वृ. तथा 'अर्द्धभरतप्रधानान्' तत्कालापेक्षया सकलार्द्ध भरतमध्ये युगप्रधानान् तथा 'सुविज्ञातबहुविधस्वाध्यायप्रधानान्' बहुविध आचारादिभेदात् स्वाध्यायः ततः सुविज्ञातो बहुविधः स्वाध्यायो यैस्ते तथोक्ताः तेषां मध्ये प्रधानान्-उत्तमान्, तथा अनुयोजिताः - प्रवर्तिता यथोचित्ते वैयावृत्त्यादौ वरवृषभाः - सुसाधवो यैस्ते तथोक्तास्तान्, तथा नागेन्द्रकुलवंशस्य नन्दिकरानं, प्रमोदकरानित्यर्थः । मू. ( ४१ ) भूयहिअप्पगब्धे वंदेऽहं भूयदिन्नमायरिए । भवभयवुच्छेयकरे सीसे नागज्जुनरिसीण ॥ नन्दी - चूलिकासूत्रं वृ. तथा 'भूतहितप्रगल्भान्' अनेकधासकलत्त्वहितोपदेशदानसमर्थान् 'भवभयव्यवच्छेदकरान्' सदुपदेशादिना संसारभयव्यवच्छेदकरणशीलान् 'नागार्जनऋषीणां' नागार्जुनमहर्षिसूरीणां शिष्यान्, भूतदिन्ननामकान् आचार्यानहं वन्दे । सूत्रे च भूतदिनशब्दात् मकारोऽलाक्षणिकः । मू. (४२) Jain Education International सुमुणियनिच्चानिच्चं सुमुणियसुत्तत्थारयं वंदे । सब्भावुब्भावणयातत्थं लोहिच्चणामानं ॥ वृ. सुष्ठु यथावस्थिततया मुणितं ज्ञातं, 'ज्ञो जाणमुणाविति' प्राकृतलक्षणाज्जानातेर्गुण आदेशः, नित्यानित्यं सामर्थ्याद्वस्त्विति गम्यते, येन स सुज्ञातनित्यानित्यः तं यथा च वस्तुनो नित्यानित्यता तथा धर्मसंग्रहणिटीकायां सविस्तरमभिहितमिति नेह भूयोऽभिधीयते, मा भूद्रन्थगौरवमितिकृत्वा, एतेन न्यायवेदिता तस्यावेदिता, तथा सुष्ठु अतिशयेन ज्ञातं यत्सूत्रमर्थश्च तस्य धारकम्, अनेन सदैवाभ्यस्तसूत्रार्थता तस्यावेद्यते, तथा सन्तो- यथावस्थिता विद्यमाना भावाः-सद्भावाः तेषामुद्भावना प्रकाशनं सद्भावोद्भावना तस्यां तथ्यम् - अविसंवादिनं सद्भावोद्भावनातथ्यम्, एतेन तस्य सम्यक्प्ररूपकत्वमुक्तम्, इत्थम्भूतं भूतदिन्नाचार्यशिष्यं लोहित्यनामानमहं वन्दे ॥ - - मू. (४३) अत्थमहत्थक्खाणिं सुसमणवक्खाणकहणनिब्वाणि । पयईइ महुरवाणि पयओ पणमामि दूसगणिं ।। वृ. तत्र भाषाभिधेया अर्था विभाषावार्तिकाभिधेया महार्थाः तेषामर्थमहार्थानां खानिरिव अर्थमहार्थखानि: तं, एतेन भाषाविभाषावार्त्तिकरूपानुयोगविधावतीव पटीयस्त्वमावेदयति, तथा सुश्रमणानां विशिष्टमूलोत्तरगुणकलितसंयतानामपूर्वशास्त्रार्थव्याख्याने पृष्टार्थकथने च निर्वृतिः - समाधिर्यस्य स तथा तं, तथा प्रकृत्या स्वभावेन मधुरवाचं-मधुरगिरंन शिष्यगतमनाक् For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy