________________
३६८
अनुयोगद्वार-चूलिकासूत्रं विलपितप्रम्लानरुदितानि लिङ्गानि-लक्षणानि यस्य स तथा, तत्र शोचितं-मानसो विकारः, शेषं विदितमिति।
'पज्झाये' त्याद्युदाहरणगाथा, अत्र प्रियविप्रयोगभ्रमितां बालां प्रति वृद्धा काचिदाह-तस्य कस्यचित्त प्रियतमस्य वियोगे हे पुत्रिके ! दुर्बलकं ते मुखं जातं, कथंभूतं ? -'पज्झायकिलामितयं' ति प्रध्यातं-प्रियजनविषयमतिचिन्तितं तेन क्लान्तः, 'बाहागयपप्पुअच्छियंति बाष्पस्यागतम्-आगमनं तेनोपप्लुते-व्याप्ते अक्षिणी यत्र तत्तथा, बहुश:-अभीक्ष्यमिति।
अथ हेतुलक्षणद्वारेणैव प्रशान्तरसमुदाहरतिमू. ( २३१) निहोसमणसमाहानसंभवो जो पसंतभावेनं।
अविकारलक्खो सो रसो पसंतोत्ति नायव्वो॥ मू. ( २३२) पसंतो रसो जहा-सब्भावनिविगारं उवसंतपसंतसोमदिट्ठि।
ही जह मुनिनो सोहइ मुहकमलं पीवरसिरिअं॥ मू. ( २३३) एए नव कव्वरसा बत्तीसादोसविहिसमुप्पन्ना। .
___ गाहार्हि मुनियव्वा हवंति सुद्धा व मीसा वा॥ मू.(२३४)से तं नवनामे।
वृ. निर्दोष-हिंसादिदोषरहितं यन्मनस्तस्य यत्समाधाचं-विषयाद्यौत्सुक्यनिवृत्तिलक्षणं स्वास्थ्यं तस्मात्सम्भवो यस्य स तथा, प्रशान्तभावेन-क्रोधादिपरित्यागेन यो भवतीति गम्यते, स प्रशान्तो रसो ज्ञातव्य इति घटना, स चाविकारलक्षणोनिर्विकारताचिह्न इत्यर्थः। । ____ 'सब्भावे'त्याधुदाहरणगाथा, प्रशान्तवदनं कञ्चित्साधुमवलोक्य कश्चित्समीपस्थितं कञ्चिदाश्रित्य प्राह-हीति प्रशान्तभावातिशयद्योतकः, पश्य भो! यथा मुनेर्मुखकमलं शोभते, कथंभूत?-सद्भावतो न मातृस्थानतो निर्विकार-विभूषाभ्रूक्षेपादिविकाररहितम्, उपशान्ता रूपालोकनाद्यौत्सुक्यत्यागतः प्रशान्ता क्रोधादिदोषपरिहारतोऽत एव सौम्या दृष्टिर्यत्र तत्तथा, अस्मादेव च पीवरश्रीकम्-उपचितोपशमलक्ष्मीकमिति।
साम्प्रतं नवानामपि रसानां संक्षेप्तः स्वरूपं कथयन्नुपसंहरनाह-'एए नवकव्व' गाहा, एते नव काव्यरसाः, अनन्तरोक्तगाथाभिर्यथोक्तप्रकारेणैव मुणितव्या' ज्ञातव्याः, कथंभूता?,'अलियमुवधायजनयं निरत्थयमवत्थयं छलं दुहिल' मित्यादयोऽत्रैव वक्ष्यमाणा ये द्वात्रिंशत् सूत्रदोषास्तेषां विधिः-विरचनंतस्मात् समुत्पन्नाः, इदमुक्तं भवति-अलीकतालक्षणो यस्तावत् सूत्रदोष उक्तस्तेन कश्चिद् रसो निष्पद्यते, यथा -
__ "तेषां कटतटभ्रष्टैगजानां मदबिन्दभिः।
प्रावर्तत नदी घोरा, हस्त्यश्वरथवाहिनी॥" इत्येवंप्रकारं सूत्र मलीकतादोषदुष्टं, रसश्चायमुद्भुतः, ततोऽनेनालीकतालक्षणेन सूत्रदोषेणाद्भुतो रसो निष्पन्नः, तथा कश्चिद्रस उपघातलक्षणेन सूत्रदोषेण निवर्त्यते यथा -
‘स एव प्राणिति प्राणी, प्रीतेन कुपितेन च।
वितैविपक्षरक्तैश्च, प्रीणिता येन मार्गणाः ' इत्यादिप्रकारं सूत्रं परोपघातलक्षणदोषदुष्टं वीररसञ्चायं, ततोऽनेनोपघालक्षणेन सूत्रदोषेण
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org