________________
मूलं - १७
४९
चूडा यस्य स तथा तत्र मन्दरपक्षे वैडूर्यमयी चूडा कान्ता विमला च सुप्रतीता, संघमन्दरपक्षे तु कान्ता भव्यजनमनोहारित्वाद्विमला यथावस्थितजीवादिपदार्थस्वरूपोपलम्भात्मकत्वात्, तस्य इत्थंभूतस्य सङ्गमहामन्दरगिरेर्यन्माहात्म्यं तद्विनयप्रणतो वन्दे ।
तदेवं संघस्यानेकधा स्तवोऽभिहितः, सम्प्रत्यावलिकाः प्रतिपादनीयाः, ताश्च तिस्त्रः, तद्यथातीर्थकरावलिका गणधरावलिका स्थविरावलिका च, तत्र प्रथमतः तीर्थकरावलिकामाहमू. (१८ ) उसमं अजियं संभवमभिनंदन सुमइ सुप्पभ सुपासं । ससि पुप्फदंत सीयल सिज्जंसं वासुपुज्जं च ॥ विमलमनंतय धम्म संतिं कुथुं अरं च मल्लिं च ।
मू. ( १९ )
मुनिसुव्वय नमि नेमिं पासं तह वद्धमाणं च ॥
वृ. गाथाद्वयं निगदसिद्धं ।। गणधरावलिका तु या यस्य तीर्थकृतः सा तस्य प्रथमानुयोगतो दृष्ट्वा, भगवद्वर्द्धमानस्वामिन आह
मू. ( २० )
पढमित्थ इदं भूई बीए पुन होइ अग्गिंभूईति । तईए य वाउभूई तओ वियत्ते सुहम्मे य ॥ मंडिअ मोरियपुत्ते अकंपिए चेव अलयभावा य। मेअज्जे य पहासे य गणहरा हुति वीरस्स ॥
मू. ( २१ )
वृ. गाथाद्वयमेतदपि निगदसिद्धं । एते च गणभृतः सर्वेऽपि तथाकल्पत्वाद्भवदुपदिष्टं उप्पन्ने इ वेत्यादि मातृकापदत्रयाधिगम्य सूत्रतः सकलमपि प्रवचनंं दृब्धवन्तः, तच्च प्रवचनं सकलसत्त्वानामुपकारकं, विशेषत इदानीन्तनजनानामतः तदेव सम्प्रत्यभिष्टुवन्नाहनिव्वुइपहसासणयं जयइ सया सव्वभावदेसणयं ।
मू. (२२)
कुसमयमयनासणयं जिणिंदवरवीरसासनयं ॥
वृ.निर्वृत्तेः-मोक्षस्य पन्थाः- सम्यग्दर्शनज्ञानचारित्राणि, तथा चाह भगवानुमास्वातिवाचकः‘सम्यग्दर्शनज्ञानचारित्राणि मोक्षमार्ग : ' इति, निर्वृतिपथ: 'ऋक्पूः पथ्यपोऽदि 'ति समासान्तोऽत्प्रत्ययः, यद्यपि निर्वृतिपथशब्देन ज्ञानादित्रयमभिधीयते, तथाऽपीह सम्यग्दर्शनचारित्रयोरेव परिग्रहो, ज्ञानस्योत्तरत्र विशेषेणाभिधानात् निर्वृतिपथस्य शासनं शिष्यतेऽनेनेति शासनंप्रतिपादकं निर्वृतिपथशासनं, ततः 'कश्चे'ति प्राकृतलक्षणात्, स्वार्थे कप्रत्ययः, निर्वृतिपथशासनकम्, एवमन्यत्रापि यथायोगं कप्रत्ययभावना कार्या, 'सदा' सर्वकालं 'जयति' सर्वाण्यपि प्रवचनानि प्रभावातिशयेनातिक्रम्यातिशायी वर्त्तते, कथंभूतं सदित्याह - 'सर्वभावदेशनकं' सर्वे च ते भावाश्च सर्वभावाः तेषां देशनं-प्ररूपकं सर्वभावदेशनं, ततः स्वार्थिकः कप्रत्ययः, , सर्वभावदेशनकम्, अत एव 'कुसमयमदनाशनकं' कुत्सिताः समया: परतीर्थिकप्रवचनानि तेषां मदःअवलेपस्तस्य नाशनं ततः स्वार्थिककप्रत्यये कुसमयमदनाशनकं, कुसमयमदनाशनं च कुसमयानां यथोक्तसर्वभावदेशकत्वायोगात्, इत्थंभूतं जिनेन्द्रवरवीरशासनकं जयति । सम्प्रति यैरिदमविच्छेदेन स्थविरैः क्रमेणैदंयुगीनजन्तूनामुपकारार्थमानीतं तेषामावलिकामभिधित्सुराह-
30/4
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org