________________
४४५
मूलं-३१७ वृक्षात्पतद्भ्रश्यत्पत्रं गाथां भणतीति सम्बन्धः, परिणतत्वादेव नि:क्षीरं वृक्षविोयगादित्वलक्षणं व्यसनं प्राप्त कालप्राप्त-विनाशकालप्राप्तमिति। ___ तामेव गाथामाह-'जह तुब्भे'इत्यादि, वृक्षात्पतता केनचिञ्जिीर्णपत्रेण किशलयानाश्रित्योक्तं, किं तद्?, उच्यते-शृणुत भो उद्गच्छत्कोमलपत्रविशेषरूपाणि किशलयान्यवहितानि भूत्वा, वृक्षात्पतत् मल्लक्षणं पाण्डुपत्रं युष्माकं 'अप्पाहेइ' इति कथयति, किं तदित्याह-'जह तुब्भे तह अम्हे'त्ति, यथा पुष्पदभिनवस्निग्धकान्तीनि कमनीयकामिनीकरतलस्पर्शलक्ष्मीकानि सकलजनमनोनेत्रानन्ददायीनि साम्प्रतं भवन्ति दृश्यन्ते तथा वयमपि पूर्वमास्तेमि क्रियाध्याहारः, यथा च परिजीर्णपर्यन्तादिस्वरूपाणि साम्प्रतं वयं वर्तेमहि यूयमपि निश्चितं कालेन तथा भविष्यथ इति न काचित् स्वसमृद्धौ गर्ववुद्धिः परासमृद्धौ तु हेलामतिविधेया, अनित्यत्वात्सलकसमृद्धिसम्बन्धानामिति भावः । नन्वलौकिकमिदं यत्पत्राणि परस्परं जल्पन्ति, सत्यमित्याह__ 'नवि अत्थि' गाहा सुगमा, नवरं वृक्षपत्रसमृद्धयसमृद्धिश्रवणतोऽनित्यतावगमेन भव्यानां सांसारीकसमृद्धिषु निर्वेदो यथा स्यादित्यसद्भूतोऽपि पत्राणामिहालाप उक्त इति भावः, तदेवं 'जह तुब्भे तह अम्हे' इत्यत्र किशलयपत्रावस्थया पाण्डुपत्रावस्था उपमीयते, एवं चोपमानभूतकिशलयपत्रावस्था तत्कालभावित्वात्सती पाण्डुपत्राणां तूपमेयभूता साऽवस्था भूतपूर्वत्वादसती, 'तुब्भेविय होहिहा' इत्यादौ तु पाण्डुपत्रावस्था किशलयपत्रावस्था उपमीयते, तत्राप्युपमानभूता पाण्डुपत्रावस्था तत्कालयोगित्वात्सती किशलयदलानां तूपमेयभूता सा भविष्यत्कालयोगित्वादसती, अतोऽसत्सता उपमीयत तृतीयभङ्गविषयता संगच्छते, सुधिया तु यदि घटते तदाऽन्यथाऽपि सा वाच्येति।। ___ चतुर्थभङ्गे असंतयं असंतएणे'त्यादि, यथा खरविषाणमभावरूपं प्रतीतं तथा शशविषाणमप्यभावरूपं निश्चेतव्यं, यथा वा शशविषामभावरूपंनिश्चितमित्थमितरदपिज्ञातव्यमिति भावः, एवं चोपमानोपमेययोरसत्त्वं स्फटमेवेति।
मू.(३१७ वर्तते) से किं परिमाणसंखा?, २ दुविहा पन्नत्ता, तं०-कालिअसुयपरिमाणसंखा दिट्ठिवायसुअपरिमाणसंखा य। से किं तं कालिअसुअपरिमाणसंखा ?, २ अनेगविहा पनत्ता, तंजहा-पज्जवसंखा अक्खरसंखासंघायसंखा पयसंखा पायसंखा गाहासंखा सिलोगसंखा वेढसंखा निज्जुत्तिसंखा अनुओगदारसंखा उद्देसगसंखा अज्झयणसंखा सुअखंधसंखा अंगसंखा, से तं कालिअसुअपरिमाणसंखा ।
से किं तं दिट्ठिवायसुअपरिमाणसंखा?, २ अनेगवीहा पन्नत्ता, तंजहा-पज्जवसंखा जाव अनुओगदारसंखा पाहुडसंखा पाहुडिआसंखा पाहुडपाहुडिआसंखा वत्थुसंखा, से तं दिट्ठिवायसुअपरिमाणसंखा से तं जाणणासंखा, २ जो जं जाणइ तंजहा-सदं सदिओ गणियं गणिओ निमित्तं नेमित्तिओ कालं कालनाणी वेज्जयं वेज्जो, से तं जाणणासंखा।।
वृ. संख्यायते अनयेति सङ्ख्या, परिमाणं पर्यवादि तद्रूपा संख्या परिमाणसंख्या, सा च कालिकश्रुतदृष्टिवादविषयत्वेन द्विविधा, तत्र कालिकश्रुतपरिमाणसङ्ख्यायां पर्यवसङ्ख्या इत्यादि, पर्यवादिरूपेण-परिणामविशेष कालिकश्रुतं संख्यागत इति भावः, तत्र पर्यवाः पर्याया धर्मा इतियावत् तद्रूपा सङ्ख्या पर्यवसङ्ख्या, सा च कालिकश्रुते अनन्तायात्मिका दृष्टव्या, एकैक
___www.jainelibrary.org
Jain Education International
For Private & Personal Use Only