SearchBrowseAboutContactDonate
Page Preview
Page 460
Loading...
Download File
Download File
Page Text
________________ ४५७ मूलं-३२२ आयभावे समोयरइ, तदुभयसमोआरेणं माणीए समोअरइ आयभावे अ, से तं जाणयसरीरभविअसरीरक्हरिते दव्वसमोआरे। से तं नोआगमओ दव्वसमोआरे। से तं दव्वसमोआरे। वृ.समवतरणं-वस्तूनां स्वपरोभयेष्वन्तर्भावचिन्तनं समवतारः, स च नामादिभेदात् षोढा, तत्र नामस्थापने सुचचिते, एवं द्रव्यसमावतारोऽपिद्रव्यावश्यकादिवदभ्यूह्य वक्तव्यः, यावद् ज्ञशरीरभव्यहरीरव्यतिरिक्तो द्रव्यसमवतारस्त्रिविधः प्रज्ञप्त:-तद्यथा-आत्मसवतार इत्यादि, तत्र सर्वद्रव्याण्यप्यात्मसमवतारेण चिन्त्यमानान्यात्मभावे-स्वकीयस्वरूपे समवतरन्ति-वर्तन्ते तदव्यतिरिक्तत्वातेषां, व्यवहारतस्तु परसमवतारेण परभावे समवतरन्ति, यथा कुण्डे वदराणि, निश्चयतः सर्वाण्यपि वस्तूनि प्रागुक्तयुक्त्वा स्वात्मन्येव वर्तन्ते, व्यवहारतस्तु स्वात्मनि आधारे च कुण्डादिके वर्तन्त इति भावः, तदुभयसमवतारेण तदुभये वस्तूनिवर्तन्ते, यथा कडकुड्यदेहलीपट्टादिसमुदायात्मके गृहे स्तम्भो वर्तते आत्मभावे च, तथैव दर्शनादिति, एवुबुध्नोदरकपालात्मके घटे ग्रीवा वर्तते आत्मभावे चेति, आह-यद्येवमशुद्धं (यद्येवं शुद्धः) तदा परसमवतारो नास्त्येव, कुण्डादौ वृत्तानामपि बदरादीनां स्वात्मनि वृत्तेविद्यमानत्वात्, सत्यं, किन्तु तत्र स्वात्मनि वृत्तिविवक्षामकृत्वैव तथोपन्यासः कृतो, वस्तुवृत्त्या तु द्विविध एव समवतारः, अत एवाह-अथवा ज्ञशरीरभव्यशरीव्यतिरिक्तो द्रव्यसमवतारो द्विविधः प्रज्ञप्तः, तद्यथा-आत्मसमवतारस्तदुभयसमवतारश्च, अंशुद्धस्य(शुद्धस्य)परसमवतारस्य क्वाप्यसम्भवात्, न हि स्वात्मन्यवर्तमानस्य बान्ध्येयस्येव परस्मिन् समवतारो युज्यत इति भावः, पूर्व चात्मवृत्तिविवक्षामात्रेणैव त्रैविध्यमुक्तमित्यभिहितं । _ 'चउसट्ठिआ आयसमोआरेणं'मित्यादि सुबोधमेव, नवरं चतुःषष्टिका चतुष्पलमाना पूर्व निर्णीता, ततश्चैषा लघुप्रमाणत्वादष्टपलमानत्वेन बृहत्प्रमाणायांद्वात्रिंशतिकायां समवतरतीति प्रतीतमेव, एवं द्वात्रिंशतिकाऽपि षोडशपलमानायां षोडशिकायां षोडशिकाऽपि द्वात्रिंशत्पलमानायामष्टभागिकायाम् अष्टभागिकाऽपि चतुःषष्टिपलमानायां चतुर्भागिकायां चतुर्भागाकाऽप्यष्टाविंशत्यधिशकतपलमानामर्द्धमाणिकायां एषाऽपि षट्पञ्चाशदधिकपलशतद्वयमानायां माणिकायां समवरति, आत्मसमावतारस्तु सर्वत्र प्रतीत एव। समाप्तो द्रव्यसमावतारः । मू. (३२२ वर्तते) से किं तं खेत्तसमोआरे ?, २ दुविहे पं०, तं०-आयसमोआरे अ तदुभयसमोआरे अ, भरहे वासे आयस० आयभावे स०, तदभयसमोआरेणं जंबुद्दीवे समो० आयभावे अ, जंबुद्दीवे आयसमो० आयभावे समोअरइ, तदुभयसमोआरेणं तिरियलोए समोअरइ आयभावे, तिरियलोए आयसमोआरेणं आयभावे समोअरइ, तदुभयसमोआरेणं लोए समोअरइ आयभावे अ, से तं खेत्तसमोआरे। से किंतं कालसमोआरे?, २ दुविहे पन्नत्ते, तंजहा-आयसमोआरे अतदुभयसमोआरे अ, समए आयसमोआरेणं आयभावे समोअरइ, तदुभयसमोआरेणं आवलिआए समोयरइ आयभावे अ एवमानापानू थोवे लेवे मुहुत्ते अहोरत्ते पक्खे मासे ऊऊ अयने संवच्छरे जुगे वाससए वाससहस्से वाससयसहस्से पुव्वंगे पुव्वे तुडिअंगे तुडिए अडडंगे अडडे अववंगे अववेहूहूअंगे हूहूए उप्पलंगे उप्पले पउमंगे पउमे नलिअंगे नलिने अच्छनिउरंगे अच्छनिउरे अउअंगे अउए Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy