SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ मूलं-२२६ वृ.अशुचि-मूत्रपुरीषादि वस्तु कुणपं-शवः अपरमपि यदुर्दर्शनंगलल्लालादिकराल शरीरादि तेषां संयोगाभ्यासाद्अभीक्ष्णं तदर्शनादिरूपात् तद्गन्धाच्च निष्पन्नो बीभत्सो रसो भवतीति सम्बन्धः, किंलक्षण इत्याह-निर्वेदश्च अकारस्य लुप्तस्य दर्शनादविहिंसा च तल्लक्षणं यस्य स तथा, तत्र निर्वेदः-उद्वेग, अविहिंसा-जन्तुघातादिनिवृत्तिः, इह च शरीरादेरसारतामुपलभ्य हिंसादिपापेभ्यः कश्चिन्निवर्तते इत्यविहिंसाऽपि तल्लक्षणत्वेनोक्तति। 'असुई" त्याद्युदाहरणगाथा, इह कश्चिदुपलब्भशरीराद्यसारतास्वरूप: प्राह-कलि:-जघन्यः कालविशेषः कलहो वा तत्र सर्वानिष्टहेतुत्वात् सर्वकलहमूलत्वाद्वा शरीरमेव कलिः शरीरकलिस्तं मू»त्यागेन मुक्तिगमनकाले सर्वथात्यागेन वा धन्याः केचिद्विञ्चन्तीति सण्टङ्कः, कथंभूतम् ? अशुचिमलभूतानि निर्झराणि-श्रोत्रादिविवराणि यस्य तत्तथा, सर्वकालमपि स्वभावतो दुर्गन्धं तथा बहुमलकलुषमिति, एवं वाचनान्तराण्यपि भावनीयानि। अथ हास्यरसं हेतुलक्षणाभ्यामाहमू. ( २२७) रूववयवेसभासाविवरीअविलंबणासमुप्पन्नो। हासो मनप्पहासो पगासलिंगो रसो होइ॥ मू. (२२८) हासो रसो जहा- पासुत्तमसीमंडिअपडिबुद्धं देवरं पलोअंती। ही जह थणभरकंपनपनमिअमज्झा हसइ सामा॥ वृ.रूपवयोवेषभाषाणां हास्योत्पादनार्थं वैपरीत्येन या विडम्बना-निवर्तना तत्मुत्पन्नो हास्यो रसो भवतीति संयोगः, तत्र पुरुषादेोषिदादिरूपकरणं रूपवैपरीत्यं, तरुणादेव॒द्धादिभावापादानं वयोवैपरीत्यं, राजपुत्रोदेर्वाणिगादिवेषधारणं वेषण्वैपरीत्यं, गुर्जरादेस्तुमध्यदेशादिभाषाभिधानं भाषावैपरीत्यं, स च कथंभूतः, स्पादित्याह-'मणप्पहासो'त्ति मनःप्रहर्षकारी प्रकाशो-नेत्रवक्त्रादिविकाशस्वरूपो लिङ्ग यस्य स तथा, अथवा प्रकाशानि-प्रकटान्युदरप्रकम्पनाऽट्टहासादीनि लिङ्गानि यस्येति स तथेति। 'पासुत्तमसी'त्यादिनिदर्शनगाथा, इह कयाचिद्वध्वा प्रसुप्तो निजदेवरश्चसूर्या मषीमण्डनेन मण्डितः, तं प्रबुद्धं च सा हसति, तां च हसन्तीमपुलभ्य कश्चित्पार्श्ववर्तिनं कञ्चित्पार्श्ववर्तिनं कञ्चिदामन्त्र्य प्राह-हीति कन्दर्पातशयद्योतकं वचः, पश्यत भोः श्यामा स्त्री यथा हसतीति सम्बनन्धः, किं कुर्वती-देवरं प्रलोकयन्ती, कथंभूतं ?-'पासुत्ते'त्यादि छिनप्ररूढादिवदत्र कर्मधारयः, पूर्वं प्रसुप्तश्च असौ ततो मषीमण्डितश्चासौ ततोऽपि प्रबुद्धश्च स तथा तं, कथंभूता?स्तनभरकम्पनेन प्रणतं मध्यं यस्याः सा तथेति। अथ हेतुतो लक्षणतश्च करुणरसस्वरूपमाहमू. (२२९) पिअविप्पओगबंधवहवाहिविनिवायसंभमुप्पन्नो। सोइअविलविअपम्हाणरुन्नलिंगो रसो करुणो। मू. ( २३०)करुणो रसो जहा-पज्झायकिलामिअयं बाहागयपप्पुअच्छिअं बहुसो। तस्स विओगे पुत्तिय! दुब्बलयं ते मुहं जायं। वृ. प्रियविप्रयोगबन्धवधव्याधिविनिपातसम्भ्रमेभ्यः समुत्पन्नः करुणो रस इति योगः, तत्र विनिपात:-सुतादिभरणं सम्भ्रतः-परचक्रादिभयं, शेषं प्रतीतं, किंलक्षण इत्याह-शोचित Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003334
Book TitleAgam Suttani Satikam Part 30 Nandi Anuyoddwar
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages500
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, agam_nandisutra, & agam_anuyogdwar
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy