________________
मूलं-२८३
४०३ __ तत्राद्यं निरूपयितुमाह-‘से किं तं उद्धारपलिओवमे' इत्यादि, उद्धारपल्योपमं द्विविधं प्रज्ञप्तं, तद्यथा-वालाग्राणां सूक्ष्मखण्डकरणात् सूदं च तेषामेव सांव्यवहारिकप्रत्यक्षव्यवहारिभिर्गृह्यमाणानामखण्डानां यथावस्थितानां ग्रहणात् प्ररूपणामात्रव्यवहारोपयोगित्वाद्व्यावहारिकं चेति, तत्र यत् सूक्ष्मं तत् स्थाप्यं-तिष्ठतु तावद्, व्यावहारिकप्ररूपणापूर्वकत्वादेतत्प्ररूपणायाः, पश्चात् प्ररूपयिष्यते इति भावः । तत्र यत्तद्व्यावहारिकमुद्धारपल्योपमं तदिदमिति शेषः, तदेव विवक्षुराह___'सेजहानामए' इत्यादि, तद्यथानाम धान्यपल्य इव पल्यः स्यात्, सच वृत्तत्वादायामविष्कम्भाभ्यां-दैर्घ्यविस्तराभ्यां प्रत्येकमुत्सेधाङ्गलक्रमनिष्पन्नं योजनं ऊर्ध्वमुच्चत्वेनापि तद्योजनं त्रिगुणं सविशेषं 'परिक्खेवेणं' भ्रमितिमङ्गीकृत्येति, सर्वस्यापि वृत्तपरिधेः किञ्चिन्यूनषड्भागाधिकत्रिगुणत्वादस्यापि पल्यस्य किञ्चिबहुवचनलोपादेकाहिकव्याहिकत्र्याहिकाणामुत्कर्षतः सप्तरात्रप्ररूढानां भृतो बालग्रकोटीनामिति सम्बन्धः, तत्र मुण्डिते शिरस्येकेनाद्दना यावत्प्रमाणा बालाग्रकोठ्य उत्तिष्ठन्ति ता एकाहिक्यः द्वाभ्यां तु या उत्तिष्ठन्ति ता द्वयाहिक्तः त्रिभिस्तु त्र्याहिक्यः, कथंभूत इत्याह-'संमृष्ट' आकर्णं पूरितः 'सन्निचितः' प्रचयविशेषान्निबिडीकृतः। .
किंबहुना?, एवंभूतोऽसौ भृतो येन तानि बालाग्राणि नाग्निर्दहेत् न वायुरपहरेत्, अतीव निचितत्वादग्निपवनावपि न तत्र क्रमेते इत्यर्थः, 'नो कुहेज्ज'त्ति नो कुथ्येयुः प्रचयविशेषादेव शुषिराभावात् वायोरसम्भवाच्च नासारतां गच्छेयुः, अत एव च 'नो परिविद्धंसेज्ज'त्ति कतिपयपरिशाटनमप्यङ्गीकृत्य न परिविध्वंसेरनित्यर्थः, अत एव च 'नो पूइत्ताए हव्वमागच्छेज्ज'त्ति न पूतित्वेन कदाचिद यागच्छेयुः-न कदाचिदुर्गन्धितां ग्राप्नुयुरित्यर्थः, 'तओ णं'ति तेभ्यो बालाग्रेभ्यः समये समये एकैकं वालाग्रमपहृत्य कालो मीयते इति शेषः, ततश्च 'जावइएण'मित्यादि, यावता कालेन स पल्यः क्षीणो' बालाग्रकर्पणात् क्षयसुपागतः आकृष्टधान्यकोष्ठागारवत्,तथा 'नीरए'त्ति निर्गतरजःकल्पसूक्ष्मवालाग्रोऽपकृष्टधान्यरजःकोष्ठागारवत्, तथा 'निल्लेवि'त्ति अत्यन्तसंश्लेपात् तन्मयतागतवालाग्रलेपापहारानिर्लेप: अपनीतभित्त्यादिगतधान्यलेपकोष्ठागारवद्, एभित्रिभिः प्रकारैर्निष्ठितो-विशुद्ध इत्यर्थः, एकार्थिका वा एते शब्दाः अत्यन्तविशुद्धिप्रतिपादनपराः, वाचनान्तरदृश्यमानं च अन्यदपि पदमुक्तानुसारेण व्याख्येयम्, एतावत्कालस्वरूपं बादरमुद्धारपल्योपमं भवति, एतच्च पल्यान्तर्गतवालाग्राणां सङ्ग्येयत्वात् सङ्ख्येयैः समॉस्तदपहारसम्भवात् सङ्ख्येयसमयमानं द्रष्टव्यम्। ‘से त'मित्यादि निगमनम। ___ व्यावहारिकं पल्योपमं निरूप्याथ सागरोपममाह-'एएसिं पल्लाण' गाहा, एतेषाम्' अनन्तरोक्तपल्योपमानां दशभिः कोटाकोटिभिरेकं व्यावहारिकं सागरोपमंभवतीति तात्पर्य, शिष्यः पृच्छति-एतैर्व्यावहारिकपल्योपमसागरोपमैः किं प्रयोजनं?-कोऽर्थं साध्यते?, तत्रोत्तरंनास्ति किञ्चित्प्रयोजनं, निरर्थकस्तर्हि तदुपन्यास इत्याशङ्कयाह-केवलं प्रज्ञापना प्रज्ञाप्यतेप्ररूपणामानं क्रियत इत्यर्थः, ननु निरर्थकस्य प्ररूपणयाऽपि किं कर्तव्यम्?, अतो यत्किञ्चिदेतत्, नैवम्, अभिप्रायापरिज्ञानाद्, एवं हि मन्यते-बादरे प्ररूपिते सूक्ष्मं सुखावसेयं स्याद् अतो बादरप्ररूपणा सूक्ष्मोपयोगित्वान्नैकान्ततौ नैरर्थक्यमनुभवति, तर्हि नास्ति किञ्चित्प्रयोजन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org