________________
मूलं-३१७
४५३ अन्ये त्वाचार्याः प्रतिपादयन्ति-जघन्यमनन्तानन्तकं वारत्रयंपूर्ववत् वय॑ते, ततश्चैतै षडनन्तकप्रेक्षपाः प्रक्षिप्यन्ते, तद्यथा- "
"सिद्धा निगोयजीवा वणस्सई काल पुग्गला चेव।
सव्वमलोगागासं छप्पेतेऽनंतपक्खेवा॥" । अयमर्थ:-सर्वे सिद्धाः सर्वे सूक्ष्मबादरनिगोदजीवाः प्रत्येकानन्ताः सर्वे वनस्पतिजन्तवः सर्वोऽप्यतीतानागतवर्तमानकालासमयराशिः सर्वपुद्गलद्रव्यसमूह: सर्वोऽलोककाशप्रदेराशिः एते च प्रत्येकमनन्तस्वरूपाः षट् प्रक्षेपाः, एतैश्च प्रक्षिप्तैर्यो राशिर्जायते स पुनरपि वारत्रयं पूर्ववद्वर्यते, तथाऽप्युत्कृष्टमनन्तानन्तकं न भवति, ततश्च केवलज्ञानकेवलदर्शनपर्यायाः प्रक्षिप्यन्ते, एवं च सत्युत्कृष्टमनन्तानन्तकं संपद्यते, सर्वस्यैव वस्तुजातस्य संग्रहीतत्वात्, अतः परंवस्तुसत्त्वस्यैव सङ्ख्याविषयस्वयाभावादिति भावः, सूत्राभिप्रायस्त्वित्थमप्यनन्तानन्तकमुत्कृष्टं न प्राप्यते, अजघन्योत्कृष्ट स्थानानामेवतत्र प्रतिपादितत्वादिति, तत्त्वं तु केवलिनो विदन्तीति भावः। ..
सूत्रे च यत्र कुत्रापि अनन्तानन्तकं गृह्यते तत्र सर्वत्राजघन्योत्कृष्टं दृष्टव्यम्। तदेवं प्ररूपितमनन्तानन्तकं तत्परूपणे च समाप्ता गणनसङ्ख्या। ___ अथ भावसङ्ख्यानिरूपणार्थमाह-'से किं तं भावसंखा' इत्यादि, इह सङ्ख्या(खा)शब्देन प्रागुक्तयुक्त्या शङ्खाः परिगृह्यन्ते, अत एव नामस्थापनादिबहुविचारविषयत्वात् सङ्ख्याप्रमाणात् गुणप्रमाणं पृथगुक्तम्, अन्यथा सङ्ख्याया अपि गुणत्वाद्, गुणप्रमाणे एवान्तर्भावः स्यादिति। तत्र भावशङ्खस्वरूपं दर्शयितुमाह-'जे इमे'इत्यादि, ये इमे-प्रज्ञापकप्रत्यक्षा लोकप्रसिद्धा वा 'जीवाः' आयु:-प्राणादिमन्तः शङ्खगतिनामगोत्राणि इति शङ्खगतिनामगोत्रशब्देनेह शङ्खप्रायोग्यं तिर्यग्गतिनाम गृह्यते, तस्य चोपलक्षणार्थत्वाद् द्वीन्दियजात्यौदारिकशरीरङ्गोपाङ्गादीन्यपि गृह्यन्ते, ततश्च शङ्खप्रायोग्यं तिर्यग्गत्यादिनामकर्म नीचैर्गोत्रलक्षणंगोत्रकर्म च विपाकतो वेदयन्ति ये जीवास्त एव भावसंख्या: प्रोच्यन्ते, तदेवं समाप्तं सङ्ख्याप्रमाणम्, __ अतो निगमयति-'से तं संखप्पमाणे'त्ति, तत्समाप्तौ चावसितं भावप्रमाणमित्याह-'सेतं भावप्पमाणे'त्ति, एतदवसानेच निःशेषितं प्रमाणद्वारमित्युपसंहरति-'सेतं पमाणे'त्तिा प्रमाणद्वारं समाप्तम्।
अथ क्रमप्राप्तं वक्तव्यताद्वारं निरूपयितुमाहमू.(३१८)से किंतंवत्तव्वया?, २तिविहा पन्नत्ता, तंजहा-ससमयवत्तव्वया परसमयवत्तव्बया ससमयवत्तव्वया। से किं तं समयवत्तव्वया?, २ जत्थ णं ससमए आघविज्जइ पन्नविज्जइ परूविज्जइ दंसिज्जइ निदंसिज्जइ उवदंसिज्जइ, से तं ससमयवत्तव्वया।
से किं तं परसमयवत्तव्वया?, २ जत्थंणं परसमए आघविज्जइ जाव उवदंसिज्जइ, सेतं परसमयवत्तव्वया। सेकिंतंससमयपरसमयवत्तव्वया?, २ जत्थ णं ससमए परसमए आघविज्जइ जाव उवदंसिज्जइ, से तं ससमयपरसमयवत्तव्वया। .
इदानीं को नओ कं वत्तव्वयं इच्छइ?, तत्थ नेगमसंगहववहारा तिविहं वत्तव्वयं इच्छंति, तंजहा-ससमयवत्तव्वयं परसमयवत्तव्वयं ससमयवत्तव्वयं, उज्जुसुओ दुविहं वत्तव्वयं इच्छइ,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org