SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ नन्दी - चूलिकासूत्रं ग्रहणेऽनवस्थाप्रसक्तेः, न च कार्यकारणभावविषये प्रत्यक्षं प्रावर्त्तिष्ट, ततः कथं तत्रानुमानप्रवृत्ति: ?, एवं ज्ञानक्षणयोरपि परस्परं कायकारणभावावगमः प्रत्यस्तो वेदितव्यः, तत्रापि स्वेन स्वेन संवेदनेन स्वस्य स्वस्य रूपस्य ग्रहणे परस्परस्वरूपानवधारणादेतदनन्तरमहमुत्पन्नतस्य चाहं जनकमित्यनवगतेः, तन्न भवन्मतेन कार्यकारणभावो, नापि तदवगमः, ततो याचितकमण्डनमेतद्-एकसन्ततिपतितत्वादेकाधिकरणं बन्धमोक्षादिकमिति । एतेन यदुच्यते-उपादेयोपादानक्षणानां परस्परं वास्यवासकभावादुत्तरोत्तरविशिष्टविशिष्टतरक्षणोत्पत्तेः मुक्तिसम्भव इति, तदपि प्रतिक्षिप्तमवसेयम्, उपादानोपादेयभावस्यैवोक्तनीत्याऽनुपपद्यमानत्वात्, योऽपि च वास्यवासक व उक्तः सोऽपि युगपद्भाविनामेवोपलभ्यते, यथा तिलकुसुमानां, उक्तं चान्यैरपि - "अवस्थिता हि वास्यन्ते, भावा भावैरवस्थितैः " तत् कथमुपादेयोपादानक्षणयोर्वास्यवासक भावः ?, परस्परमसाहित्यात्, उक्तं च ३८ "वास्यवासकयोश्चैवमसाहित्यान्न वासना । पूर्व क्षणैरनुत्पन्नो, वास्यते नोत्तरः क्षणः ॥" उत्तरेण विनष्टत्वान्न च पूर्वस्य वासना ।।" अपि च-वासना वासकाद्भिन्ना वा स्यादभिन्ना वा?, यदि भिन्ना तर्हि तया शून्यत्वात् नैवान्यं वासयति, वस्त्वन्तरवद्, अथाभिन्ना तर्हि न वास्ये वासनायाः सङ्कान्तिः, तदभिन्नत्वात्, तत्स्वरूपवत्, संक्रान्तिश्चेत्तर्हि अन्वयप्रसङ्ग इति यत्किञ्चिदेतत् । यदप्युक्तं सकलमपि जगद्रागद्वेषादिदुःखसंकुलमभिजानानाः कथमिदं सकलमपि जगत् मया दुःखादुद्धर्तव्यमित्यादि, तदपि पूर्वापरासम्बद्धबन्धकीभाषितमिव केवलधाष्टर्यसूचकं, यतो भवन्मतेन क्षणा एव पूर्वापरक्षणत्रुटितानुगमाः परमार्थसन्तः, क्षणानां चावस्थानकालमानमेकपरमाणुव्यतिक्रममात्रम्, अत एवोत्पत्तिव्यतिरेकेण नान्या तेषां क्रिया सङ्गतिमुपपद्यते, 'भूतिर्येषां क्रिया सैव, कारकं सैव चोच्यते' इतिवचनात्, ततो ज्ञानक्षणानुमुत्पत्त्यनन्तरंन मनागप्यवस्थानं, नापि पूर्वापरक्षणाभ्यामनुगमः, तस्मान्न तेषां परस्परस्वरूपावधारणं, नाप्युत्पत्त्यनन्तरं कोऽपि व्यापारः, ततः कथमर्थोऽयं मे पुरः साक्षात्प्रतिभासते इत्येवमर्थनिश्चयमात्रमप्यनेकक्षणसम्भवि अनुस्यूतमुपपद्यते ?, तदभावाच्च कुतः सकलजगतो रागद्वेषादिदुःखसंकुलतया परिभावनं ?, कुतो वा दीर्घतरकालानुसन्धानेन शास्त्रार्थचिन्तनं ?, यत्प्रभावतः सम्यगुपायमभिज्ञाय कृपाविशेषात् मोक्षाय घटनं भवेदिति । ननु सर्वोऽयं व्यवहारो ज्ञानक्षणसन्तत्यपेक्षया, नैकक्षणमधिकृत्य, तत्केयमनुपपत्तिरुद्भाव्यते ?, उच्यते, सुकुमारप्रज्ञो देवानांप्रिय, सदैव सप्तघटिकामध्यमिष्टान्न भोजनमनो-ज्ञशयनी - यशयनाभ्यासेन सुखैधितो न वस्तुयाथात्म्यावगमे चित्तपरिक्लेशमधिसहते, तेनास्माभिरुक्तमपि न स्म्यगवधारयसि, ननु ज्ञानक्षणसन्ततावपि तदवस्थैवानुपपत्तिः, तथाहि--वैकल्पिका अवैकल्पिका वा ज्ञानक्षणाः परस्परमनुगमाभावादविदितपरस्परस्वरूपाः, न च क्षणार्द्धमवतिष्ठन्ते, ततः कथमेष पूर्वापरानुसन्धानरूपो दीर्घकालिकः सकलजगद्दुःखितापरिभावनशास्त्रविमर्शादिरूपो व्यवहार उपपद्यते ?, अक्षिणी निमील्य परिभाव्यतामेतत्, यदप्युच्यते स्वग्रन्थेषुनिर्विकल्पकमर्थाकारमुत्पन्नं पूर्वदर्शनाहितवासनाप्रबोधात्तं विकल्पं जनयति येन पूर्वापरानुसन्धानात्मकोऽर्थनिश्चयादिव्यवहारः प्रवर्त्तते, तदप्येतेनापाकृतमवसेयं, यतो विकल्पोऽप्यने For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy