SearchBrowseAboutContactDonate
Page Preview
Page 453
Loading...
Download File
Download File
Page Text
________________ ४५० अनुयोगद्वार-चूलिकासूत्रं प्रक्षिप्यते तदा जघन्यं परीतासंख्येयकं भवति। तेण पर'मित्यादि सूत्र, ततः परंपरीतासंख्येयकस्यैवाजघन्योत्कृष्टानि स्थानानि भवन्ति, यावदुत्कृष्टं परीतासंख्येयकं न प्राप्नोति, शिष्यः पृच्छति-कियत्पुनरुत्कृष्टं परीतासंख्येयकं भवति?, अत्रोत्तरं-'जहण्णयं परीतासंख्येञ्जयं' - इत्यादि, जघन्यं परीतासंख्येयकं यावत्प्रमाणं भवतीति शेषः, तावत्प्रमाणानां जघन्यपरीतासंख्येयकमात्राणां-जघन्यपरीतासंख्येयकगतरूपसंख्यानामित्यर्थः, राशीनामन्योऽयमभ्यास:परस्परं गुणनास्वरूप एकेन रूपेणोनमुत्कृष्टं परीतासंख्येयकं भवति, इदमत्र हृदयं-प्रत्येक जघन्यपरीतासंख्येयक एव यावन्ति रूपाणि भवन्ति तावन्तः पुञ्जा व्यवस्थाप्यन्ते, तैश्च परस्परगुणितैर्यो राशिर्भवति, स एकेन रूपेण हीन उत्कृष्टं परीतासंख्येयकं मन्तव्यम्। अत्र सुखप्रतित्त्यर्थमुदाहरणं दर्श्यते-जघन्यपरीतासंख्येयके किलासत्कल्पनया पञ्च रूपाणि संप्रधार्यन्ते, ततः षञ्चैव वाराः पञ्च पञ्च व्यवस्थाप्यन्ते, तथाहि-५५५५५, अत्र पञ्चभिः पञ्च गुणिताः पञ्चविंशतिः, सा च पञ्चभिराहता जातं पञ्चविंश शतमित्यादिक्रमेणामीषां राशीनां परस्पराभ्यासे जातानि पञ्चविंशत्यधिकान्येकत्रिंशच्छतानि, एतत्प्रकल्पनया एतावन्मानः सद्भावतस्त्वसंख्येयरूपो राशिरेकेन रूपेण हीन उत्कृष्टं परीतासंख्येयकं संपद्यते, यदा तु तदप्यधिकं रूपं गण्यते तदा जघन्यं युक्तासंख्येयकं जायते, अत एवाह 'अहवा जहन्नयं जुत्तासंखेञ्जय'मित्यादि, अनन्तरोक्ताद्धि युक्तासंख्येयकादेस्मिन् रूपे समाकर्षित उत्कृष्टं परीतासंख्येयकं निष्पंद्यते इति प्रतीयते एवेति। उक्तं जघन्यादिभेदभिन्नं त्रिविधं परीतासंख्येयकम्, अथ तावद्भेदभिन्नस्यैव युक्तासंख्येयकस्य निरूपणार्थमाह'जहन्नयं जुत्तासंखेञ्जयं कित्तिय'मित्यादि, अत्रोत्तरं जहन्नयं परित्तासंखेञ्जय'मित्यादि, व्याख्या पूर्ववदेव, नवरम्-'अन्नमनब्भासो पडिपुत्रो'त्ति अन्योऽन्याभ्यस्तः स परिपूर्ण एव राशिरिह गृह्यते, न तु रूपं पात्यत इति भावः, 'अहवा उक्कोसए परित्तासंखेञ्जए'त्यादि, भावितार्थमेव, 'आवलिया तत्तिया चेव'त्ति यावन्ति जघन्ययुक्तासंख्येयके सर्षपरूपाणि प्राप्यन्ते आवलिकायामपि तावन्तः समया भवन्तीत्यर्थः, ततः सूत्रे यत्रावलिका गृह्यते तत्र जघन्ययुक्तासंख्येयकतुल्यसमयराशिमाना सा दृष्टव्या। ___ 'तेन पर'मित्यादि ततो जघन्ययुक्तासंख्येयकात् परत: एकोत्तरया वृद्धया असंख्येयान्यजएन्योत्कृष्टानि युक्तासंख्येयस्थानानि भवन्ति यावदुत्कृष्टं युक्तासंख्येयकं न प्राप्नोति । अत्र शिष्यः पृच्छति-'उक्कोसयं जुत्तासंखेञ्जय'मित्यादि, अत्र प्रतिवचनम्-'जहन्नएण'मित्यादि, जघन्येन युक्तासंख्येयकेनावलिकासयम राशिगुण्यते, किमुक्तं भवति?, अन्योऽन्यमभ्यासः क्रियते, जघन्ययुक्तासंख्येयकराशिस्तेनैव राशिना गुण्यत इति तात्पर्यम्, एवं च कृते यो राशिर्भवति स एव एकेन रूपेणोनः उत्कृष्टंयुक्तासंख्येयकं भवति, यदि पुनस्तदपि रूपंगण्यते तदा जघन्यमसंख्येयासंख्येयकं जायते, अत एवाह-'अहवा जहन्नयं असंखिञ्जासंखिञ्जयं रूवूणं'मित्यादि, गतार्थम्। उक्त युक्तासंख्येयकं त्रिविधम्, इदानीमयुक्तासंख्येयासंख्येयकं त्रिविधं बिभणिषुराह'जहन्नयं असंखिञ्जासंखेञ्जय'मित्यादि, इदं तु सूत्रं भावितार्थमेव, नवरं पडिपुत्रोत्ति-परिपूर्णो, रूपं न पात्यत इत्यर्थः, अहवेत्याद्यपि गतार्थम्। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy