________________
५०
मू. ( २३ )
सुहम्मं अग्गिवेसाणं, जंबूनामं च कासवं । पभवं कच्चायणं वंदे, वच्छं सिज्ज भवं तहा ॥
वृ. इह स्थविरावलिका सुधर्म्मस्वामिनः प्रवृत्ताः शेषगणधराणां सन्तानप्रवृत्तेरभावात्, उक्तं च-‘“तित्थं च सुहम्माहो निरवच्चा गणहरा सेसा " ततस्तमेवादौ कृत्वा तामभिधत्ते - "सधर्म्म सुधर्म्मस्वामिनं पञ्चमगणधरं' अग्गिवेसाणं' मिति अग्निवेशस्यापत्यं वृद्धं अग्निवेश्यो 'गर्गादेर्य'त्रिति यञ, प्रत्ययः तस्याप्यपत्यमाग्निवेश्यायनः तं आग्निवेश्यायनं, वन्दे इति क्रियाभिसम्बन्धः, तथा तस्य शिष्यं जम्बूनामानं, चः समुच्चये, कश्यपस्यापत्यं काश्यपः 'विदादेर्वृद्ध' इत्यञ्प्रत्ययः, तं काश्यपयोत्रं वन्दे, तस्यापि जम्बूस्वामिनः शिष्यं प्रभवनामानं कात्यायनं कतस्यापत्यं कात्यः 'गर्गोदेर्यञि 'ति यञ् प्रत्ययस्तं वन्दे तथेति समुच्चये ॥
मू. ( २४ )
जस भदं तुंगियं वंदे, संभूयं, चेव माढरं ।
भद्दबाहुं च पाइन्नं, थूलभद्दं च गोयमं ॥
नन्दी - चूलिकासूत्रं
वृ. शय्यम्भवशिष्यं यशोभद्रं 'तुङ्गिकं' तुङ्गिकगणं व्याघ्रापत्योत्रं वन्दे, तस्य च द्वौ प्रधानशिष्यावभूताम्, तद्यथा-सम्भूतविजयो माढरगोत्रो भद्रबाहुश्च प्राचीनगोत्रः, तौ द्वावपि नमस्कृरुते, 'सम्भूतं चेव माढरं । भद्रबाहुं च पाईन्न' मिति, तत्र सम्भूतविजयस्य विनेयः स्थूलभद्रो गौतम आसीत्, तमाह-स्थूलभद्रं, चः समुच्चये, गौतमं गौतमस्यापत्यं गौतमः 'ऋषिवृष्ण्यन्धककुरुभ्य' इति अण् प्रत्ययः तं, वन्दे इति क्रियायोगः, स्थूलभद्रस्यापि द्वौ प्रधानशिष्यौ बभूवत:, तद्यथाएलापत्यगोत्रो महागिरिर्वशिष्टगोत्र: सुहस्ती। तौ द्वावपि प्रणिणंसुराह
मू. (२५)
एलावच्चसगोत्तं वंदामि महागिरिं सुहत्थि च ।
तत्तो कोसि अगोत्तं बहुलस्स सरिव्वयं वन्दे ॥
वृ. इह यः स्वापत्यसन्तानस्य स्वव्यपदेशकारणमाद्य: प्रकाशक: पुरुष: तदपत्यसन्तानो गोत्रं, इलापतेरपत्यं एलापत्यः, 'प्रत्युत्तरपदयमादित्यादित्यतेर्योऽणपवादे वा स्वे' इति यंञ् प्रत्ययः, एलापत्येन सह गोत्रेण वर्त्तते यः स एलापत्यसगोत्रः तं वन्दे महागिरिं, सुहस्तिनं च प्रागुक्तगोत्रं, तत्र सुहस्तिन आरभ्य सुस्थिसुप्रतिबुद्धादिक्रमेणावलिका विनिर्गता सा यथा दशाश्रुतस्कन्धे तथैव द्रष्ट्वा, न च तयेहाधिकारः, तस्याभावलिकायां प्रस्तुताध्ययनकारकस्य देववाचकस्वाभावात्, तत इह महागिर्यावलिकयाऽधिकारः, तत्र महागिरेद्धौ प्रधानशिष्यावभूताम्, तद्यथा - बहुलो बलिस्सहश्च, तौ च द्वावपि यमलभ्रातरौ कौशिकगौत्रौ च, तयोरपि मध्ये बलिस्सहः प्रवचनप्रधान आसीत्, ततस्तमेव निनंसुराह - 'ततो' महागिरेरनन्तरं कौशिकगोत्रं बहुलस्य ‘सदृशवयसं' समानवयसं, द्वयोरपि यमलभ्रातृत्वात्, 'वन्दे' नमस्करोमीति । मू. (२६) हारियगुत्तं साइं च वंदिमो हारियं च सामज्जं ।
वंदे कोसियगोत्तं संडिल्लं अज्जजीयधरं ॥
वृ. बलिस्सहस्यापि शिष्यं हारीतगोत्रं 'स्वातिं' स्वातिनामानं चः समुच्चये वन्दे, तथा स्वातिशिष्यं ' हारीतं' हारीतगोत्रं चः समुच्चये स च भिन्नक्रमः श्यामार्यशब्दानन्तरं द्रष्टव्यः, श्यामार्यं वन्दे, तथा श्यामार्यशिष्यं कौशिकगोत्रं 'शाण्डिल्यं' शाण्डिल्यनामानं वन्दे, किम्भूतमित्याह-‘आर्यजीतधरं’ आरात् सर्वहेयधर्मेभ्योऽर्वाक् यातं आर्यं 'जीत' मिति सूत्रमुच्यते,
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International