________________
मूलं-२९९
४२५ गुणितम्, इदमुक्तं भवति-अङ्गलप्रमाणे प्रतरक्षेत्र सद्भावतोऽसङ्ख्यया अपिकल्पनया द्वेशते षट्पञ्चाशदधिके श्रेणीनां भवतः २५६, अत्र प्रथमवर्गमूलं १६ द्वितीयं ४ तृतीयं २, तत्र द्वितीयं वर्गमूलं चतुष्टयलक्षणं तृतीयेन द्विकलक्षणेन गुणितं, जाता अष्टो, एवमेताः सद्भूततयाऽस
येयाः कल्पनया त्वष्टौ श्रेणयो विस्तरसूचिरिह गृह्यते, 'अहन न'मित्यादि, अथवा अङ्गलतृतीयवर्गमूलस्य द्विकलक्षणस्य यो घन: अष्टौ, एतावत्यः श्रेणयोऽत्र विष्कम्भसूच्यां गृह्यन्ते इति स एवार्थः, तदेवं भुवनपत्यादिसूचिरेषाऽससङ्घयेयगुणहीना मन्तव्या, शेषं सुखोत्रेयं यावत्
"सेतं खेत्तपलिओक्मे'त्ति। तदेवं 'समयावलियमुहुत्ते'त्यादिगाथानिर्दिष्टास्तदुपलक्षिताश्वान्येऽप्युच्छासादयो व्याख्याताः कालविभागाः, अत आह-'से तं विभागनिप्फन्ने'त्ति, एवं च समर्थितं कालप्रमाणमित्याह-'से तं कालप्पमाने'त्ति। अथ भावप्रमाणमभिधित्सराह__ मू. (३००) से किं तं भावप्पमाणे?, २ तिविहे पन्नते, तंजहा-गुणप्पमाणे नयप्पमाणे संखप्पमाणे।
वृ. भवनं भावो-वस्तुनः परिणामो ज्ञानादिर्वर्णादिश्च, प्रमितिः प्रमीयते अनेन प्रमीयते स इति वा प्रमाणं, भाव एव प्रमाणं भावप्रमाणं, भावसाधनपक्षे प्रमितिः-वस्तुपरिच्छेदस्तद्धेतुत्वाद्भावस्य प्रमाणाताऽवसेया, तच्च भावप्रमाणं, त्रिविधं प्रज्ञप्तं, तद्यथा। __ मू.(३०१)से किं तं गुणप्पमाणे?, २ दुविहे पन्नते, तंजहा-अजीवगुणप्पमाणे अ। से किंतं अजीवगुणप्पमाणे?, २ पंचविहे पन्नते, तंजहा-वनगुणप्पमाणे गंधगुणप्पमाणे रसगुणप्पमाणे फासगुणप्पमाणे संठाणगुणप्पमाणे, से किं तं वनगुणप्पमाणे?, २ पंचविहे पन्नते, तंजहा-कालवत्रगुणप्पमाणे जाव सुकिल्लवनगुणप्पमाणे, से तं वनगुणप्पमाणे ।
से किंतंगंधगुणप्पमाणे?, २ दुविहे पन्नत्ते, तंजहा-सुरभिगंधगुणप्पमाणे दुरभिगंधगुणप्पमाणे, सेतंगंधगुणप्पमाणे। से किंतंरसगुणप्पमाणे?, २ पंचविहे पन्नत्ते, तंजहा-तित्तरसगुणप्पमाणे जाव महुररसगुणप्पमाणे, से तं रसगुणप्पमाणे।
से किं तं फासगुणप्पमाणे?, २ अट्ठविहे पन्नत्ते, तंजहा-कक्खडफासगुणप्पमाणे जाव लुक्खफासगुणप्पमाणे, से तं फासगुणप्पमाणे । से किं तं संठाणगुणप्पमाणे ?, २ पंचविहे पन्नत्ते तंजहा-परिमंडलसंगणगुणप्पमाणे वट्टसं० तंस० चउरंस० आययसंठाणगुणप्पमाणे, से तं संठाणगुणप्पमाणे, से तं अजीवगुणप्पमाणे।।
वृ.'गुणप्रमाण'मित्यादि, गुणो-ज्ञानादिः स एव प्रमाणं गुणप्रमाणं, प्रमीयते च गुणैव्यं, गुणाश्च गुणरूपता प्रमीयन्तेऽतः प्रमाणता, तथा नीतयो नया:-अनन्तधर्मात्मकस्य वस्तुन एकांशपरिच्छित्तयः त एव प्रमाणं नयप्रमाणं,सङ्ख्यानं सङ्ख्या सैव प्रमाणं सङ्ख्याप्रमाणं, नयसङ्खये अपि गुणत्वं न व्यभिचरतः, केवलं गुणप्रमाणात् पृथगभिधाने कारणमुपरिष्टाद्वक्ष्यते, तत्र गुणप्रमाणं द्विधा जीवगुणप्रमाणंच अजीवगुणप्रमाणंच, तत्राल्पवक्तव्यत्वाद जीवगुणप्रमाणमेव तावदाह-'से कितं अजीवगुणप्पमाणे' इत्यादि, एतत्सर्वमपि पाठसिद्धं, नवरंपरिमण्डलसंस्थानं वलयादिवत्, वृत्तमयोगोलकवत्, त्यस्रंत्रिकोणं शृंङ्गाटकफलवत् चतुरस्रं समचतुष्कोणम्, आयतं-दीर्धमिति ।
मू.(३०१ वर्तते) से किं तंजीवगुणप्पमाणे?, २ तिविहे पन्नते, तंजहा- नाणगुणप्पमाणे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org