________________
मूलं-२५३
३७९ ततश्चैकद्वित्र्यादिप्रदेशनिष्पन्नत्वलक्षणेन स्वस्वरूपेणैव प्रमीयमाणत्वात्परमाण्वादिद्रव्यस्यापि कर्मसाधनाप्रमाणशब्दवाच्यताऽदुष्टैव, करणसाधनपक्षे त्वेकद्विव्यादिप्रदेशनिष्पन्नत्वलक्षणं स्वरूपमेव मुख्यतया प्रमाणमुच्यते द्रव्यं तु तत्स्वरूपयोगदुपचारतः, भावसाधनतायां तं प्रमितेः प्रमाणप्रमेयाधीनत्वादुपचारादेव प्रमाणप्रमेययोः प्रमाणताऽवगन्तव्या, तदेवं कर्मसाधनपक्षे परमाण्वादि द्रव्यं मुख्यतया प्रमाणमुच्यते, करणभावसाधनपक्षयोस्तूपचारत इत्यदोषः।
इदं च यथोत्तरमन्यान्यसंख्योपेतैः स्वगतैरेव प्रदेशैर्निष्पन्नत्वात् प्रदेशनिष्पन्नमुक्तं, द्वितीयं तु स्वगतप्रदेशान् विहायापरो विविधो विशिष्टो वा भागो-भङ्गो विकल्पः प्रकार इतियावत्तेन निष्पन्न विभागनिष्पन्नं, तथाहि-न धान्यमानादेः स्वगतप्रदेशाश्रयणेन स्वरूपं निरूपयिष्यते अति तु 'दो असईओ पसई'त्यादिको यो विशिष्टः प्रकारस्तेनेति। . तच्च पञ्चविधं, तद्यथा-मानम् उन्मानम् अवमानं गणिमं प्रतिमानं, पुनरपि मानप्रमाणं द्विधा-धान्यमानप्रमाणं च रसमानप्रमाणंच, तत्र मानमेव प्रमाणं मानप्रमाणं धान्यविषयं मानप्रमाणं, तच्च 'दो असईओ' इत्यादि, अश्नुतेतत्प्रभवत्वेन समस्तधान्यमानानि व्याप्नोतीत्यसति:-अवाड्मुखहस्ततलरूपा, तत्परिच्छिन्नं धान्यमपि तथोच्यते, तद्वयेन निष्पन्ना नावाकारताव्यवस्थापितप्राञ्जलकरतलरूपा प्रसृतिः, द्वे च प्रसूति सेतिका, सा च नेह प्रसिद्धा गृह्यते, मागधदेशप्रसिद्धस्यैवात्र मानस्य प्रतिपिपादयिषितत्वाद्, अत इयं तत्प्रसिद्धा काचिदवगन्तव्याः चतस्रः सेतिका: कुडवः, ते चत्वारः प्रस्थः, अमी चत्वार आढक इत्यादि सूत्रसिद्धमेव, यावदष्टभिराढकशतैनिर्वृत्तो वाहः, अत्राह शिष्यः-एतेनासत्यादिना धान्यमानप्रमाणेन किं प्रयोजनंकिमनेन विधीयते इत्यर्थः, अत्रोत्तरं, एतेन धान्यमानप्रमाणेन 'मुक्तोलीमुखेदूरालिन्दापचारसंश्रितानां' मुक्तोल्याद्याधारगतानां धान्यानां धान्यस्य यन्मानम्-इयत्तालक्षणं तदेव प्रमाणं तस्य निर्वत्तिः-सिद्धिस्तस्या लक्षणं-परिज्ञानं भवति, एतावदत्र धान्यमस्तीति परिज्ञानं भवतीत्यर्थः, तत्र मुक्तोली-मोट्टा(द्दा)अध उपरि च सङ्कीर्णा मध्ये त्वीषद्विशाला कोष्टिका, सुखं गळ्या उपरि यद्दीयते, सुम्बादिव्यूतं ढञ्चनकादि तदिदूरं, आलिन्दकं-कुण्डुल्कम् अपचारिदीर्घतरधान्यकोष्ठाकाविशेषः। ___ रसमानप्रमाणमाह-से किंत'मित्यादि, रसो-मद्यादिस्तद्विषयं मानमेव प्रमाणं रसमानप्रमाणं, किमित्याह-धान्यमानप्रमाणात् सेतिकादेश्चतुर्भागविवर्द्धितं-चतुर्भागाधिकम् अभ्यन्तरशिखायुक्तं यद् रसमानं विधीयते-क्रियते तद्रसमानप्रमाणमुच्यते, धान्यस्याद्रवरूपत्वात्किल शिखा भवति, रसस्य तु द्रवरूपत्वान्न शिखासम्भवोऽतो बहि:शिखाभावात् धान्यामानच्चतुर्भागवृद्धिलक्षणया अभ्यन्तरशिखया युक्तत्वाच्चभ्यन्तरशिखायुक्तमित्युक्तं, तद्यथा-चतुःषष्टिकेत्यादि, इदमुक्तं भवति-षट्पञ्चाशदधिकशतद्वयपलमाना माणिकानाम वक्ष्यमाणं रसमानं, तस्य चतुः-षष्टितमभागनिष्पना अर्थादेव चतुष्पलप्रमाणा चतुःषष्टिका, एवं माणिकाया एव द्वात्रिंशत्तमभागवर्तित्वादष्टपलप्रमाणा द्वात्रिंशिका, तथा माणिकाया एव षोडशभागवर्तित्वात् षोडशपलप्रमाणा षोडशिका, तस्या एवाष्टमभागवर्तित्वात् द्वात्रिंशत्पलप्रमाणा अष्टभागीका, तस्या एव चतुर्भागवर्तित्वात् चतुःषष्टिपलमाना चतुर्भागीका, तस्या एवार्द्धभागवर्तिनी अष्टाविंशत्यधिकपलशतमानाऽर्द्धमाणिका, इदं च बहुषु वाचनाविशेषेषु
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org