________________
मूलं - १०
सम्प्रति सङ्घस्यैवाक्षोभ्यतया समुद्ररूपकेण स्तवं चिकीर्षुराहमू. ( ११ )
४७
भद्दं धिइवेलापरिगयस्स सज्झायजोगमगरस्स । अक्खोहस्स भगवओ संघसमुद्दस्स रंदस्स ॥
वृ. (संघ एव समुद्रः) सङ्घसमुद्रः तस्य भद्रं भवत्विति क्रिया शेषः, किंविशिष्टस्य सत इत्याह-'धृतिवेलापरिगतस्य' धृतिः - मूलोत्तरगुणविषयः प्रतिदिवसमुत्सहमान आत्मपरिणामविशेषः सैव वेला - जलवृद्धिलक्षणा तया परिगतस्य, तथा स्याध्याययोग एव कर्म्मविदारणक्षमशक्तिसमन्विततया मकर इव मकरो यस्मिन् स तथा तस्य, तथा 'अक्षोभ्यस्य' परीषहोपसर्गसम्भवेऽपि निष्प्रकम्पस्य 'भगवतः ' समग्रैश्वर्यरूपयशोधर्मप्रयत्न श्रीसम्भारसमन्वितस्य 'रुन्दस्य' विस्तीर्णस्य। भूयोऽपि सङ्घस्यैव सदास्थायितया मेरुरूपकेण स्तवमाह-गाथाषट्केन सम्बन्धःमू. ( १२ ) सम्मदंसणवरवइरदढरूढगाढावगाढपेढस्स ।
धम्मवररयणमंडिअचामीयरमेहलागस्स ।
वृ. सम्यक्-अविपरीतं दर्शनं-तत्त्वार्थश्रद्धानं सम्यग्दर्शनं तदेव प्रथमं मोक्षाङ्गतया सारत्वाद्वरवज्रमिव सम्यग्दर्शनवरवज्रं तदेव दृढं निष्प्रकम्पं रूढं-चिरप्ररूढं गाढंनिबिडमवगाढं निमग्नं पीठं प्रथम भूमिका यस्य स तथा, इह मन्दरगिरिपक्षे वज्रमयं पीठं दृढादिविशेषणं सुप्रतीतं, सङ्घमन्दरगिरिपक्षे तु सम्यग्दर्शनवरवज्रमयं पीठं दृढं शङ्कादिशुषिररहिततया परतीर्थकवासनाजलेनान्त: प्रवेशाभावतश्चालयितुमशक्यम्, रूढंप्रतिसमयं विशुद्धयमानतया प्रशस्ताध्यवसायेषु चिरकालं वर्त्तमान्, गाढं तीव्रतत्त्वविषयरुच्यात्मकत्वाद्, अवगाढं जीवादिषु पदार्थेषु सम्यगवबोधरूपतया प्रविष्टं, तं वन्दे, सूत्रे प्राकृतत्वात् द्वितीयार्थे षष्ठी, यदाह पाणिनिः स्वप्राकृतलक्षणे'द्वितीयार्थे षष्ठी', अथवा सम्बन्धविवक्षया षष्ठी, यथा माषाणामश्रनीयादित्यत्र यद्वा इत्थंभूतस्य सङ्घमन्दरगिरेर्यत् माहात्म्यं तद् वन्दे इति माहात्म्यशब्दाध्याहारापेक्षया षष्ठी, तथा दुर्गतौ प्रपतन्मात्मानं धार यतीति धर्म्मः स एव वररत्नमण्डिता चामीकरमेखला यस्य स धर्म्मवररत्नमण्डितचामीकरमेखलाकः ‘शेषाद्वे'ति कप्रत्ययः तस्य, इह धम्र्म्मो द्विधा मूलगुणरूप उत्तरगुणरूपश्च तत्रोत्तरगुणरूप रत्नानि मूलगुणरूपस्तु मेखला, न खलु मूलगुणरूपधर्म्मात्मकचामीकरमेखला विशिष्टोत्तरगुणरूपवररत्नविभूषणविकला शोभते ।
मू. (१३)
नियमूसियकणयसिलायलुज्जलजलंतचित्तकूडस्स ।
नंदनवनमनहरसुरभिसीलगंधुद्धमायस्स ॥
वृ . इहोच्छ्रितशब्दस्यव्यवहितः प्रयोगः, ततश्चायमर्थः - नियमा एव इन्द्रियनोइन्द्रियदमरूपाः कनकशिलातलानि तेषु उच्छ्रितानि - उज्ज्वलानि ज्वलन्ति चित्तान्येव कूटानि यस्मिन् स तथा तस्य, इह मन्दरगिरौ कूटानामुच्छ्रितत्वमुज्ज्वलत्वं भासुरत्वं च सुप्रतीतं, सङ्घमन्दरगिरिपक्षे तु चित्तरूपाणि कूटान्युच्छ्रितानि अशुभाध्यवसायपरित्यागादुज्ज्वलानि प्रतिसमयं कर्ममलविगमात् ज्वलन्ति उत्तरोत्तरसूत्रार्थस्मरणेन भासुरत्वात्, तथा नन्दन्ति सुरासुरविद्याधरादयो यत्र तन्नन्दनं वनम्-अशोकसहकारादिपादपवृन्दं नन्दनं च तद्वनं च नन्दनवनं लतावितानगतविविधफलपुष्पप्रवालसंकुलतया मनो हरतीति मनोहरं, 'लिहादिभ्यः' इत्यच् प्रत्ययः, नन्दनवनं च तन्मनोहरं च यस्य सुरभिस्वभावो यो गन्धस्तेन 'उद्धमाय: ' आपूर्णः, उद्धमायशब्द आपूर्णपर्याय:, यत
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org