SearchBrowseAboutContactDonate
Page Preview
Page 419
Loading...
Download File
Download File
Page Text
________________ - ४१६ अनुयोगद्वार-चूलिकासूत्रं तोऽनन्तोत्सर्पिण्यवसर्पिणीसमयराशिसङ्ख्यानि क्षेत्रतोऽनन्तलोकप्रदेशराशिमानानि द्रव्यतः सिद्धेभ्योऽनन्तगुणानि अनन्तभागन्यूनसर्वजीवसङ्ख्याप्रमाणानि, तत्स्वामिनामनन्तत्वात्, नन्वौदारिकस्यापि स्वामिनो विद्यन्तेऽनन्ता च तान्येतावत्सङ्ख्यान्युक्तानि, अत्रोच्यते, औदारिकं मनुष्यतिरश्चामेव भवति, तत्रापि साधारणशरीरिणामनन्तानामेकैकमेव, इदं चतुर्गतिकानामप्यस्ति, साधारणशरीरिणां च प्रतिजीवमेकैकं प्राप्यते, ततस्तैजसानि सर्वसंसारिजीवसङ्ख्यानि भवन्ति, संसारिणश्च जीवाः सिद्धेभ्योऽनन्तगुणाः, अत एतान्यपि सिद्धेभ्योऽनन्तगुणान्युक्तानि, सर्वजीवसङ्ख्यां तु न प्राप्नुवन्ति, सिद्धजीवानां तदसम्भवात्, सिद्धाश्च शेषजीवानामनन्तभागे वर्तन्ते, अतः सिद्धजीवलक्षणेनानन्तभागेन हीना ये सर्वजीवास्तत्सङ्ख्यान्यभिहितानि, मुक्तान्यपि अनन्तानि, कालतोऽनन्तोत्सर्पिण्यवर्पिणीसमयराशितुल्यानि, क्षेत्रतोऽनन्तलोकानां ये प्रदेशास्तत्तुल्यानि, द्रव्यतः सर्वजीवेभ्योऽनन्तगुणानि, तर्हि जीवराशिनैव जीवाशिर्गुणितो जीववर्गो भण्यते, एतावत्सङ्ख्यानि तानि भवन्ति?, नेत्याह- . _ 'जीववग्गस्स अनंतभागो'त्ति, सर्वजीवाः सद्भावतोऽनन्ता अपि कल्पनया किल दश सहस्राणि तानि च तैरेव गुणितानि ततोऽसत्कल्पनया दशकोटि सङ्ख्या सद्भावतस्त्वनन्तानन्तसङ्ख्यो जीववर्गो भवति, तस्यानन्तगुणकल्पनया शततमे भागे एतानि वर्तन्ते, अतः सद्भावतोऽनन्तान्यपि किल जशलक्षसङ्ख्यानि तानि सिद्धानि, किं कारणं जीववर्गसङ्ख्यान्येव न भवन्ति?, उच्यते, यानि यानि तैजसानि मुक्तान्यनन्तभेदैभिद्यन्ते तानि तान्यसख्येयकालादूर्ध्वं तं परिणाम परित्यज्य नियमात् परिणामान्तरमासादयन्ति, अतः प्रतिनियतकालावस्थायित्वादुष्कृष्टतोऽपि यथोक्तङ्यान्येवैतानि समुदितानि प्राप्यन्ते नाधिकानीत्यलमतिविस्तरेण। ___'केवइयाणं कम्मए'इत्यादि, तैजसकार्मणयोः समानस्वामिकत्वात्सर्वदैव सहचरितत्वाच्च समानैव वक्तव्यतेति । तदेवमोघतः पञ्चापि शरीराण्युक्तानि, साम्प्रतं तान्येव नारकादिचतुर्विंशतिदण्डके विशेषतो विचारयितुमाह मू.(२९९ वर्तते )नेरइयाणं भंते! केवइया ओरालिअसरीरा पं०?, गो०! दुविहा पन्नत्ता, तंजहा-बद्धलया य मुक्केल्लया य, तत्थ नं जे ते बद्धेलया ते नं नत्थि, तत्थ नंजे ते मुक्केल्लया ते जहा ओहिआ ओरालिअसरीरा तहा भाणिअव्वा, नेरइयाणं भंते ! केवइया वेउव्विसरीरा पं०?, गो० ! दुविहा पन्नत्ता, तंजहा-बद्धलया य मुक्केल्लया य, तत्थ णं जे ते बद्धेलगातेनं असंखिज्जा असंखिज्जाहिं अस्सप्पिणीओसप्पिणीहिं अवहीरति कालओ खेत्तओ असंखेज्जाओ सेढीओ पयरस्स असंखिज्जइभागो तासिणं सेढीणं विक्खंभसूईअंगुलपढमवग्गमूलंबिइअवग्गमूलपडुप्पन्नं अहवनं अंगुलबिइअवग्गमूलघणपमाणमेत्ताओ सेढीओ, तत्थ णं जे ते मुक्केल्लया ते णं जहा ओहिआ ओरालिअसरीरा तहा भाणिअव्वा, नेरइयाणं भंते ! केवइया आहारगसरीरा पन्नत्ता?, गो० ! दुविहा पन्नता, तंजहा-बद्धे० मुक्के०, तत्थ णं जे ते बद्धेल्लया ते णं नत्थि, तत्थ णं जे ते मुक्केल्लया ते जहा ओहिआ ओरालिआ तहा भाणिअव्वा, तेयगकम्मगसरीरा जहा एएसिं चेव वेउव्विअसरीरा तहा भाणिअव्वा।। असुरकुमाराणं भंते! केवइआ ओरालियसरीरा पं०? गो० ! जहा नेरइयाणं ओरालि तहा Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy