________________
मूलं - ३
३७
"
परिवर्पवान् भवति, तृष्णावशाच्च सुखसाधनेषु दोषान् सतोऽपि तिरस्कृरुते, गुणंस्त्वभूतानपि पश्यति, ततो गुणदर्शी सन् तानि ममत्वविषयीकरोति, तस्माद्यवदात्माभिनिवेशः तावत् संसारः, “यः पश्यत्यात्मानं तत्रास्याहमिति शाश्वतः स्नेहः । स्नेहात् सुखेषु तृष्यति तृष्णा दोषास्तिरस्कुरुते ॥१॥" गुणदर्शी परितृप्यन् ममेति तत्साधनान्युपादत्ते । तेनात्माभिनिवेशो यावत् तावत्स संसारे ||२||”
तदेतत् सर्वमन्त:करणकृतावासमहामोहमहीयस्ताविलसितम्, आत्माभावे बन्धमोक्षाद्येकाधिकरणत्वायोगात्, तथाहि--यदि नात्माभ्युपगम्यते किन्तु पूर्वापरक्षणत्रुटितानुसन्धाना ज्ञानक्षणा एव, तथा सत्यन्यस्य बन्धोऽन्यस्य मुक्तिः अन्यस्य क्षुद् अन्यस्य तृप्तिरन्योऽनुभविता अन्यः स्मर्त्ता अन्यश्चिकित्सादुःखमनुभवति अन्यो व्याधिरहितो जायते अन्यस्तपः परिक्लेशमधिसहते अपरः स्वर्गसुखमनुभवति अपरः शास्त्रमभ्यसितुमारभते अन्योऽधिगतशास्त्रार्थो भवति, न चैतद्युक्तम्, अतिप्रसङ्गात्, सन्तानापेक्षया बन्धमोक्षादेरेकाधिकरण्यमिति चेत्, न, सन्तानस्यापि भवन्मतेनानुपपद्यमानत्वात्, सन्तानो हि सन्तानिभ्यो भिन्नो वा स्यादभिन्नो वा ?, यदि भिन्नः तर्हि पुनरपि विकल्पयुगलमुपढौकते, स किं नित्यः क्षणिको वा ?, यदि नित्यस्ततो न तस्य बन्धमोक्षादिसम्भवः, आकालमेकस्वभावतया तस्यावस्थावैचित्र्यानुपपत्तेः, न च नित्यं किमप्यभ्युपगम्यते, 'सर्वं क्षणिक 'मिति वचनात्, अथ क्षणिकः तर्हि तदेव प्राचीनं बन्धमोक्षादिवैयधिकरण्यं प्रसक्तम्, अथाभिन्न इति पक्षस्तर्हि सन्तानिन एव न सन्तानाः, तदभिन्नत्वात्, तत्स्वरूपवत्, तथा च सति तदवस्थमेव प्राक्तनं दूपणमिति ।
स्यादेतत्-न कश्चिदन्यः क्षणेभ्यः सन्तानः, किन्तु य एव कार्यकारणभावप्रबन्धेन क्षणानां भाव: स एव सन्तानः, ततो न कश्चिद्दोप:, तदप्ययुक्तम्, भवन्मते कार्यकारणभावस्याप्यघटमानत्वात्, तथाहि - प्रतीत्यसमुत्पादमात्रं कार्यकारणभाव:, ततो यथा विवक्षितघटक्षणानन्तरं घटक्षणः तथा पटादिक्षणोऽपि यथा च घटक्षणात् प्रागनन्तरो विवक्षितो घटक्षणः तथा पटादिक्षणा अपि, ततः कथं प्रतिनियतकार्यकारणभावावगमः ?, किञ्च
कारणादुपजायमानं कार्यं सतो वा जायेत असतो वा ?, यदि सतः तर्हि कार्योत्पत्तिकालेऽपि कारणं सदिति कार्यकारणयोः समकालताप्रसङ्गः, न च समकालयोः कार्यकारणभाव इष्यते, मात्रपत्याद्यविशेषाद्, घटपटादीनामपि परस्परं कार्यकारणभावप्रसङ्गः, अथासत इति पक्षः, तदप्ययुक्तम्, असत: कार्योत्पादायोगाद्, अन्यथा खरविषाणादपि तदुत्पत्तिप्रसक्तेः, न चात्यन्त-भावप्रध्वंसाभावयोः कोऽपि विशेषः, उभयत्रापि वस्तुसत्त्वाभावात्, प्रध्वंसाभावे वस्त्वासीत् तेन हेतुरिति चेत् यदाऽऽसीत् तदा न हेतुः अन्यदा च हेतुरिति साध्वी तत्त्वव्यवस्थितिः, अन्यच्चतद्भावे भाव इत्यवगमे कार्यकारणभावावगमः, स च तद्भावे भावः किं प्रत्यक्षेण प्रतीयते उतानुमानेन ?, न तावत्प्रत्यक्षेण, पूर्ववस्तुगतेन हि प्रत्यक्षेण पूर्वं वस्तु परिच्छित्रमुत्तरवस्तुगतेन तूत्तरं, न चैते परस्परस्वरूपमवगच्छतो, नाप्यन्योऽनुसन्धाता कश्चिदेकोऽभ्युपगम्यते, तत एतदनन्तरमेतस्य भाव इति कथमवगमः ?, नाप्यनुमानेन, तस्य प्रत्यक्षपूर्वकत्वात्, तद्धि लिङ्गलिङ्गिसम्बन्धग्रहणपूर्वकं प्रवर्त्तते, लिङ्गलिङ्गिसम्बन्धश्च प्रत्यक्षेण ग्राह्यो नानुमानेन, अनुमानेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org