________________
मूलं-३०३
४२७ मनुस्सादि चउपयं गवमादि बहुपयं गोमिआदि सीह केसरेणं वसहं कुक्कुहेणं महिलं वलयबाहाए, गाहाम. (३०४) परिअरबंधेण भडंजाणिज्जा महिलिअंनिवसनेनं।
सित्थेण दोणगागं कविं च एक्काए गाहाए॥ वृ.अनु-लिङ्गग्रहणसम्वन्धस्मरणस्य पश्चान्मीयते परिच्छिद्यते वस्त्वनेनेति अनुमानं, तच्च त्रिविधं-पूर्ववत् शेषवत् दृष्टसाधर्म्यवच्चेति । 'से किं तं पुव्व'मित्यादि, विशिष्टं पूर्वोपलब्धं चिह्नमिह पूर्वमुच्यते, तदेव निमित्तरूपतया यस्यानुमानस्यास्ति तत्पूर्ववत्, तद्वारेण गमकमनुमानं पूर्ववदिति भावः।
तथा चाह-'माता पुत्र'मित्यादिश्लोकः, यथा माता स्वकीयं पुत्र बाल्यावस्थायां नष्टं युवानं सन्तं कालान्तरेण पुनः कथमप्यागतं काचित्तथाविधस्मृतिपाटववती, न सर्वाः, पूर्वदृष्टेनलिङ्गेन केनचित्क्षतादिना प्रत्यभिजानीयात्-मत्पुत्रोऽयमिति अनुमिनुयादित्यर्थः, केन पुनलिङ्गेनेत्याह-'क्षतेन वे'त्यादि, स्वदेहोद्भवमेव क्षतं, आगन्तुकस्तु श्वदंष्ट्रादिकृतो व्रणः, लाञ्छनमपतिलकास्तु प्रतीताः, तजयमत्र प्रयोगो-मत्पुत्रोऽयम्, अनन्यसाधारणक्षतादिलक्षणविशिष्टलिङ्गोपलब्धेरिति साधर्म्यदृष्टान्तयोः सत्त्वेतराभावादयमहेतुरिति चेत्, नैवं, हेतोः परमार्थेनैकलक्षणत्वात्, तबलेनैव गमकत्वोपलब्धेः, उक्तं च न्यायवादिना पुरुषचन्द्रेण
___ "अन्यथाऽनुपपन्नत्वमात्रं हेतोः स्वलक्षणम्।
सत्त्वासत्त्वे ति तद्धमौं, दृष्टान्तद्वयलक्षणे॥ तद्धर्माविति-अन्यथानुपपन्नत्वधर्मों, कथम्भूते सत्त्वासत्त्वे इत्याह-साधर्म्यवैधर्म्यरूपे दृष्टान्तद्वये लक्ष्यते-निश्चीयते [अथ यदि] दृष्टान्तद्वयलक्षणेन च धर्मिसत्तायां धर्माः सर्वेऽपि सर्वदा भवन्त्येव, पटादेः शुक्लत्वादिधर्मैय॑(रव्य)भिचारात्, ततो दृष्टान्तयोः सत्त्वासत्त्वधर्मों यद्यपि क्वचिद्वेतौ न दृश्येते तथापि धर्मिस्वरूपमन्यथानुपपन्नत्वं भविष्यतीति न कश्चिद्विरोध . इति भावः।
यत्रापि धूमादौ दृष्टान्तयोः सत्त्वासत्त्वे हेतोदृश्येते तत्रापि साध्यान्यथानुपपन्नत्वस्यैव प्राधान्यात्तस्यैवैकस्य हेतुलक्षणताऽवसेया, तथा चाह
"धूमादेर्यद्यपि स्यातां, सत्त्वासत्त्वे स्वलक्षणे।
_ अन्यथानुपपन्नत्वप्राधान्याल्लक्षणैकता।" किंच-यदि दृष्टान्ते सत्त्वासत्त्वेदर्शनाद्धेतुर्गमक इष्यते तदा लोहलेख्यं वजं पार्थिवत्वात् काष्ठादिवदित्यादेरपि गमकत्वं स्याद्, अभ्यधायि च - ...
"दृष्टान्ते सदसत्त्वाभ्यां, हेतुः सम्यग् यदिष्यते।
लोहलेरूयं भवेद्वजं, पार्थिवत्वाद् द्रुमादिवद् ॥” इति यदि च-पक्षधर्मत्वसपक्षसत्त्वविपक्षासत्त्वलक्षणं हेतोस्त्रैरूप्यमभ्युपगम्यापि यथोक्तदोषभयात साध्येन सहान्यथानुपपन्नत्वमन्वेषीणं तर्हि तदेवैकं लक्षणतया वक्तमुचितं, किं रूपत्रयेणेति, आह च
"अन्यथानुपपन्नत्वं, यत्र तत्र त्रयेण किम् ? ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org