________________
३८९
-
मूलं-२६७ इक्करयणी अ, वालुअप्पहापुढवीए नेरइआणं भंते ! के महालिआ सरीरोगाहए पन्नत्ता?, गो० ! दुविहा पन्नत्ता, तंजहा- भवधारणिज्जा उत्तरवेउव्विआ य, तत्थ नं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखिज्जइभागं उक्कोसेणं बासट्ठि धनूइं, दो रयणीओ अ, एवं सव्वासिं पुढवीणं पृच्छा भाणिअव्वा,
पंकप्पहाए पुढवीए भवधारणिज्जा जहन्नेणं अंगुलस्स असंखिज्जइभागं उक्कोसेणं बासट्ठि धनइं, दो रयणीओ अ, उत्तरवे० जहन्नणं, अं० सं० उक्कोसेणं पणवीसं धनुसयं, धूमप्पहाए भवधा० अंगुलाई, अ० उक्कोसेणं पणवीसं धनुसयं, उत्तरवे० अंगुलस्स संखे० उक्कोसेणं अड्डाइजाइंधनुसयाई, तमाए भवधारणिज्जा० अंगुलस्सअसं० उक्कोसेणं अड्डाइज्जाइंधनुसयाई, उत्तरवे० अंगुलस्ससं० उक्कोसेणं पंच धनुसयाई, तमतमाए पुढवीए नेरइयाणं भंते! के महालिआ सरीरोगाहणा पं०?, गो० ! दुविहा पन्नत्ता, तंजहा- भवधारणिज्जा य उत्तरवे०, तत्थ नं जा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखिज्जइभागं उक्कोसेणं पंच धनूसयाइं तत्थ णं जा सा उत्तरवे० सा जहन्नेणं, अंगुलस्स सं० उक्कोसेणं धनुसहस्साई,
असुरकुमाराणं भंते ! के महालिआ सरीरोगाहणा पं०?, गो० ! दुविहा पन्नत्ता, तंजहाभवधारणिज्जा उत्तरवे० य, तत्थणंजा सा भवधारणिज्जा सा जहनेणं अंगुलस्सअसंखिज्जइभागं उक्कोसेणं सत्त रयणीओ, उत्तरवे० सा जहन्नेणं, अंगुलस्स सं० उक्कोसेणं जोयणसयसहस्सं, एवं असुरकुमारगमेणं जाव थणियकुमाराणं भाणिअव्वा।
वृ. अवगाहन्ते-अवतिष्ठन्ते जीवा अस्यामित्यवगाहना-नारकादितनुसमवगाढं क्षेत्रं नारकादितनुरेववा, यद्यनेनोत्सेधांगुलेन नारकादीनां शरीरावगाहना मीयते तहि भदन्त! नारकाणां तावत् 'के महालिया' कियन्महती किं महत्त्वोपेता कियतीत्यर्थः, शरीरस्यावगाहना शरीरमेव वा अवगाहना भवद्भिरन्यैश्च तीर्थकरैः सदेवमनुजासुरायां पर्षदि प्रज्ञप्ता-प्ररूपिता?, अत्र भगवान् गौतममामन्त्र्योत्तरमाह-गौतम ! द्विविधा-द्विप्रकारा प्रज्ञप्ता, तद्यथा-भवधारणीया चोत्तरवैक्रिया च, ननु शरीरावगाहनायाः प्रमाणे पृष्टे तद्विविध्यलक्षणभेदकथनमप्रस्तुतमिति चेत्, नैवं, तत्प्रमाणकथनाङ्गत्वात्तस्य, न हि विलक्षणप्रमाणयुक्तेन भेदद्वयेन व्यवस्थिताया अवगाहनायास्तद्भेदकथनमन्तरेण प्रतिनियतं किञ्चित्प्रमाणं प्ररूपयितुं शक्यते, भेदोपन्यासे तु प्रतिभेदनियतं तत्कथ्यत इति भावः, तत्र भावे-नारकादिपर्यायभवनलक्षणे आयुसमाप्ति यावत्सततं ध्रियते या सा भवधारणीया, सहजशरीरगतेत्यर्थः, या तु तद्ग्रहणोत्तरकालं कार्यमाश्रित्य क्रियते सा उत्तरवैक्रिया, तत्र भवधारणीया जघन्यतोऽगुलासङ्खयेयभागमात्रा उत्पद्यमानानां, उत्कृष्टा तु पञ्चधनुःशतमाना सप्तमपृथिव्याम्, उत्तरवैक्रिया त्वाद्यसमयेऽप्यंगुलस्य सङ्खयेयभाग एव भवति, तथाविधप्रयत्नाभावतोऽसङ्ख्येयस्य भागस्य कर्तुमशक्यत्वादिति भावः, उत्कृष्टा तु धनुःसहस्रप्रमाणा सप्तमपृथिव्यामेव, ओघतो नारकाणां शरीरावगाहनामानं प्रतिपाद्य तदेव विशेषतो निरूपयितुमाह-'रयणप्पहापुढवी' इत्यादि, सूत्रसिद्धमेव, नवरमुत्कृष्टावगाहना सर्वास्वपि पृथिवीषु स्वकीयस्वकीयचरमप्रस्तटेषु दृष्टव्याः भवधारणीयायाश्चोत्कृष्टायाः सकाशादुत्तरवैक्रिया सर्वत्र द्विगुणाऽवसेया, तदेवं
"नेरइया असुराई पुढवाई बेंदियादओ तहय ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org