________________
अनुयोगद्वार - चूलिकासूत्रं स्याप्यकाराद्यक्षरस्य तदभिधेयस्य च जीवादिवस्तुनः प्रत्येकमनन्तपर्यायत्वात्, एवमन्यत्राषि भावना कार्या, नवरं सङ्ख्येयान्यकाराद्यक्षराणि, द्वाद्यक्षरसंयोगरूपाः सङ्ख्येयाः सङ्घाताः सुप्तिङन्तानि समयप्रसिद्धानि वा संख्येयानि पदानि, गाथादिचतुर्थाशरूपाः सङ्ख्येयाः पादाः सङ्ख्येया गाथाः, संख्येयाश्च श्लोकाः प्रतीताः, एवं छन्दोविशषरूपा: संख्येया वेष्टकाः, निक्षेपनिर्यु क्त्यु - पोद्घातनिर्युक्तिसूत्रस्पर्शक नियुक्तिलक्षणा त्रिविधा निर्युक्तिः, व्याख्योपायभूतानि सत्पद-प्ररूपणतादीन्युपक्रमादीनि वा सङ्ख्येयान्यनुयोगद्वाराणि, सङ्ख्येया उद्देशाः, सङ्ख्येयान्य-ध्ययनानि, सङ्ख्येयाः श्रुतस्कन्धाः, सङ्ख्येयान्यङ्गानि, एषा कालिकश्रुतपरिमाणसङ्ख्या, एवं दृष्टिवादेऽपि भावना कार्या, नवरं प्राभृतादयः पूर्वान्तर्गताः श्रुताधिकारविशेषा: । 'सेत 'मित्यादि निगमन्द्वयम् ।
४४६
'से किं तं जाणणासंखा' इत्यादि, 'जाणणा' ज्ञानं संख्यायते-निश्चीयते वस्त्वनयेति सङ्ख्या, ज्ञानरूपा सङ्ख्या ज्ञानसङ्ख्या, का पुनरियम् ?, उच्यते, यो देवदत्तादिर्यच्छब्दादिकं जानाति स तञ्जानाति, तच्च जानन्नसावभेदोपचाद् ज्ञानसङ्ख्येयत्युपस्कारः, शेषं पाठसिद्धम् ।
मू. (३१७ वर्तते ) से किं तं गणनासंखा ?, २ एक्को गणनं न उवेइ, दुप्पभिइ संखा, तं जहा- संखेज्जए असंखेज्जए अनंतए ।
से किं तं संखेज्जए ?, २ तिविहे पन्नत्ते, तंजहा- जहन्नए उक्कोसेए अजहन्नमनुक्कोसए । से किं तं असंखेज्जए ?, २ तिविहे पन्नत्ते, तंजहा - परित्तासंखेज्जए जुत्तासंखेज्जए असंखेज्जासंखेज्जए । से किं तं परित्तासंखेज्जए ?, २ तिविहे पन्नत्ते, तंजहा- जहन्नए उक्कोसए अजहन्नमनुकोसए । से किं तं जुत्तासंखेज्जइ ?, २ तिविहे पन्नत्ते, तंजहा- जहन्नए उक्कोसए अजहन्नमनुक्कोसए । से किं तं असंखेज्जासंखेज्जए ?, २ तिविहे पन्नत्ते- तंजहा- जहन्नए उक्कोसए अजहन्नमनुक्कोसए ।
से किं तं अनंतए ?, २ तिविहे पन्नत्ते, तंजहा- परित्तानंतए जुत्तानंतए अनंत्तानंतए । से किं तं परित्तानंतए ?, २ ति० प०, तं० - जहन्नए उक्कोसए अजहन्नमनुक्कोस । से किं तं जुत्तानंतए ?, २ तिविहे पन्नत्ते, तंजहा- जहन्नए उक्कोसए अजन्नम० ।
से किं तं अनंतानंतर ?, २ दुविहे पन्नत्ते, तंजहा- जहन्नए अजहन्नमनुक्कोसए । जहन्नयं संखेज्जयं केवइअं होइ ?, दोरूवयं, तेनं परं अजहन्नमनुक्कोसयाई ठाणाई जाव उक्कोसेयं संखेज्जयं न पावइ ।
वृ. एतावन्त एते इति संख्यानं गणनसंख्या, तत्र 'एगो गणनं न उवेइ' एकस्तावद्गणनंसङ्ख्यां नोपैति, यत एकस्मिन् घटादौ दृष्टे घटयदि वस्त्विदं तिष्ठतीत्येवमेव प्राय: पतीतिरुत्पद्यते नैकसङ्ख्याविषयत्वेन अथवा आदानसमर्पणादिव्यवहारकाले एकं वस्तु प्रायो न कश्चिद्गणयत्यतोऽसंव्यवहार्यत्वादल्पत्वाद्वा नैको गणनसङ्ख्यामवतरति, तस्माद्द्द्विप्रभृतिरेव गणनसङ्ख्या, सा च सङ्ख्येयकादिभेदभिन्ना, तद्यथा-सङ्ख्येयकमसङ्ख्येयकमनन्तकं, तत्र संख्येयकं जघन्यादिभेदात् त्रिविधम्, असंख्येयकं तं परीतासंख्येयकं युक्तासंख्येयकं, असङ्ख्येयासङ्ख्येयकं, पुनरेकैकं जघन्यादिभेदात्रिविधमिति सर्वमपि नवविधम्, अनन्तकमपि परीतानन्तकं युक्तानन्तकं अनन्तानन्तकम्, अत्राद्यानन्तभेदद्वये जघन्यादिभेदात् प्रत्येकं त्रैविध्यम्, अनन्तानन्तकं
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org